Bhagavad Gita – Chapter 10 – Part 3

श्रीमद्भगवद्गीता – दशमोऽध्याय: – विभूतियोगः – भाग: ३

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।

भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

पदच्छेदः

स्वयम् एव आत्मना आत्मानं वेत्थ त्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

अन्वयः

पुरुषोत्तम, भूतभावन, भूतेश, देवदेव, जगत्पते ! त्वं स्वयम् एव आत्मना आत्मानं वेत्थ ।

पदपरिचय:

  • सम्बोधनपदम् = पुरुषोत्तम [ अ. पुं. सम्. एक. ]
  • सम्बोधनपदम् = भूतभावन [ अ. पुं. सम्. एक. ]
  • सम्बोधनपदम् = भूतेश [ अ. पुं. सम्. एक. ]
  • सम्बोधनपदम् = देवदेव [ अ. पुं. सम्. एक. ]
  • सम्बोधनपदम् = जगत्पते [ अ. पुं. सम्. एक. ]
  • क्रियापदम् =वेत्थ [ विद् “विद ज्ञाने”, पर. लट्. मप्र. एक. ]
  • क्रियाविशेषणम् =स्वयम् [ अव्ययम् ]
  • कर्मपदम् =आत्मानम् [ न. स्त्री. द्वि. एक. ]
  • करणवाचकपदम् = आत्मना [ न. स्त्री. तृ. एक. ]
  • कर्तृपदम् =त्वम्  [ युष्मद् द. त्रि. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥

पदच्छेदः

वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्मविभूतयः याभिः विभूतिभिः लोकान् इमान् त्वं व्याप्य तिष्ठसि ॥ १६ ॥

अन्वयः

याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि, (या:) आत्मविभूतयः दिव्याः, (त्वम्)  (ता:) अशेषेण वक्तुम् अर्हसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “याभि” वाक्यांश:
      • क्रियापदम् =तिष्ठसि [ स्था “ष्टा गतिनिवृत्तौ” पर. लट्. मपु. एक. ]
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = व्याप्य [ वि + आप् “आप्लृ व्याप्तौ” + ल्यप् प्रत्यय:, अव्ययम् ]
        • कर्मपदम् =लोकान्
        • कर्मविशेषणम् =इमान्
      • कर्तृपदम् = त्वम् [युष्मद् द. त्रि. प्र. एक.]
      • करणवाचकपदम् = विभूतिभिः
      • करणविशेषणम् = याभिः
    • “या:” वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = दिव्याः
      • कर्तृ-विशेषण-सूचक-पदम् = हि
      • कर्तृपदम् =आत्मविभूतयः [ इ. स्त्री. प्र. बहु. ]
      • कर्तृविशेषणम् =(या:)
    • “ता:” वाक्यांश:
      • क्रियापदम् =अर्हसि [ अर्ह “अर्ह पूजायाम्” पर. लट्. मपु. एक. ]
      • वाक्यांश:
        • तुमुनन्तपदम् =वक्तुम् [ वद “वद व्यक्तायां” + तुमुन् प्रत्यय:, अव्ययम् ]
        • क्रियाविशेषणम् =अशेषेण [ अव्ययम् ]
      • कर्मपदम् =ताः [ तद् द. स्त्री. द्वि. बहु. ]
      • कर्तृपदम् = (त्वम्)

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥

पदच्छेदः

कथं विद्याम् अहं योगिन् त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्यः असि भगवन् मया ॥ १७ ॥

