Bhagavad Gita – Chapter 10 – Part 1

श्रीमद्भगवद्गीता – दशमोऽध्याय: – विभूतियोगः – भाग: १

श्रीभगवानुवाच

भूय एव महाबाहो शृणु मे परमं वचः ।

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

पदच्छेदः

भूय एव महाबाहो शृणु मे परमं वचः यत् ते अहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

अन्वयः

महाबाहो ! भूयः एव मे परमं वचः शृणु यत् अहं प्रीयमाणाय ते हितकाम्यया वक्ष्यामि ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो[ उ. पुं. सम्. एक. ]
  • “यत्” वाक्यांश:
    • क्रियापदम् =वक्ष्यामि [ प्र + वच् “वच परिभाषणे” उभ. लट्. उपु. एक. ]
    • कर्मपदम् =यत् [ त. नपुं. द्वि. एक. ]
    • सम्प्रदानपदम् = (तुभ्यम्) ते [ द. त्रि. च. एक. ]
    • सम्प्रदानविशेषणम् = प्रीयमाणाय [ अ. पुं. तृ. एक. ]
    • कर्तृपदम् =अहम् [ अस्मद् द. त्रि. प्र. एक. ]
  • (तत्) वाक्यांश:
    • क्रियापदम् =शृणु [श्रु “श्रु श्रवणे” पर. लोट्. मपु. एक. ]
    • क्रियाविशेषणम् =भूयः [ अव्ययम् ]
    • क्रियाविशेषणम् =एव [ अव्ययम् ]
    • वाक्यांश:
      • कर्मपदम् =वचः [ स. नपुं. द्वि. एक. ]
      • कर्मविशेषणम् = (तत्)
      • कर्मविशेषणम् = परमम् [ अ. नपुं. द्वि. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् =(त्वम्)

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।

अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

पदच्छेदः

न मे विदुः सुरगणाः प्रभवं न महर्षयः अहम् आदिः हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

अन्वयः

सुरगणाः मे प्रभवं न विदुः | महर्षयः न । अहं हि सर्वशः देवानां महर्षीणां च आदिः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विदुः [ विद् “विद ज्ञाने” पर. लट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् =न [ अव्ययम् ]
    • वाक्यांश:
      • कर्मपदम् =प्रभवम्
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् =सुरगणाः [ अ. पुं. प्र. बहु. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = (विदुः )
    • क्रियाविशेषणम् =न [ अव्ययम् ]
    • कर्तृपदम् =महर्षयः [ इ. पुं. प्र. बहु. ]
  • तृतीयवाक्यम् ।
    • क्रियापदम् = (अस्मि)
    • क्रियाविशेषणम् =सर्वशः [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = आदिः [ इ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = देवानां [ अ. पुं. ष. बहु. ]
      • सम्बन्ध-पदम् = महर्षीणां [ इ. पुं. ष. बहु. ]
      • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = हि [ अव्ययम् ]

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।

असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

पदच्छेदः

यः माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् असम्मूढः सः मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

अन्वयः

यः असम्मूढः माम् अजम् अनादिं लोकमहेश्वरं च वेत्ति सः मर्त्येषु सर्वपापैः प्रमुच्यते ।

पदपरिचय:

  • “य:” वाक्यांश:
    • क्रियापदम् = वेत्ति [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. ]
    • कर्मपदम् = माम् [ अस्मद् द. त्रि. द्वि. एक. ]
    • कर्मविशेषणम् = अजम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = अनादिम् [ इ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = लोकमहेश्वरम् [ अ. पुं. द्वि. एक. ]
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = असम्मूढः [ अ. पुं. प्र. एक. ]
  • “स:” वाक्यांश:
    • (कर्मणि) क्रियापदम् =प्रमुच्यते [ प्र + मुच् “मुच्ऌ मोक्षणे” उभ. कर्मणि लट्. प्रपु. एक. ]
    • (कर्मणि) कर्तृपदम् =सर्वपापैः [ अ. नपुं. तृ. बहु. ]
    • वाक्यांश:
      • (कर्मणि) कर्मपदम् =सः [ तद् द. पुं. प्र. एक. ]
      • (कर्मणि) अधिकरणपदम् = मर्त्येषु [ अ. पुं. ष. बहु. ]

