Grammatical aspects in Bhaja Govindam verse 28 – Sukhatah kriyate raamaabhogah

28. सुखतः क्रियते रामाभोगः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः

श्लोक:

सुखतः क्रियते रामाभोगः

पश्चाद्धन्त शरीरे रोगः |

यद्यपि लोके मरणं शरणं

तदपि न मुञ्चति पापाचरणम् ।। २८ ।।

पदच्छेद:

सुखतः क्रियते रामाभोगः पश्चात् हन्त शरीरे रोगः यद्यपि लोके मरणं शरणं

तत् अपि न मुञ्चति पाप+आचरणम् |

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = क्रियते [ कृ “डुकृञ् करणे” उभ. कर्मणि लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् =सुखतः [ अव्ययम् ]
    • (कर्मणि) कर्मपदम् =रामाभोगः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • उद्घोषणपदम् = हन्त [ अव्ययम् ]
    • क्रियापदम् = (भवति)
    • कर्तृपदम् =रोगः [ अ. पुं. प्र. एक. ]
    • कालवाचकपदम् = पश्चात् [ अव्ययम् ]
    • अधिकरणपदम् = शरीरे [ अ. पुं. स. एक. ]
  • तृतीयवाक्यम्
    • “यद्यपि” वाक्यांश:
      • क्रियापदम् =(भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = शरणम् [ अ. नपुं. प्र. एक. ]
      • कर्तृपदम् =मरणम् [ अ. नपुं. प्र. एक. ]
      • अधिकरणपदम् = लोके [ अ. पुं. स. एक. ]
      • सम्योजकपदम् = यद्यपि [ अव्ययम् ]
    • “तत्” वाक्यांश:
      • क्रियापदम् =मुञ्चति [ मुच् “मुच्ऌ मोक्षणे” उभ. लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = न [ अव्ययम् ]
      • कर्तृपदम् =पाप+आचरणम् [ अ. नपुं. प्र. एक. ]
      • सम्योजकपदम् = तत् [ तद् द. नपुं. प्र. एक. ]
      • सम्योजकपदम् = अपि [ अव्ययम् ]

अन्वय:

सुखतः रामाभोगः क्रियते | हो हन्त ! पश्चात् शरीरे रोगः (भवति) | यद्यपि लोके मरणं शरणं, तत् अपि पाप+आचरणं न मुञ्चति |

सार:

जन: सुखार्थं स्त्रीभोगादिविषयेषु व्यापृतो वर्तते भोगे च कृते क्रमेण शरीरं विविधव्याधिना आक्रान्तं भवति | यद्यपि लोके मरणं शरणं तदापि नैमिषिक सुखाय मूढो लोक: पापकर्मम् अनवरतं करोत्येव |

व्याकरणम्

  • विग्रह:
    • रामाभोग: = रामाया: आभोग: – षष्ठीतत्पुरुष: |
    • शरीरे = शीर्यते इति शरीरम् | तस्मिन् |
    • पापाचरणम् = पापस्य आचरणम् – षष्ठीतत्पुरुष: |

Sukhataḥ kriyatē rāmābhōgaḥ
paścād’dhanta śarīrē rōgaḥ |
yadyapi lōkē maraṇaṁ śaraṇaṁ
tadapi na muñcati pāpācaraṇam || 28 ||

Thou enjoy all conjugal pleasures so long as thou art strong and when thou attain old age thou art victim to diseases. Death is inevitable unto thee. Being aware of all these thou do not desist from sins.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s