अन्वयः

योगिन् ! अहं सदा त्वां परिचिन्तयन् कथं विद्याम् ? भगवन् ! मया केषु केषु च भावेषु चिन्त्यः असि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • सम्बोधनपदम् = योगिन्[ न. पुं. सम्. एक. ]
    • क्रियापदम् =विद्याम् [ विद् “विद ज्ञाने” पर. विधिलिङ्. उपु. एक. ]
    • प्रश्नवाचक-क्रियाविशेषणम् = कथम् [ अव्ययम् ]
    • कर्मपदम् =त्वाम् [युष्मद् द. त्रि. द्वि. एक.]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= परिचिन्तयन् [ परि + चिन्त् “चिति स्मृत्याम्” + शतृ प्रत्यय:, त. पुं. प्र. एक. ]
      • क्रियाविशेषणम् =सदा [ अव्ययम् ]
      • कर्मपदम् =त्वाम् [युष्मद् द. त्रि. द्वि. एक.]
    • कर्तृपदम् = अहम् [अस्मद् द. त्रि. प्र. एक.]
  • द्वितीयवाक्यम्
    • सम्बोधनपदम् = भगवन्[ म. पुं. सम्. एक. ]
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= चिन्त्यः [ अ. पुं. प्र. एक. ]
      • (कर्मणि) कर्मपदम् = (त्वम्)
      • (कर्मणि) कर्तृपदम् = मया [ अस्मद् द. त्रि. तृ. एक.]
      • अधिकरणपदम् = भावेषु [ अ. पुं. स. बहु. ]
      • प्रश्नवाचक-अधिकरण-विशेषणम् = केषु [ किम् म. पुं. स. बहु. ]
      • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् = (त्वम्)

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥

पदच्छेदः

विस्तरेण आत्मनः योगं विभूतिं च जनार्दन भूयः कथय तृप्तिः हि शृण्वतः नास्ति मे अमृतम् ॥ १८ ॥

अन्वयः

जनार्दन ! आत्मनः योगं विभूतिं च विस्तरेण भूयः कथय । अमृतं शृण्वतः मे तृप्तिः नास्ति ।

पदपरिचय:

  • सम्बोधनपदम् = जनार्दन
  • प्रथमवाक्यम्
    • क्रियापदम् =कथय [ कथ “कथ वाक्यप्रबन्धे” उभ. लोट्. मपु. एक. ]
    • क्रियाविशेषणम् = विस्तरेण
    • क्रियाविशेषणम् = भूयः
    • वाक्यांश:
      • कर्मपदम् =योगं
      • कर्मपदम् =विभूतिं
      • सम्योजकपदम् = च
      • सम्बन्ध-पदम् = आत्मनः
    • द्वितीयवाक्यम् ।
      • क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = न [ अव्ययम् ]
      • वाक्यांश:
        • कर्तृपदम् =तृप्तिः
        • सम्बन्ध-पदम् = मे (मम)
        • सम्बन्ध-विशेषण-वाक्यांश:
          • क्रिया-गर्भ-सम्बन्ध-पदम् = शृण्वतः [ त. पुं. ष. एक. ]
          • कर्मपदम् =अमृतम्

श्रीभगवान् उवाच –

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥

पदच्छेदः

हन्त ते कथयिष्यामि दिव्याः हि आत्मविभूतयः प्राधान्यतः कुरुश्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १९ ॥

अन्वयः

कुरुश्रेष्ठ ! हन्त | (या:) आत्मविभूतयः दिव्याः हि, (ता:) ते प्राधान्यतः कथयिष्यामि । मे विस्तरस्य अन्तः नास्ति ।

पदपरिचय:

    • सम्बोधनपदम् = कुरुश्रेष्ठ
    • उद्घोषणपदम् = हन्त
    • प्रथमवाक्यम्
      • (या:) वाक्यांश:
        • कर्तृ-विशेषण-सूचक-वाक्यांश:
          • कर्तृपदम् = दिव्याः
          • कर्तृ-विशेषण-सूचक-पदम् = हि
        • कर्तृपदम् = आत्मविभूतयः
        • कर्मविशेषणम् = (या:)
      • (ता:) वाक्यांश:
        • क्रियापदम् =कथयिष्यामि [ कथ “कथ वाक्यप्रबन्धे” उभ. लृट्. उपु. एक. ]
        • कर्मपदम् =(ता:)
        • कर्मविशेषणम् =प्राधान्यतः
        • सम्प्रदानपदम् = ते (तुभ्यम्)
        • कर्तृपदम् =(अहम्)
      • द्वितीयवाक्यम्
        • क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
        • क्रियाविशेषणम् = न [ अव्ययम् ]
        • वाक्यांश:
          • कर्तृपदम् =अन्तः
          • सम्बन्ध-पदम् = विस्तरस्य
          • सम्बन्ध-विशेषण-सूचक-पदम् = मे (मम)

    अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।

अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥

पदच्छेदः

अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः अहम् आदिः च मध्यं च भूतानाम् अन्तः एव च ॥ २० ॥