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।

सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

पदच्छेदः

बुद्धिः ज्ञानम् सम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावो भयं च अभयम् एव च ॥ ४ ॥

अहिंसा समता तुष्टिः तपः दानं यशः अयशः भवन्ति भावाः भूतानां मत्तः एव पृथग्विधाः ॥ ५ ॥

अन्वयः

बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावः भयं च अभयम् एव च अहिंसा समता तुष्टिः तपः दानं यशः अयशः पृथग्विधाः भावाः भूतानां मत्तः एव भवन्ति ।

पदपरिचय:

  • क्रियापदम् =भवन्ति [ भू “भू सत्तायाम्” पर. लट्. प्रपु. बहु. ]
  • अपादानपदम् = मत्तः [ अव्ययम् ]
  • अपादानविशेषणम् = एव [ अव्ययम् ]
  • कर्तृ-विशेषण-सूचक-वाक्यांश:
    • कर्तृपदम् =भावाः [ अ. पुं. प्र. बहु. ]
    • सम्बन्ध-पदम् = भूतानाम् [ अ. पुं. ष. बहु. ]
    • कर्तृविशेषणम् =पृथग्विधाः [ अ. पुं. प्र. बहु. ]
  • कर्तृपदम् =बुद्धिः [ इ. पुं. प्र. एक. ]
  • कर्तृपदम् =ज्ञानम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् =असम्मोहः [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् =क्षमा [ आ. स्त्री. प्र. एक. ]
  • कर्तृपदम् =सत्यम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् =दमः [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् =शमः [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् =सुखम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् =दुःखम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् =भवः [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् =अभावः [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् =भयम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् =अभयम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् =अहिंसा [ आ. स्त्री. प्र. एक. ]
  • कर्तृपदम् =समता [ आ. स्त्री. प्र. एक. ]
  • कर्तृपदम् =तुष्टिः [ इ. पुं. प्र. एक. ]
  • कर्तृपदम् =तपः [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् =दानम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् =यशः [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् =अयशः [ अ. पुं. प्र. एक. ]
  • सम्योजकपदम् = एव [ अव्ययम् ]
  • सम्योजकपदम् = च [ अव्ययम् ]

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥

पदच्छेदः

महर्षयः सप्त पूर्वे चत्वारः मनवः तथा मद्भावाः मानसा जाताः येषां लोके इमाः प्रजाः ॥ ६ ॥

अन्वयः

सप्त महर्षयः तथा पूर्वे चत्वारः मनवः मद्भावाः मानसाः जाताः येषाम् इमाः प्रजाः लोके ।

पदपरिचय:

  • “येषाम्” वाक्यांश:
    • क्रियापदम् =(भवन्ति)
    • वाक्यांश:
      • कर्तृपदम् =प्रजाः [ आ. स्त्री. प्र. बहु. ]
      • सम्बन्ध-पदम् = येषाम् [ यद् द. पुं. ष. बहु. ]
    • कर्तृविशेषणम् =इमाः [ आ. स्त्री. प्र. बहु. ]
    • अधिकरणपदम् = लोके [ अ. पुं. स. एक. ]
  • (“ते”) वाक्यांश:
    • क्रियापदम् =(सन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मद्भावाः [ अ. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = जाताः [ अ. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् =मानसाः [ अ. पुं. प्र. बहु. ]
    • कर्तृपदम् =(ते)
    • वाक्यांश:
      • कर्तृपदम् =महर्षयः [ इ. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् = सप्त [ अ. त्रि. प्र. बहु. ]
    • कर्तृपदम् =चत्वारः [ चतुर् र. पुं. प्र. बहु. ]
    • वाक्यांश:
      • कर्तृपदम् =मनवः [ उ. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् =पूर्वे [ अ. पुं. स. एक. ]
    • सम्योजकपदम् = तथा [ अव्ययम् ]

