Bhagavad Gita – Chapter 11 – Part 1

श्रीमद्भगवद्गीता – एकादशोऽध्याय: – विश्वरूपदर्शनयोगः – भाग: १

अर्जुन उवाच –

मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥

पदच्छेदः

मदनुग्रहाय परमं गुह्यम् अध्यात्मसञ्ज्ञितम् यत् त्वया उक्तं वचः तेन मोहः अयं विगतः मम ॥ १ ॥

अन्वयः

मदनुग्रहाय परमं गुह्यम् अध्यात्मसञ्ज्ञितम् यत् वचः त्वया उक्तं तेन मम अयं मोहः विगतः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • कर्म-वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम् =उक्तम्
        • (कर्मणि) कर्मपदम् =वचः
        • (कर्मणि) कर्तृपदम् = त्वया
      • कर्मविशेषणम् =यत्
      • कर्मविशेषण-वाक्यांश:
        • कर्मपदम् =गुह्यम्
        • कर्मविशेषणम् =परमम्
      • कर्मविशेषणम् =अध्यात्मसञ्ज्ञितम्
      • सम्प्रदानपदम् = मदनुग्रहाय
    • “तेन” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= विगतः
      • कर्मपदम् =मोहः
      • कर्मविशेषणम् =मम
      • कर्मविशेषणम् =अयम्

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥

पदच्छेदः

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि च अव्ययम् ॥ २ ॥

अन्वयः

कमलपत्राक्ष ! भूतानां भवाप्ययौ हि विस्तरशः त्वत्तः मया श्रुतौ । अव्ययं माहात्म्यम् अपि च (श्रुतम्) ।

पदपरिचय:

  • सम्बोधनपदम् = कमलपत्राक्ष
  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= श्रुतौ
    • क्रियाविशेषणम् = विस्तरशः
    • वाक्यांश:
      • (कर्मणि) कर्मपदम् =भवाप्ययौ
      • सम्बन्ध-पदम् = भूतानां
      • कर्मविशेषण-सूचक-पदम् = हि
    • (कर्मणि) कर्तृपदम् = मया
    • अपादानपदम् = त्वत्तः
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= (श्रुतम्)
    • (कर्मणि) कर्मपदम् =अव्ययम्
    • (कर्मणि) कर्मपदम् =माहात्म्यम्
    • सम्योजकपदम् = च
    • सम्योजकपदम् = अपि

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥

पदच्छेदः

एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ ३ ॥

अन्वयः

परमेश्वर ! पुरुषोत्तम ! त्वं आत्मानं यथा आत्थ, एवम् एतत् ते ऐश्वरं रूपं द्रष्टुम् इच्छामि ।

पदपरिचय:

  • सम्बोधनपदम् = परमेश्वर
  • सम्बोधनपदम् = पुरुषोत्तम
  • “यथा” वाक्यांश:
    • क्रियापदम् = आत्थ [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. मपु. एक. ]
      मद्यम पुरुष रूपाणि – ब्रवीषि / आत्थ, ब्रूथ: / आहथु:, ब्रूथ |
    • क्रियाविशेषणम् = यथा
    • कर्मपदम् =आत्मानम्
    • कर्तृपदम् = त्वम्
  • “एवम्” वाक्यांश:
    • क्रियापदम् = इच्छामि [ इच्छ “इष इच्छायाम्” पर. लट्. उपु. एक. ]
    • कर्म-वाक्यांश:
      • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
      • क्रियाविशेषणम् = एवम्
      • कर्मपदम् =एतत्
      • कर्मविशेषण-वाक्यांश:
        • कर्मविशेषणम् =रूपम्
        • कर्मविशेषणम् =ऐश्वरम्
        • सम्बन्ध-पदम् = ते
      • कर्तृपदम् = (अहम्)

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥

पदच्छेदः

मन्यसे यदि तत् शक्यं मया द्रष्टुम् इति प्रभो योगेश्वर ततः मे त्वं दर्शय आत्मानम् अव्ययम् ॥ ४ ॥

अन्वयः

प्रभो ! योगेश्वर ! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततः त्वम् अव्ययम् आत्मानं मे दर्शय ।

पदपरिचय:

  • सम्बोधनपदम् = प्रभो
  • सम्बोधनपदम् = योगेश्वर
  • प्रथमवाक्यम्
    • “यदि” वाक्यांश:
      • क्रियापदम् = मन्यसे [ मन् “मन ज्ञाने” आ. लट्. मपु. एक. ]
      • कर्म-वाक्यम्
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= शक्यम्
        • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
        • (कर्मणि) कर्मपदम् =तत् [ तद् द. नपुं. प्र. एक. ]
        • (कर्मणि) कर्तृपदम् = मया
        • सम्योजकपदम् = इति
      • कर्तृपदम् = (त्वम्)
    • “तत:” वाक्यांश:
      • क्रियापदम् = दर्शय [ दृश् “दृशिर् प्रेक्षणे” पर. णिजन्त: लोट्. मपु. एक. ]
      • कर्मपदम् =आत्मानम्
      • कर्मविशेषणम् =अव्ययम्
      • कर्तृपदम् = त्वम्
      • सम्प्रदानपदम् = मे (मह्यम्)
      • सम्योजकपदम् = ततः

श्रीभगवानुवाच –

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

पदच्छेदः

पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

अन्वयः

पार्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ
  • प्रथमवाक्यम्
    • क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
    • वाक्यांश:
      • कर्मपदम् =रूपाणि
      • सम्बन्ध-पदम् = मे
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् =नानाविधानि
      • कर्मविशेषणम् =शतशः
      • कर्मविशेषणम् =सहस्रशः
      • सम्योजकपदम् = अथ
    • कर्मविशेषणम् =दिव्यानि
    • कर्मविशेषणम् =नानावर्णाकृतीनि
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)

पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा ।

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥

पदच्छेदः

पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुतः तथा बहूनि अदृष्टपूर्वाणि पश्य आश्चर्याणि भारत ॥ ६ ॥

अन्वयः

भारत ! आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुतः पश्य, अदृष्टपूर्वाणि बहूनि आश्चर्याणि पश्य ।

पदपरिचय:

  • सम्बोधनपदम् = भारत
  • प्रथमवाक्यम्
    • क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
    • कर्मपदम् =आदित्यान्
    • कर्मपदम् =वसून्
    • कर्मपदम् =रुद्रान्
    • कर्मपदम् =अश्विनौ
    • कर्मपदम् =मरुतः
    • सम्योजकपदम् = तथा
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
    • कर्मपदम् =आश्चर्याणि
    • कर्मविशेषणम् =बहूनि
    • कर्मविशेषणम् =अदृष्टपूर्वाणि
    • कर्तृपदम् = (त्वम्)

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।

मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥

पदच्छेदः

इह एकस्थं जगत् कृत्स्नं पश्य अद्य सचराचरम् मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ ७ ॥

अन्वयः

गुडाकेश ! अद्य एकस्थं सचराचरं कृत्स्नं जगत् अन्यत् च यत् द्रष्टुम् इच्छसि (तत्) इह मम देहे पश्य ।

पदपरिचय:

  • सम्बोधनपदम् = गुडाकेश
  • “यत्” वाक्यांश:
    • क्रियापदम् = इच्छसि [ इच्छ “इष इच्छायाम्” पर. लट्. मपु. एक. ]
    • वाक्यांश:
      • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
      • कर्मपदम् =यत्
      • कर्मविशेषणम् =अन्यत्
    • कर्मपदम् =जगत्
    • कर्मविशेषणम् =कृत्स्नम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् =एकस्थम्
      • कर्मविशेषणम् =सचराचरम्
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)
    • कालवाचकपदम् = अद्य
  • “तत्” वाक्यांश:
    • क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
    • कर्मपदम् =(तत्)
    • कर्तृपदम् = (त्वम्)
    • स्थानवाचकपदम् = इह
    • वाक्यांश:
      • अधिकरणपदम् = देहे
      • सम्बन्ध-पदम् = मम

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥

पदच्छेदः1

न तु मां शक्यसे द्रष्टुम् अनेन एव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८ ॥