अन्वयः

गुडाकेश ! अहं सर्वभूताशयस्थितः आत्मा | अहम् एव भूतानाम् आदिः च मध्यं च अन्तः च ।

पदपरिचय:

  • सम्बोधनपदम् = गुडाकेश
  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =आत्मा
      • कर्तृविशेषणम् =सर्वभूताशयस्थितः
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =आदिः
      • कर्तृपदम् =मध्यम्
      • कर्तृपदम् =अन्तः
      • सम्योजकपदम् = च [ अव्ययम् ]
      • सम्बन्ध-पदम् = भूतानाम्
    • कर्तृपदम् =अहम्
    • कर्तृविशेषणम् =एव

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।

मरीचीर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥

पदच्छेदः

आदित्यानाम् अहं विष्णुः ज्योतिषां रविः अंशुमान् मरीचीः मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ २१ ॥

अन्वयः

अहम् आदित्यानां विष्णुः, ज्योतिषाम् अंशुमान् रविः, मरुतां मरीचिः अस्मि | अहं नक्षत्राणाम् शशी ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =विष्णुः
      • सम्बन्ध-पदम् = आदित्यानाम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =रविः
      • कर्तृविशेषणम् =अंशुमान्
      • सम्बन्ध-पदम् = ज्योतिषाम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =मरीचिः
      • सम्बन्ध-पदम् = मरुताम्
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =शशी
      • सम्बन्ध-पदम् = नक्षत्राणाम्
    • कर्तृपदम् =अहम्

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥

पदच्छेदः

वेदानां सामवेदः अस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनः च अस्मि भूतानाम् अस्मि चेतना ॥ २२ ॥

अन्वयः

वेदानां सामवेदः अस्मि । देवानां वासवः अस्मि । इन्द्रियाणां मनः च अस्मि । भूतानां चेतना अस्मि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =सामवेदः
      • सम्बन्ध-पदम् = वेदानां
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =वासवः
      • सम्बन्ध-पदम् = देवानाम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =मनः
      • सम्बन्ध-पदम् = इन्द्रियाणाम्
    • कर्तृपदम् =अहम्
    • सम्योजकपदम् = च [ अव्ययम् ]
  • चतुर्थवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =चेतना
      • सम्बन्ध-पदम् = भूतानाम्
    • कर्तृपदम् =अहम्

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

पदच्छेदः

रुद्राणां शङ्करः च अस्मि वित्तेशः यक्षरक्षसाम् वसूनां पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ २३ ॥

अन्वयः

रुद्राणां शङ्करः च अस्मि । यक्षरक्षसां वित्तेशः, वसूनां पावकः, शिखरिणां मेरुः च अहम् अस्मि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =शङ्करः
      • सम्बन्ध-पदम् = रुद्राणाम्
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =वित्तेशः
      • सम्बन्ध-पदम् = यक्षरक्षसाम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =पावकः
      • सम्बन्ध-पदम् = वसूनाम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =मेरुः
      • सम्बन्ध-पदम् = शिखरिणाम्
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =अहम्

पुरोधसांच मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।

सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥

पदच्छेदः

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥ २४ ॥

अन्वयः

पार्थ ! पुरोधसां मुख्यं बृहस्पतिं मां विद्धि । सेनानीनां स्कन्दः अहम् । सरसां सागरः अस्मि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मपदम् =माम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् =बृहस्पतिम्
      • कर्मविशेषणम् =मुख्यम्
      • सम्बन्ध-पदम् = पुरोधसाम्
    • कर्तृपदम् =(त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =स्कन्दः
      • सम्बन्ध-पदम् = सेनानीनाम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =सागरः
      • सम्बन्ध-पदम् = सरसाम्
    • कर्तृपदम् =अहम्

 

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥

पदच्छेदः

महर्षीणां भृगुः अहं गिराम् अस्मि एकम् अक्षरम् यज्ञानां जपयज्ञः अस्मि स्थावराणां हिमालयः ॥ २५ ॥