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।

सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

पदच्छेदः

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥ ७ ॥

अन्वयः

यः मम एतां विभूतिं योगं च तत्त्वतः वेत्ति सः अविकम्पेन योगेन युज्यते | अत्र संशयः न ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “य:” वाक्यांश:
      • क्रियापदम् = वेत्ति [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = तत्त्वतः [ अव्ययम् ]
      • वाक्यांश:
        • कर्मपदम् = विभूतिम् [ इ. पुं. द्वि. एक. ]
        • कर्मपदम् = योगम् [ अ. पुं. द्वि. एक. ]
        • सम्योजकपदम् = च [ अव्ययम् ]
        • सम्बन्ध-पदम् = मम [अष्मद् द. त्रि. ष. एक. ]
        • कर्मविशेषणम् =एताम् [एतद् द. पुं. द्वि. एक. ]
      • कर्तृपदम् =य: [ यद् द. पुं. प्र. एक. ]
    • “स:” वाक्यांश:
      • (कर्मणि) क्रियापदम् =युज्यते [ युज् “युजिर् योगे” उभ. कर्मणि लट्. प्रपु. एक. ]
      • (कर्मणि) कर्मपदम् =सः [ तद् द. पुं. प्र. एक. ]
      • (कर्मणि) कर्तृपदम् = योगेन [ अ. पुं. तृ. एक. ]
      • (कर्मणि) कर्तृविशेषणम् =अविकम्पेन [ अ. पुं. तृ. एक. ]
    • द्वितीयवाक्यम्
      • क्रियापदम् =(अस्ति)
      • क्रियाविशेषणम् = न [ अव्ययम् ]
      • कर्तृपदम् =संशयः [ अ. पुं. प्र. एक. ]
      • अधिकरणपदम् = अत्र [ अव्ययम् ]

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥

पदच्छेदः

अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधाः भावसमन्विताः ॥ ८ ॥

अन्वयः

अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा बुधाः भावसमन्विताः मां भजन्ते ।

पदपरिचय:

  • क्रियापदम् =भजन्ते [भज्  “भज सेवायाम्” उभ. लट्. प्रपु. बहु. ]
  • कर्मपदम् =माम् [अस्मद् द. त्रि. द्वि. एक. ]
  • कर्तृपदम् =भावसमन्विताः [ अ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् =बुधाः [ अ. पुं. प्र. एक. ]
  • क्त्वान्त-वाक्यांश:
    • क्त्वान्तपदम् =मत्वा [ मन् “मन ज्ञाने” + क्त्वा प्रत्यय:  अव्ययम् ]
    • सम्योजकपदम् = इति [ अव्ययम् ]
    • कर्म-वाक्यम्
      • क्रियापदम् =प्रवर्तते [ प्र + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
      • कर्मपदम् =सर्वम् [ अ. पुं. द्वि. एक. ]
      • अपादानपदम् = मत्तः [ अव्ययम् ]
    • कर्म-वाक्यम्
      • क्रियापदम् =(अस्मि)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् =प्रभवः [ अ. पुं. प्र. एक. ]
        • सम्बन्ध-पदम् = सर्वस्य [ अ. पुं. ष. एक. ]
      • कर्तृपदम् =अहम् [ अस्मद् द. त्रि. प्र. एक. ]

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥

पदच्छेदः

मच्चित्ताः मद्गतप्राणाः बोधयन्तः परस्परम् कथयन्तः च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥

अन्वयः

(बुधाः भावसमन्विताः) मच्चित्ताः मद्गतप्राणाः परस्परं मां बोधयन्तः कथयन्तः च नित्यं तुष्यन्ति च रमन्ति च ।

पदपरिचय:

  • वाक्यांश:
    • क्रियापदम् = तुष्यन्ति [ तुष् “तुष प्रीतौ” पर. लट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् = नित्यम् [ अव्ययम् ]
  • क्रियापदम् = रमन्ति [ रम् “रमु क्रीडायाम्” (अत्र पर. आर्ष:) आ. लट्. प्रपु. बहु. ]
  • सम्योजकपदम् = च [ अव्ययम् ]
  • कर्तृपदम् = (बुधाः )
  • कर्तृविशेषणम् = (भावसमन्विताः )
  • कर्तृविशेषणम् = मच्चित्ताः [ अ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = मद्गतप्राणाः [ अ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-वाक्यांश:
    • क्रिया-गर्भ-कर्तृपदम् = बोधयन्तः [ त. पुं. प्र. एक. ]
    • क्रियाविशेषणम् =परस्परम् [ अव्ययम् ]
    • कर्मपदम् =माम् [अस्मद् द. त्रि. द्वि. एक. ]

References –

  1. 20th Nov 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6mx वर्गः विभूतियोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s