Grammatical aspects in Bhaja Govindam verse 27 – Geyam gitanamasahasram

27.  गेयं गीतानामसहस्रम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः

श्लोक:

गेयं गीतानामसहस्रं

ध्येयं श्रीपतिरूपमजस्रम् |

नेयं सज्जनसङ्गे चित्तं

देयं दीनजनाय च वित्तम् ।।२७।।

पदच्छेद:

गेयं गीता+नाम+सहस्रं ध्येयं श्रीपति+रूपम् अजस्रम् नेयं सत्+जन+सङ्गे चित्तं

देयं दीन+जनाय च वित्तम् |

पदपरिचय:

पदपरिचय:

  • क्रियापदम् = (भवति)
  • क्रियाविशेषणम् = अजस्रम् [ अव्ययम् ]
  • वाक्यांश:
    • कर्मविशेषण-सूचक-पदम् = गेयम् [ अ. नपुं. प्र. एक. ]
    • कर्तृपदम् = गीता+नाम+सहस्रम् [ अ. नपुं. प्र. एक. ]
  • वाक्यांश:
    • कर्मविशेषण-सूचक-पदम् = ध्येयम् [ अ. नपुं. प्र. एक. ]
    • कर्तृपदम् = श्रीपति+रूपम् [ अ. नपुं. प्र. एक. ]
  • वाक्यांश:
    • कर्मविशेषण-सूचक-पदम् = नेयम् [ अ. नपुं. प्र. एक. ]
    • कर्तृपदम् = चित्तम् [ अ. नपुं. प्र. एक. ]
    • अधिकरणपदम् = सत्+जन+सङ्गे [ अ. पुं. स. एक. ]
  • वाक्यांश:
    • कर्मविशेषण-सूचक-पदम् = देयम् [ अ. नपुं. प्र. एक. ]
    • कर्तृपदम् = वित्तम् [ अ. नपुं. प्र. एक. ]
    • सम्प्रदानपदम् = दीन+जनाय [ अ. पुं. च. एक. ]
  • सम्योजकपदम् = च [ अव्ययम् ]

अन्वय:

(त्वया) अजस्रं गीतानामसहस्रं गेयं, श्रीपतिरूपम् ध्येयं, सज्जनसङ्गे चित्तं नेयं,

दीनजनाय वित्तम् देयं च (अस्ति) |

सार:

त्वं निरन्तरं भगवद्गिताध्ययनं कुरु तथा विष्णुसहस्रनामस्तोत्रं च सदा पठ | विष्णो: रूपं मनसा ध्याय सज्जनसङ्गे चित्तं नय | दीनजनाय धनादिकं च देहि इति |

व्याकरणम्

  • सन्धि: (समासे)
    • सज्जन:
      • सत् + जन: = सच् + जन:, श्चुत्वसन्धि: |
      • सच् + जन: = सज्जन:, जश्त्वसन्धि: |
    • समास:
      • गीतानामसहस्रम्
        • नामसहस्रम् = नाम्नां सहस्रम् – षष्टितत्पुरुष: |
        • गीतानामसहस्रम् = गीता च नामसहस्रं च अन्यो: समाहार: – समाहारद्वन्द्व: |
      • श्रीपतिरूपम्
        • श्रीपति: = श्रिय: पति: – षष्टितत्पुरुष: |
        • श्रीपतिरूपम् = श्रीपते: रूपम् – षष्टितत्पुरुष: |
      • सज्जनसङ्गे = सज्जनानां सङ्ग: – षष्टितत्पुरुष: | तस्मिन् |
      • दीनजनाय = दीन: च असौ जन: च दीनजन: – विशेषणपूर्वपदकर्मधारय: | तस्मै |

 

  • कृदन्त:
    • गेयम् – गा “गा स्तुतौ” + यत् प्रत्यय: – गातुं योग्यम् |
    • ध्येयम् – ध्यै “ध्यै चिन्तायाम्” + यत् प्रत्यय: – ध्यातुं योग्यम् |
    • नेयम् – नी “णीञ् प्रापणे” + यत् प्रत्यय: – नेतुं योग्यम् |
    • देयम् – दा “दाण् दाने” + यत् प्रत्यय: – दातुं योग्यम् |

Gēyaṁ gītānāmasahasraṁ
dhyēyaṁ śrīpatirūpamajasram |
nēyaṁ sajjanasaṅgē cittaṁ
dēyaṁ dīnajanāya ca vittam || 27 ||

Repeat the thousand names of the Lord. Contemplate on the divine personality of the Lord. Concentrate thy thoughts on the association of the Good. Give off thy possessions to the needy.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s