अन्वयः

अहं महर्षीणां भृगुः । गिराम् एकम् अक्षरम् अस्मि । यज्ञानां जपयज्ञः अस्मि । स्थावराणां हिमालयः (अस्मि) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =भृगुः
      • सम्बन्ध-पदम् = महर्षीणाम्
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =अक्षरम्
      • कर्तृविशेषणम् =एकम्
      • सम्बन्ध-पदम् = गिराम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =जपयज्ञः
      • सम्बन्ध-पदम् = यज्ञानाम्
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =हिमालयः
      • सम्बन्ध-पदम् = स्थावराणाम्
    • कर्तृपदम् =अहम्

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

पदच्छेदः

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

अन्वयः

सर्ववृक्षाणाम् अश्वत्थः, देवर्षीणां नारदः, गन्धर्वाणां चित्ररथः, सिद्धानां कपिलः मुनिः, च (अस्मि) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =अश्वत्थः
      • सम्बन्ध-पदम् = सर्ववृक्षाणाम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =नारदः
      • सम्बन्ध-पदम् = देवर्षीणाम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =चित्ररथः
      • सम्बन्ध-पदम् = गन्धर्वाणाम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =कपिलः
      • कर्तृविशेषणम् =मुनिः
      • सम्बन्ध-पदम् = सिद्धानाम्
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =अहम्

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

पदच्छेदः

उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

अन्वयः

अश्वानाम् अमृतोद्भवम् उच्चैःश्रवसं, गजेन्द्राणाम् ऐरावतं, नराणां नराधिपं च मां विद्धि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मपदम् =माम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मविशेषणम् =उच्चैःश्रवसम्
      • कर्मविशेषणम् =अमृतोद्भवम्
      • सम्बन्ध-पदम् = अश्वानाम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मविशेषणम् = ऐरावतम्
      • सम्बन्ध-पदम् = गजेन्द्राणाम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मविशेषणम् =नराधिपम्
      • सम्बन्ध-पदम् = नराणाम्
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =(त्वम्)

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥

पदच्छेदः

आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ २८ ॥

अन्वय:

अहम् आयुधानां वज्रं अस्मि | धेनूनां कामधुक् अस्मि | प्रजनः कन्दर्पः | सर्पाणां वासुकिः च अस्मि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =वज्रम्
      • सम्बन्ध-पदम् = आयुधानाम्
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =कामधुक्
      • सम्बन्ध-पदम् = धेनूनाम्
    • कर्तृपदम् =(अहम्)
  • तृतीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =कन्दर्पः
      • सम्बन्ध-पदम् = प्रजनः
    • कर्तृपदम् =(अहम्)
  • चतुर्थवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =वासुकिः
      • सम्बन्ध-पदम् = सर्पाणाम्
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =(अहम्)

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।

पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥

पदच्छेदः

अनन्तः च अस्मि नागानां वरुणः यादसाम् अहम् पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ २९ ॥

अन्वयः

नागानां अनन्तः च अस्मि । अहं यादसां वरुणः । पितॄणां च अर्यमा अस्मि । संयमतां यमः अहम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =अनन्तः
      • सम्बन्ध-पदम् = नागानाम्
      • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =वरुणः
      • सम्बन्ध-पदम् = यादसाम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =अर्यमा
      • सम्बन्ध-पदम् = पितॄणाम्
      • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =यमः
      • सम्बन्ध-पदम् = संयमताम्
    • कर्तृपदम् =अहम्

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

पदच्छेदः

प्रह्लादः च अस्मि दैत्यानां कालः कलयताम् अहम् मृगाणां च मृगेन्द्रः अहं वैनतेयः च पक्षिणाम् ॥ ३० ॥

अन्वयः

दैत्येषु प्रह्लादः च अस्मि । अहं कलयत्सु कालः । अहं मृगेषु मृगेन्द्रः च । पक्षिषु वैनतेयः च ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =प्रह्लादः
      • विषयवाचकपदम् = दैत्येषु
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =कालः
      • विषयवाचकपदम् = कलयत्सु
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =मृगेन्द्रः
      • विषयवाचकपदम् = मृगेषु
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =वैनतेयः
      • विषयवाचकपदम् = पक्षिषु
    • कर्तृपदम् =अहम्

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥

पदच्छेदः

पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् झषाणां मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ ३१ ॥

