Bhagavad Gita – Chapter 3 – Shloka 4

Please ignore this post and refer this updated page —  https://nivedita2015.wordpress.com/chapter-3-bhagavad-gita/

श्लोक: ४

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

पदच्छेदः

न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते न च संन्यसनात् एव सिद्धिं समधिगच्छति ॥ ४ ॥

अन्वयः

पुरुषः कर्मणाम् अनारम्भात् नैष्कर्म्यं न अश्नुते । (कर्मणाम्) संन्यसनात् एव सिद्धिं च न समधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = अश्नुते [ अश् “अशू व्याप्तौ संघाते च” आ. लट्. प्रपु. एक. ]
    • प्रतिषेधम् = न [ अव्ययम् ]
    • कर्म = नैष्कर्म्यम् [ अ. नपुं. द्वि. एक. ]
    • वाक्यांशः
      • हेतुवाचकम् = अनारम्भात् [ अ. पुं. प. एक. ]
      • सम्बन्धिः = कर्मणाम् [ न. नपुं. ष. बहु. ]
    • कर्ता = पुरुषः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रिया = समधिगच्छति [ सम् + अधि + गम् “गम्ऌ गतौ” पर. लट्. प्रपु. एक. ]
    • प्रतिषेधम् = न [ अव्ययम् ]
    • कर्म = सिद्धिम् [ इ. पुं. द्वि. एक. ]
    • वाक्यांशः
      • हेतुवाचकम् = अनारम्भात् [ अ. पुं. प. एक. ]
      • सम्बन्धिः = (कर्मणाम्)
      • अवधारणम् = एव [ अव्ययम् ]
    • समुच्चयम् = च [ अव्ययम् ]
  • सन्धि:
    • अनारम्भान्नैष्कर्म्यम् = अनारम्भात् + नैष्कर्म्यम् – अनुनासिकसन्धि: ।
    • पुरुषोऽश्नुते = पुरुषः + अश्नुते – विसर्गसन्धि: (साकार: ) रेफ:, उकार:, गुण:, पूर्वरूपं च ।
    • संन्यसनादेव = संन्यसनात् + एव – जश्त्वसन्धि: ।
    • संन्यसनात् = सम् + न्यसनात् – अनुस्वार: ।
  • समास:
    • अनारम्भात् = न आरम्भ: अनारम्भ: – नञ्तत्पुरुष: ।
  • कृदन्त:
    • संन्यसनात् = सम् + नि + अस् “अस भुवि” + ल्युट् (भावे) संन्यसनम् । तस्मात् ।
  • तद्धितान्त:
    • नैष्कर्म्यम् = नैष्कर्म + ष्यञ् । निष्कर्मण: भाव: इत्यर्थ: ।

तात्पर्यम्

मनुष्यः कर्मणः अनाचरणेन निष्कर्मतां न लभते । तथा कर्मत्यागमात्रेण आत्मज्ञानमपि न विन्दति ।References –

  1. Gita Praveshah – dviteeyabhaaga Part- 1 by Samskrita Bharati [Sanskrit]
  2. Gita Praveshah – prathamabhaaga by Samskrita Bharati [Sanskrit]
  3. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  4. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  5. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Sandhih by G. Mahaabaleshvarabhattah, published by Samskrita Bharati [Sanskrit]
  7. https://sa.wikipedia.org/s/6j8 कर्मयोगः
  8. Samskrita Bharati USA- Bhagavat Gita class-Dr.K.N.Padmakumar -Chapter 3-Sloka 4 https://youtu.be/_LjouCkA0YM

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s