Grammatical aspects in Bhaja Govindam verse 24 – Tvayi mayi chaanyatra

24. त्वयि मयि चान्यत्र– “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः

श्लोक:

त्वयि मयि चान्यत्रैको विष्णु-

र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।

भव समचित्तः सर्वत्र त्वं

वाञ्छस्यचिराद्यदि विष्णुत्वम् ।।२४।।

पाठभेद:

त्वयि मयि चान्यत्रैको विष्णुः

व्यर्थं कुप्यसि सर्वसहिष्णुः

सर्वस्मिन्नपि पश्यात्मानं

सर्वत्रोत्सृज भेदाज्ञानम् ।।२४।।

पदच्छेद:

त्वयि मयि च अन्यत्र एकः विष्णुः व्यर्थं कुप्यसि मयि असहिष्णुः भव समचित्तः सर्वत्र त्वं वाञ्छसि अचिरात् यदि विष्णुत्वम्।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =एकः [ अ. पुं. प्र. एक. ]
      • अधिकरणपदम् = त्वयि [ युष्मद् द. त्री. स. एक. ]
      • अधिकरणपदम् = मयि [ अस्मद् द. त्री. स. एक. ]
      • स्थानवाचकपदम् = अन्यत्र [ अव्ययम् ]
      • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् =विष्णुः  [ उ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् =कुप्यसि [ कुप्  “कुप् क्रोधे” पर. लट्. मपु. एक. ]
    • क्रियाविशेषणम् = व्यर्थम् [ अव्ययम् ]
    • कर्तृपदम् =त्वम् [ युष्मद् द. त्री. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =असहिष्णुः [ उ. पुं. प्र. एक. ]
      • अधिकरणपदम् = मयि [ अस्मद् द. त्री. स. एक. ]
    • तृतीयवाक्यम्
      • “यदि” वाक्यांश:
        • क्रियापदम् =वाञ्छसि [ वाञ्छ्  “वाछि इच्छायाम्” पर. लट्. मपु. एक. ]
        • क्रियाविशेषणम् = अचिरात् [ अव्ययम् ]
        • कर्मपदम् =विष्णुत्वम् [ अ. नपुं. प्र. एक. ]
        • कर्तृपदम् =त्वम् [ युष्मद् द. त्री. प्र. एक. ]
        • सम्योजकपदम् = यदि [ अव्ययम् ]
      • (तर्हि) वाक्यांश:
        • क्रियापदम् =भव [भू “भू सत्तायाम्” पर. लोट्. मपु. एक. ]
        • कर्तृ-विशेषण-सूचक-पदम् = समचित्तः [ अ. पुं. प्र. एक. ]
        • कर्तृपदम् =त्वम् [ युष्मद् द. त्री. प्र. एक. ]
        • विषयवाचकपदम् = सर्वत्र [ अव्ययम् ]

अन्वय:

त्वयि मयि च अन्यत्रै एकः विष्णुः | असहिष्णुः त्वं  व्यर्थं मयि कुप्यसि | यदि त्वं  विष्णुत्वं अचिरात् वाञ्छसि (तर्हि) सर्वत्र समचित्तः भव |

सार:

विष्णु: व्यापनशील: सर्वव्यापि विष्णु: परमात्मैव सर्वशरीरेषु तथा प्रपञ्चे सर्वत्र च वर्तते | अतोत्वं अहं च एक एव | यदि परोऽस्ति तर्हि कोप: युज्यते | पराभावात् कोपादिकं न युज्यते इत्यर्थ: | त्वं अनामयं पदम् विष्णुत्वं मोक्षं वाञ्छसि चेत् सर्वत्र समचित्तो भव |

व्याकरणम्

  • सन्धि:
    • चान्यत्रैक: = च अन्यत्र – सवर्नदीर्घसन्धि: |
    • अन्यत्रैक: = अन्यत्र एक: – वृद्धिसन्धि: |
    • एको विष्णु: = एक: विष्णु: – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
    • विष्णुर्व्यर्थम् = विष्णु: व्यर्थम् – विसर्ग सन्धि:, रेफादेश: |
    • मय्यसहिष्णुः = मयि असहिष्णुः – यण्सन्धि: |
    • वाञ्छस्यचिरात् = वाञ्छसि अचिरात् – यण्सन्धि: |
    • अचिराद्यदि = अचिरात् यदि – जश्त्वसन्धि: |
  • विग्रह:
    • असहिष्णुः
      • सहिष्णुः = सोढुं शीलम् अस्य अस्ति इति |
      • असहिष्णुः = न सहिष्णुः – नञ् तत्पुरुष: |

Tvayi mayi cān’yatraikō viṣṇu-
rvyarthaṁ kupyasi mayyasahiṣṇuḥ |
Bhava samacittaḥ sarvatra tvaṁ
vāñchasyacirādyadi viṣṇutvam || 24 ||

In thee, in me and in all dwells the Lord. Why do thou impatiently hate me in others? See me in all and leave off the ideas of I and you.

<page status – some more updates pending >

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s