Bhagavad Gita – Chapter 11 – Part 2

श्रीमद्भगवद्गीता – एकादशोऽध्याय: – विश्वरूपदर्शनयोगः – भाग: २

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥

पदच्छेदः

द्यावापृथिव्योः इदम् अन्तरं हि व्याप्तं त्वया एकेन दिशः च सर्वाः दृष्ट्वा अद्भुतं रूपम् उग्रं तव इदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥

अन्वयः

महात्मन् ! द्यावापृथिव्योः इदम् अन्तरं हि त्वया एकेन व्याप्तं सर्वाः दिशः च । तव उग्रम् उतम् इदं रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् ।

पदपरिचय:

  • सम्बोधनपदम् = महात्मन्
  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = व्याप्तम् [ आप् “आप्ऌ व्याप्तौ” + क्त प्रत्यय:, अ. नपुं. प्र. एक. ]
    • (कर्मणि) कर्तृपदम् = त्वया
    • (कर्मणि) कर्तृविशेषणम् =एकेन
    • कर्म-वाक्यांश:
      • (कर्मणि) कर्मपदम् =अन्तरम्
      • (कर्मणि) कर्मविशेषणम् =इदम्
      • सम्बन्ध-पदम् = द्यावापृथिव्योः
      • कर्मविशेषण-सूचक-पदम् = हि
    • कर्म-वाक्यांश:
      • (कर्मणि) कर्मपदम् =दिशः
      • (कर्मणि) कर्मविशेषणम् =सर्वाः
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= प्रव्यथितम् [ प्र + व्यथ् “व्यथ् भयसञ्चलनयो:” + क्तप्रत्यय:, अ. पुं. प्र. एक. ]
    • कर्तृपदम् =लोकत्रयम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् =दृष्ट्वा
      • वाक्यांश
        • कर्मपदम् = रूपम्
        • कर्मविशेषणम् =उग्रम्
        • कर्मविशेषणम् =उतम्
        • कर्मविशेषणम् =इदम्
        • सम्बन्ध-पदम् = तव

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥

पदच्छेदः

अमी हि त्वां सुरसङ्घा विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति स्वस्ति इति उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥

अन्वयः

अमी हि सुरसङ्घाः त्वां विशन्ति । केचित् भीताः प्राञ्जलयः गृणन्ति । महर्षिसिद्धसङ्घाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वां स्तुवन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विशन्ति [ विश् “विश प्रवेशने” पर. लट्. प्रपु. बहु. | प्र-उपसर्गपूर्वकपदम् = प्रविशति ]
    • कर्मपदम् =त्वाम्
    • कर्तृपदम् = सुरसङ्घाः
    • कर्तृविशेषणम् =अमी [ अदस् (प्रथमा – असौ अमू अमी) स. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = हि
  • द्वितीयवाक्यम्
    • क्रियापदम् = गृणन्ति [ गॄ “गॄ शब्दे” पर. लट्. प्रपु. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = प्राञ्जलयः
    • कर्तृपदम् = भीताः
    • कर्तृविशेषणम् = केचित्
  • तृतीयवाक्यम्
    • क्रियापदम् = स्तुवन्ति [ स्तु “ष्टुञ् स्तुतौ” उभ. लट्. प्रपु. बहु. | प्रपु. – स्तौति / स्तवीति , स्तुत: / स्तुवीत: , स्तुवन्ति ]
    • कर्मपदम् =त्वाम्
    • कर्तृपदम् = महर्षिसिद्धसङ्घाः
    • करणवाचकपदम् = स्तुतिभिः
    • करणविशेषणम् = पुष्कलाभिः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् =उक्त्वा
      • कर्मपदम् =स्वस्ति
      • सम्योजकपदम् = इति

 

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।

गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥

पदच्छेदः

रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताः च एव सर्वे ॥ २२ ॥

अन्वयः

रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः सर्वे विस्मिताः एव त्वां वीक्षन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = वीक्षन्ते [ वि + ईक्ष् “ईक्ष् दर्शने” आ. लट्. प्रपु. बहु. ]
    • कर्मपदम् =त्वाम्
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = विस्मिताः
      • कर्तृविशेषणम् =सर्वे
    • कर्तृपदम् = रुद्रादित्याः
    • कर्तृपदम् = वसवः
    • वाक्यांश:
      • कर्तृपदम् = साध्याः
      • कर्तृविशेषणम् =ये (ये सन्ति ते इत्यर्थ:)
    • कर्तृपदम् = विश्वे
    • कर्तृपदम् = अश्विनौ
    • कर्तृपदम् = मरुतः
    • कर्तृपदम् = ऊष्मपाः
    • कर्तृपदम् = गन्धर्वयक्षासुरसिद्धसङ्घाः
    • सम्योजकपदम् = च