अन्वयः

अहं पवतां पवनः अस्मि, शस्त्रभृतां रामः, झषाणां मकरः अस्मि, स्रोतस‌ां च जाह्नवी अस्मि।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =पवनः
      • सम्बन्ध-पदम् = पवताम्
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =रामः
      • सम्बन्ध-पदम् = शस्त्रभृताम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =मकरः
      • सम्बन्ध-पदम् = झषाणाम्
      • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =जाह्नवी
      • सम्बन्ध-पदम् = स्रोतस‌ाम्
    • कर्तृपदम् =अहम्
    • सम्योजकपदम् = च [ अव्ययम् ]

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥३२॥

पदच्छेदः

सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन। अध्यात्मविद्या विद्यानाम् वादः प्रवदताम् अहम् ॥३२॥

अन्वयः

अर्जुन | अहम् एव सर्गाणाम् आदिः अन्तः मध्यं च, विद्यानाम् अध्यात्मविद्या, अहं प्रवदतां वादः।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् = आदिः
      • कर्तृविशेषणम् = अन्तः
      • कर्तृविशेषणम् = मध्यम्
      • सम्योजकपदम् = च [ अव्ययम् ]
      • सम्बन्ध-पदम् = सर्गाणाम्
    • कर्तृपदम् =अहम्
    • कर्तृ-विशेषण-सूचक-पदम् = एव
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =अध्यात्मविद्या
      • सम्बन्ध-पदम् = विद्यानाम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =वादः
      • सम्बन्ध-पदम् = प्रवदताम्
    • कर्तृपदम् =अहम्

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।

अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ ३३ ॥

पदच्छेदः

अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः ॥ ३३ ॥

अन्वयः

अक्षराणाम् अकारः अस्मि । सामासिकस्य द्वन्द्वः च । अहम् एव अक्षयः कालः । अहं विश्वतोमुखः धाता ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =अकारः
      • सम्बन्ध-पदम् = अक्षराणाम्
    • कर्तृपदम् =(अहम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =द्वन्द्वः
      • सम्बन्ध-पदम् = सामासिकस्य
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =कालः
      • कर्तृविशेषणम् = अक्षयः
      • कर्तृ-विशेषण-सूचक-पदम् = एव
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =धाता
      • कर्तृविशेषणम् = विश्वतोमुखः
    • कर्तृपदम् =अहम्

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥

पदच्छेदः

मृत्युः सर्वहरः च अहम् उद्भवः च भविष्यताम् कीर्तिः श्रीः वाक् च नारीणां स्मृतिः मेधा धृतिः क्षमा ॥ ३४ ॥

अन्वयः

अहं सर्वहरः मृत्युः च । भविष्यताम् उद्भवः च । नारीणां कीर्तिः, श्रीः, वाक्, स्मृतिः, मेधा, धृतिः, क्षमा च ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =मृत्युः
      • कर्तृविशेषणम् =सर्वहरः
    • कर्तृपदम् =(अहम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =उद्भवः
      • सम्बन्ध-पदम् = भविष्यताम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् =कीर्तिः
      • कर्तृ-विशेषण-सूचक-पदम् =श्रीः
      • कर्तृ-विशेषण-सूचक-पदम् =वाक्
      • कर्तृ-विशेषण-सूचक-पदम् =स्मृतिः
      • कर्तृ-विशेषण-सूचक-पदम् =मेधा
      • कर्तृ-विशेषण-सूचक-पदम् =धृतिः
      • कर्तृ-विशेषण-सूचक-पदम् =क्षमा
      • सम्योजकपदम् = च [ अव्ययम् ]
      • सम्बन्ध-पदम् = नारीणाम्
    • कर्तृपदम् =अहम्

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥

पदच्छेदः

बृहत् साम तथा साम्नां गायत्री छन्दसाम् अहम् मासानां मार्गशीर्षः अहम् ऋतूनां कुसुमाकरः ॥ ३५ ॥

अन्वयः

तथा साम्नां बृहत्साम । अहं छन्दसां गायत्री । अहं मासानां मार्गशीर्षः । ऋतूनां कुसुमाकरः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =बृहत्साम
      • सम्बन्ध-पदम् = साम्नाम्
    • कर्तृपदम् =अहम्
    • सम्योजकपदम् = तथा
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =गायत्री
      • सम्बन्ध-पदम् = छन्दसाम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =मार्गशीर्षः
      • सम्बन्ध-पदम् = मासानाम्
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =कुसुमाकरः
      • सम्बन्ध-पदम् = ऋतूनाम्
    • कर्तृपदम् =अहम्