अन्वयः

अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे । ते दिव्यं चक्षुः ददामि । ऐश्वरं मे योगं पश्य ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = शक्यसे [ शक् “शक मर्षणे” उभ. लट्. मपु. एक. ]
    • क्रियाविशेषणम् =न
    • वाक्यांश:
      • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
      • क्रियाविशेषणम् =एव
      • कर्मपदम् =माम्
    • करणवाचकपदम् = स्वचक्षुषा
    • करणविशेषणम् = अनेन
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = ददामि [ दा “डुदाञ् दाने” उभ. लट्. उपु. एक. ]
    • कर्मपदम् =चक्षुः
    • कर्मविशेषणम् = दिव्यम्
    • कर्तृपदम् = (अहम्)
    • सम्प्रदानपदम् = ते (तुभ्यम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
    • वाक्यांश:
      • कर्मपदम् =योगम्
      • सम्बन्ध-पदम् = मे
    • कर्मविशेषणम् =ऐश्वरम्
    • कर्तृपदम् = (त्वम्)

सञ्जय उवाच –

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

पदच्छेदः

एवम् उक्त्वा ततः राजन् महायोगेश्वरः हरिः दर्शयामास पार्थाय परमं रूपम् ऐश्वरम् ॥ ९ ॥

अन्वयः

राजन् ! महायोगेश्वरः हरिः एवम् उक्त्वा ततः परमम् ऐश्वरं रूपं पार्थाय दर्शयामास ।

पदपरिचय:

  • सम्बोधनपदम् = राजन्
  • प्रथमवाक्यम्
    • क्रियापदम् = दर्शयामास [ दृश् “दृशिर् प्रेक्षणे” पर. णिजन्त: लिट्. प्रपु. एक. ]
    • कर्मपदम् =रूपम्
    • कर्मविशेषणम् =परमम्
    • कर्मविशेषणम् =ऐश्वरम्
    • कर्तृपदम् = हरिः
    • कर्तृविशेषणम् =महायोगेश्वरः
    • सम्योजकपदम् = ततः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् =उक्त्वा [ वद् “वद व्यक्तायां वाचि” + क्त्वा, अव्ययम् ]
      • क्रियाविशेषणम् =एवम्

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥

पदच्छेदः

अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥ ११ ॥

अन्वयः

(तच्च रूपम्) अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (आसीत्)
    • कर्तृ-विशेषण-सूचक-पदम् = अनेकवक्त्रनयनम्
    • कर्तृ-विशेषण-सूचक-पदम् = अनेकाद्भुतदर्शनम्
    • कर्तृ-विशेषण-सूचक-पदम् = अनेकदिव्याभरणम्
    • कर्तृ-विशेषण-सूचक-पदम् = दिव्यानेकोद्यतायुधम्
    • कर्तृ-विशेषण-सूचक-पदम् = दिव्यमाल्याम्बरधरं
    • कर्तृ-विशेषण-सूचक-पदम् = दिव्यगन्धानुलेपनं
    • कर्तृ-विशेषण-सूचक-पदम् = सर्वाश्चर्यमयं
    • कर्तृ-विशेषण-सूचक-पदम् = देवम्
    • कर्तृ-विशेषण-सूचक-पदम् = अनन्तं
    • कर्तृ-विशेषण-सूचक-पदम् = विश्वतोमुखम्
    • कर्तृपदम् = (पूर्वस्मिन् श्लोके उक्तं तत् रूपम्)

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।

यदि भाः सदृशी सा स्यात्भासस्तस्य महात्मनः ॥ १२ ॥

पदच्छेदः

दिवि सूर्यसहस्रस्य भवेत् युगपत् उत्थिता यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥ १२ ॥

अन्वयः

यदि दिवि सूर्यसहस्रस्य भाः उत्थिता भवेत् सा महात्मनः तस्य भासः सदृशी स्यात् ।

पदपरिचय:

  • “यदि” वाक्यांश:
    • क्रियापदम् = भवेत् [ भू “भू सत्तायाम्”, पर. विधिलिङ्. प्रपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= उत्थिता
      • क्रियाविशेषणम् = युगपत्
    • वाक्यांश:
      • कर्तृपदम् = भाः [ स. स्त्री. प्र. एक. ]
      • सम्बन्ध-पदम् = सूर्यसहस्रस्य
    • अधिकरणपदम् = दिवि
    • सम्योजकपदम् = यदि
  • “सा” वाक्यांश:
    • क्रियापदम् = स्यात् [ अस् “अस भुवि” पर. विधिलिङ्ग. उपु. एक. ]
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = सदृशी
      • सम्बन्ध-पदम् = भासः
      • सम्बन्ध-विशेषण-पदम् = महात्मनः
      • सम्बन्ध-विशेषण-पदम् = तस्य
    • कर्तृपदम् = सा