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।

बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥

पदच्छेदः

रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ २३ ॥

अन्वयः

महाबाहो ! बहुवक्त्रनेत्रं बहुबाहूरुपादं बहूदरं बहुदंष्ट्राकरालं महत् ते रूपं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् (अपि प्रव्यथित: अस्मि) ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो
  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम् = प्रव्यथिताः [ प्र + व्यथ् “व्यथ् भयसञ्चलनयो:” + क्तप्रत्यय:, अ. पुं. प्र. बहु. ]
    • कर्तृपदम् = लोकाः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् =दृष्ट्वा
      • वाक्यांश:
        • कर्मपदम् = रूपम्
        • सम्बन्ध-विशेषण-पदम् = ते
      • कर्मविशेषणम् = बहुवक्त्रनेत्रम्
      • कर्मविशेषणम् = बहुबाहूरुपादम्
      • कर्मविशेषणम् = बहूदरम्
      • कर्मविशेषणम् = बहुदंष्ट्राकरालम्
      • कर्मविशेषणम् = महत्
    • वाक्यांश:
      • क्रियापदम् =(अस्मि)
      • क्रिया-गर्भ-कर्तृपदम् = (प्रव्यथित:)
      • कर्तृपदम् = अहम्
      • सम्योजकपदम् = तथा

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

पदच्छेदः

नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

अन्वयः

विष्णो ! नभःस्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा हि प्रव्यथितारन्तात्मा (अहं) धृतिं शमं च न विन्दामि ।

पदपरिचय:

  • सम्बोधनपदम् = विष्णो
  • प्रथमवाक्यम्
    • क्रियापदम् = विन्दामि [ विद् “विदॢ लाभे” उभ. लट्. मपु. एक. ]
    • क्रियाविशेषणम् =न
    • कर्तृपदम् = (अहम्)
    • कर्तृविशेषणम् = प्रव्यथितारन्तात्मा
    • कर्मपदम् = धृतिम्
    • कर्मपदम् = शमम्
    • सम्योजकपदम् = च
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् =दृष्ट्वा
      • क्रियाविशेषणम् =हि
      • कर्मपदम् = त्वाम्
      • कर्मविशेषणम् = नभःस्पृशम्
      • कर्मविशेषणम् = दीप्तम्
      • कर्मविशेषणम् = अनेकवर्णम्
      • कर्मविशेषणम् = व्यात्ताननम्
      • कर्मविशेषणम् = दीप्तविशालनेत्रम्

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।

दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥

पदच्छेदः

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वा एव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥

अन्वयः

जगन्निवास, देवेश ! दंष्ट्राकरालानि कालानलसन्निभानि च ते मुखानि दृष्ट्वा एव दिशः न जाने । शर्म च न लभे । प्रसीद ।

पदपरिचय:

  • सम्बोधनपदम् = जगन्निवास
  • सम्बोधनपदम् = देवेश
  • प्रथमवाक्यम्
    • क्रियापदम् = जाने [ ज्ञा “ज्ञा अवबोधने” पर (अत्र आ). लट्. उपु. एक. | अनुपसर्गात् ज्ञाधातो: विकल्पेन आत्मनेपदम् | प्रपु. जानीते , जानाते, गानते ]
    • क्रियाविशेषणम् =न
    • कर्मपदम् = दिशः
    • कर्तृपदम् = (अहम्)
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् =दृष्ट्वा
      • क्रियाविशेषणम् =एव
      • वाक्यांश:
        • कर्मपदम् = मुखानि
        • सम्बन्ध-विशेषण-पदम् = ते
      • कर्मविशेषणम् = दंष्ट्राकरालानि
      • कर्मविशेषणम् = कालानलसन्निभानि
      • सम्बन्ध-विशेषण-सूचक-पदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = लभे [ लभ् “डुलभष् प्राप्तौ” आ. लट्. उपु. एक. ]
      • क्रियाविशेषणम् = न
      • कर्मपदम् =शर्म
      • कर्तृपदम् = (अहम्)
      • सम्योजकपदम् = च
    • तृतीयवाक्यम्
      • क्रियापदम् = प्रसीद [ प्र + सद् “षदॢ विशरणगत्यवसादनेषु” पर. लोट्. मपु. एक. ]
      • कर्तृपदम् = (त्वम्)

References –

  1. 4th Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6my विश्वरूपदर्शनयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Page status – <Some updates are pending>

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s