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥

पदच्छेदः

द्यूतं छलयताम् अस्मि तेजः तेजस्विनाम् अहम् जयः अस्मि व्यवसायः अस्मि सत्त्वं सत्त्ववताम् अहम् ॥ ३६ ॥

अन्वयः

छलयतां द्यूतम् अस्मि । अहं तेजस्विनां तेजः । जयः अस्मि । व्यवसायः अस्मि । अहं सत्त्ववतां सत्त्वम् |

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =द्यूतम्
      • सम्बन्ध-पदम् = छलयताम्
    • कर्तृपदम् =(अहम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् = तेजः
      • सम्बन्ध-पदम् = तेजस्विनाम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = जयः
    • कर्तृपदम् =(अहम्)
  • चतुर्थवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = व्यवसायः
    • कर्तृपदम् =(अहम्)
  • पञ्चमवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृविशेषणम् =सत्त्वम्
      • सम्बन्ध-पदम् = सत्त्ववताम्
    • कर्तृपदम् =अहम्

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।

मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥

पदच्छेदः

वृष्णीनां वासुदेवः अस्मि पाण्डवानां धनञ्जयः मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ ३७ ॥

अन्वयः

वृष्णीनां वासुदेवः अस्मि । पाण्डवानां धनञ्जयः । मुनीनाम् अपि अहं व्यासः । कवीनाम् उशना कविः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =वासुदेवः
      • सम्बन्ध-पदम् = वृष्णीनाम्
    • कर्तृपदम् =अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =धनञ्जयः
      • सम्बन्ध-पदम् = पाण्डवानाम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • सम्योजकपदम् = अपि
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =व्यासः
      • सम्बन्ध-पदम् = मुनीनाम्
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =उशना
      • कर्तृविशेषणम् =कविः
      • सम्बन्ध-पदम् = कवीनाम्
    • कर्तृपदम् =अहम्

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥

पदच्छेदः

दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् मौनं च एव अस्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥ ३८ ॥

अन्वयः

दमयतां दण्डः अस्मि । जिगीषतां नीतिः अस्मि । गुह्यानां मौनं च एव अस्मि । ज्ञानवतां ज्ञानम् अहम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =दण्डः
      • सम्बन्ध-पदम् = दमयताम्
    • कर्तृपदम् =(अहम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =नीतिः
      • सम्बन्ध-पदम् = जिगीषताम्
    • कर्तृपदम् =अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • सम्योजकपदम् = च
    • सम्योजकपदम् = एव
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =मौनं
      • सम्बन्ध-पदम् = गुह्यानाम्
    • कर्तृपदम् =अहम्
  • चतुर्थवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =ज्ञानम्
      • सम्बन्ध-पदम् = ज्ञानवताम्
    • कर्तृपदम् =अहम्

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।

न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥

पदच्छेदः

यत् च अपि सर्वभूतानां बीजं तत् अहम् अर्जुन न तत् अस्ति विना यत् स्यात् मया भूतं चराचरम् ॥ ३९ ॥

अन्वयः

अर्जुन ! सर्वभूतानां यत् बीजं तत् अपि अहम् । मया विना चराचरं भूतं यत् स्यात् तत् (अहं) नास्ति ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् =बीजम्
        • सम्बन्ध-पदम् = सर्वभूतानाम्
      • कर्तृपदम् =यत्
    • “तत्” वाक्यांश:
      • क्रियापदम् = (अस्मि)
      • कर्तृ-विशेषण-सूचक-पदम् = तत्
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • कर्तृपदम् =अहम्
    • द्वितीयवाक्यम्
      • “यत्” वाक्यांश:
        • क्रियापदम् = स्यात् [ अस् “अस भुवि” पर. विधिलिङ्ग. उपु. एक. ]
        • कर्तृ-विशेषण-सूचक-वाक्यांश:
          • कर्तृपदम् =भूतम्
          • कर्तृविशेषणम् =चराचरम्
          • वाक्यांश:
            • करणवाचकपदम् = मया
            • सम्योजकपदम् = विना
          • कर्तृपदम् =यत्
        • “तत्” वाक्यांश:
          • क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
          • क्रियाविशेषणम् =न
          • कर्तृ-विशेषण-सूचक-पदम् = (अहम्)
          • कर्तृपदम् =तत्