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥

पदच्छेदः

तत्र एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा अपश्यत् देवदेवस्य शरीरे पाण्डवः तदा ॥ १३ ॥

अन्वयः

तदा पाण्डवः अनेकधा प्रविभक्तं कृत्स्नं जगत् तत्र देवदेवस्य शरीरे एकस्थम् अपश्यत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अपश्यत् [ दृश् “दृशिर् प्रेक्षणे” पर. लङ्. प्रपु. एक. ]
    • कर्म-विशेषण-सूचक-वाक्यांश:
      • कर्मपदम् =एकस्थम्
      • वाक्यांश:
        • अधिकरणपदम् = शरीरे
        • सम्बन्ध-पदम् = देवदेवस्य
      • स्थानवाचकपदम् = तत्र
    • कर्मपदम् =जगत्
    • कर्मविशेषणम् =कृत्स्नम्
    • कर्मविशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= प्रविभक्तम्
      • क्रियाविशेषणम् = अनेकधा
    • कर्तृपदम् = पाण्डवः
    • कालवाचकपदम् = तदा

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥

पदच्छेदः

ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिः अभाषत ॥ १४ ॥

अन्वयः

ततः हृष्टरोमा सः विस्मयाविष्टः धनञ्जयः शिरसा देवं प्रणम्य कृताञ्जलिः अभाषत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अभाषत [ भाष “भाष व्यक्तायाम्” आ. लङ्. प्रपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = कृताञ्जलिः
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = प्रणम्य
        • कर्मपदम् =देवम्
        • करणवाचकपदम् = शिरसा
      • कर्तृपदम् = धनञ्जयः
      • कर्तृविशेषणम् =सः
      • कर्तृविशेषणम् =हृष्टरोमा
      • कर्तृविशेषणम् =विस्मयाविष्टः
      • कालवाचकपदम् = ततः (तदा)

अर्जुन उवाच-

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।

ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥

पदच्छेदः

पश्यामि देवान् तव देव देहे सर्वान् तथा भूतविशेषसङ्घान् ब्रह्माणम् ईशं कमलासनस्थम् ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ १५ ॥

अन्वयः

देव ! तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् कमलासनस्थं ब्रह्माणम् ईशं सर्वान् ऋषीन् च दिव्यान् उरगान् च पश्यामि ।

पदपरिचय:

  • सम्बोधनपदम् = देव
  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यामि [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. उपु. एक. ]
    • वाक्यांश:
      • कर्मपदम् = देवान्
      • कर्मविशेषणम् =सर्वान्
    • कर्मपदम् = भूतविशेषसङ्घान्
    • वाक्यांश:
      • कर्मपदम् =ब्रह्माणम्
      • कर्मविशेषणम् =कमलासनस्थम्
    • कर्मपदम् = ईशम्
    • वाक्यांश:
      • कर्मपदम् =ऋषीन्
      • कर्मविशेषणम् =सर्वान्
    • वाक्यांश:
      • कर्मपदम् =उरगान्
      • कर्मविशेषणम् =दिव्यान्
    • कर्तृपदम् = (अहम्)
    • सम्योजकपदम् = तथा
    • सम्योजकपदम् = च
    • वाक्यांश:
      • अधिकरणपदम् = देहे
      • सम्बन्ध-पदम् = तव

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।

नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥

पदच्छेदः

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतः अनन्तरूपम् न अन्तं न मध्यं न पुनः तव आदिं पश्यामि विश्वेश्वर विश्वरूप ॥ १५ ॥

अन्वयः

विश्वेश्वर, विश्वरूप ! अनेकबाहूदरवक्त्रनेत्रं सर्वतः अनन्तरूपं त्वाम् पश्यामि । तव आदिं न, मध्यं न, पुनः अन्तं न पश्यामि ।

पदपरिचय:

  • सम्बोधनपदम् = विश्वेश्वर
  • सम्बोधनपदम् = विश्वरूप
  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यामि [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. उपु. एक. ]
    • कर्मपदम् =त्वाम्
    • कर्मविशेषणम् =अनेकबाहूदरवक्त्रनेत्रं
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् = अनन्तरूपम्
      • स्थानवाचकपदम् = सर्वतः (सर्वत्र)
    • कर्तृपदम् = (अहम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = पश्यामि [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. उपु. एक. ]
    • क्रियाविशेषणम् =न
    • वाक्यांश:
      • कर्मपदम् =आदिम्
      • कर्मपदम् =मध्यम्
      • कर्मपदम् =अन्तम्
      • सम्बन्ध-पदम् = तव
    • सम्योजकपदम् = पुनः
    • कर्तृपदम् = (अहम्)

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।

पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥

पदच्छेदः

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वत: दीप्तिमन्तम् पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयम् ॥ १७ ॥

अन्वयः

त्वां किरीटिनं गदिनं चक्रिणं तेजोराशिं सर्वत: दीप्तिमन्तं समन्तात् दीप्तानलार्कद्युतिम् अप्रमेयं दुर्निरीक्ष्यं च पश्यामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यामि [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. उपु. एक. ]
    • कर्मपदम् =त्वाम्
    • कर्मविशेषणम् = किरीटिनम्
    • कर्मविशेषणम् = गदिनम्
    • कर्मविशेषणम् = चक्रिणम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् = तेजोराशिम्
      • कर्मविशेषणम् = दीप्तिमन्तम्
      • स्थानवाचकपदम् = सर्वत:
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् = दीप्तानलार्कद्युतिम्
      • स्थानवाचकपदम् = समन्तात्
    • कर्मविशेषणम् = अप्रमेयम्
    • कर्मविशेषणम् = दुर्निरीक्ष्यम्
    • सम्योजकपदम् = च
    • कर्तृपदम् = (अहम्)

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।

त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥

पदच्छेदः

त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनः त्वं पुरुषः मतः मे ॥ १८ ॥

अन्वयः

त्वं परमं वेदितव्यम् अक्षरम् | त्वम् अस्य विश्वस्य परं निधानम् | त्वम् अव्ययः, शाश्वतधर्मगोप्ता | त्वं सनातनः पुरुषः (इति) मे मतः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-पदम् = परमम्
    • कर्तृ-विशेषण-सूचक-पदम् = वेदितव्यम्
    • कर्तृ-विशेषण-सूचक-पदम् = अक्षरम्
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = निधानम्
      • कर्तृविशेषणम् = परम्
      • सम्बन्ध-पदम् = विश्वस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य
    • कर्तृपदम् = त्वम्
  • तृतीयवाक्यम्
    • कर्तृ-विशेषण-सूचक-पदम् = अव्ययः
    • कर्तृ-विशेषण-सूचक-पदम् = शाश्वतधर्मगोप्ता
    • कर्तृपदम् = त्वम्
  • चतुर्थवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यम्
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = पुरुषः
        • कर्तृविशेषणम् = सनातनः
      • कर्तृपदम् = त्वम्
      • सम्योजकपदम् = (इति)
    • वाक्यांश:
      • कर्तृपदम् = मतः
      • सम्बन्ध-पदम् = मे (मम)

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।

पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥

पदच्छेदः

अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं तपन्तम् ॥ १९ ॥

अन्वयः

अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रं दीप्तहुताशवक्त्रं स्वतेजसा इदं विश्वं तपन्तं त्वां पश्यामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यामि [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. उपु. एक. ]
    • कर्मपदम् =त्वाम्
    • कर्मविशेषणम् =अनादिमध्यान्तम्
    • कर्मविशेषणम् =अनन्तवीर्यम्
    • कर्मविशेषणम् =अनन्तबाहुम्
    • कर्मविशेषणम् =शशिसूर्यनेत्रम्
    • कर्मविशेषणम् =दीप्तहुताशवक्त्रम्
    • कर्मविशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= तपन्तम्
      • कर्मपदम् =विश्वम्
      • कर्मविशेषणम् =इदम्
      • करणवाचकपदम् = स्वतेजसा
    • कर्तृपदम् = (अहम्)

References –

  1. 29th Nov 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6my विश्वरूपदर्शनयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Page status – <Some updates are pending>

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s