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥

पदच्छेदः

न अन्तः अस्ति मम दिव्यानां विभूतीनां परन्तप एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥

अन्वयः

परन्तप ! मम दिव्यानां विभूतीनाम् अन्तः न अस्ति । मया एषः विभूतेः विस्तरः तु उद्देशतः प्रोक्तः ।

पदपरिचय:

  • सम्बोधनपदम् = परन्तप
  • प्रथमवाक्यम्
    • क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • वाक्यांश:
      • कर्तृपदम् =अन्तः
      • सम्बन्ध-पदम् = विभूतीनाम्
      • सम्बन्ध-विशेषण-पदम् = दिव्यानाम्
      • सम्बन्ध-विशेषण-सूचक-पदम् = मम
    • द्वितीयवाक्यम्
      • कर्तृ-विशेषण-वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= प्रोक्तः
        • क्रियाविशेषणम् = उद्देशतः
        • वाक्यांश:
          • (कर्मणि) कर्मपदम् =विस्तरः
          • सम्बन्ध-पदम् = विभूतेः
        • (कर्मणि) कर्मविशेषणम् =एषः
        • (कर्मणि) कर्तृपदम् =मया
        • सम्योजकपदम् = तु

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ४१ ॥

पदच्छेदः

यत् यत् विभूतिमत् सत्त्वं श्रीमदूर्जितम् एव वा तत् तत् एव अवगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ४१ ॥

अन्वयः

यद्यत् विभूतिमत् श्रीमत् ऊर्जितम् एव वा सत्त्वं तत्तत् एव मम तेजोंऽशसम्भवम् (इति) त्वम् अवगच्छ ।

पदपरिचय:

  • प्रथमवाक्यम्
  • “यत्” वाक्यांश:
    • क्रियापदम् =(अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =विभूतिमत्
      • कर्तृपदम् =श्रीमत्
      • कर्तृपदम् =ऊर्जितम्
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • सम्योजकपदम् = वा
    • कर्तृपदम् =सत्त्वम्
    • कर्तृविशेषणम् = यत्
  • “तत्” वाक्यांश:
    • क्रियापदम् = अवगच्छ [ अव + गम् “गम्ऌ गतौ” पर. लोट्. मपु. एक. ]
    • कर्म-वाक्यम्
      • वाक्यांश:
        • कर्तृपदम् =तेजोंऽशसम्भवम्
        • सम्बन्दपदम् = मम
      • कर्तृपदम् =तत्
      • कर्तृविशेषण-सूचक-पदम् = एव
    • कर्तृपदम् =त्वम्

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥

पदच्छेदः

अथवा बहुना एतेन किं ज्ञातेन तव अर्जुन विष्टभ्य अहम् इदं कृत्स्नम् एकांशेन स्थितः जगत् ॥ ४२ ॥

अन्वयः

अर्जुन ! अथवा एतेन बहुना ज्ञातेन तव किम् (अस्ति) ? अहम् इदं कृत्स्नं जगत् एकांशेन विष्टभ्य स्थितः ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन
  • प्रथमवाक्यम्
    • क्रियापदम् =(अस्ति)
    • वाक्याश:
      • प्रश्नवाचकपदम् = किम्
      • सम्बन्ध-पदम् = तव
    • करणवाचकपदम् = ज्ञातेन
    • करणविशेषण-सूचक-पदम् = बहुना
    • करणविशेषणम् = एतेन
    • सम्योजकपदम् = अथवा
  • द्वितीयवाक्यम्
    • क्रियापदम् =(अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =स्थितः
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विष्टभ्य [ वि + ष्टभ् + ल्यप् प्रत्यय: ]
        • करणवाचकपदम् = एकांशेन
        • कर्मपदम् =जगत्
        • कर्मविशेषणम् =कृत्स्नम्
        • कर्मविशेषणम् =इदम्
      • कर्तृपदम् =अहम्

References –

  1. 28th Nov 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6mx वर्गः विभूतियोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Page status – <Some updates are pending>

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s