Bhagavad Gita – Chapter 9 – Part 3

श्रीमद्भगवद्गीता – नवमोऽध्याय: – राजविद्याराजगुह्ययोगः  – भाग: 3

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।

एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥

पदच्छेदः

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥ २१ ॥

अन्वयः

ते तं विशालं स्वर्गलोकं भुक्त्वा पुण्ये क्षीणे (सति) मर्त्यलोकं विशन्ति । एवं त्रयीधर्मम् अनुप्रपन्नाः कामकामाः गतागतं लभन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विशन्ति [विश् “विश प्रवेशने पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = मर्त्यलोकम् [ अ. पुं. द्वि. एक. ]
    • कर्तृपदम् = ते [ तत् त. पुं. प्र. बहु. ]
    • सतिसप्तमि वाक्यांश:
      • क्रिया-आश्रय-कर्मपदम् = पुण्ये [ अ. पुं. स. एक. ]
      • ज्ञापक-क्रियापदम् = क्षीणे [ अ. पुं. स. एक. ]
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भुक्त्वा [
      • कर्मपदम् = स्वर्गलोकम् [ अ. पुं. द्वि. एक. ]
      • कर्मविशेषणम् = विशालम् [ अ. पुं. द्वि. एक. ]
      • कर्मविशेषणम् = तम् [ तत् त. पुं. द्वि. एक. ]
    • द्वितीयवाक्यम्
      • क्रियापदम् = लभन्ते [ लभ् “डुलभष् प्राप्तौ” आ. लट्. प्रपु. बहु. ]
      • कर्मपदम् = गतागतम् [ अ. पुं. द्वि. एक. ]
      • कर्तृपदम् = कामकामाः [ अ. पुं. प्र. बहु. ]
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम् = अनुप्रपन्नाः [ अ. पुं. प्र. बहु. ]
        • क्रियाविशेषणम् = एवम् [ अ. पुं. द्वि. एक. ]
        • कर्मपदम् = त्रयीधर्मम् [ अ. पुं. द्वि. एक. ]

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥

पदच्छेदः

अनन्याः चिन्तयन्तः मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहामि अहम् ॥ २२ ॥

अन्वयः

ये अनन्याः जनाः मां चिन्तयन्तः पर्युपासते नित्याभियुक्तानां तेषां योगक्षेमम् अहम् वहामि ।

पदपरिचय:

  • “ये” वाक्यांश:
    • क्रियापदम् = पर्युपासते [ परि + उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • कर्मपदम् = (माम्)
    • कर्तृपदम् = ये [ यत् त. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = जनाः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = अनन्याः [ अ. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = चिन्तयन्तः [ अ. पुं. प्र. बहु. ]
      • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • “तेषाम्” वाक्यांश:
      • क्रियापदम् = वहामि [ वह् “वह प्रापणे” पर. लट्. उपु. एक. ]
      • वाक्यांश:
        • कर्मपदम् = योगक्षेमम् [ अ. पुं. द्वि. एक. ]
        • सम्बन्ध-पदम् = नित्याभियुक्तानाम् [ अ. पुं. द्वि. एक. ]
        • सम्बन्ध-विशेषण-पदम् = तेषाम् [ तत् त. पुं. ष. बहु. ]
      • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥

पदच्छेदः

ये अपि अन्यदेवताः भक्ताः यजन्ते श्रद्धया अन्विताः ते अपि माम् एव कौन्तेय यजन्ति अविधिपूर्वकम् ॥ २३ ॥

अन्वयः

कौन्तेय ! ये भक्ताः अपि श्रद्धया अन्विताः अन्यदेवताः यजन्ते ते अपि माम् एव अविधिपूर्वकं यजन्ति ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय [ अ. पुं. सम्. एक. ]
  • “ये” वाक्यांश:
    • क्रियापदम् = यजन्ते [ यज् “यज देवपूजासङ्गतिकरणदानेषु” उभ. लट्. प्रपु. बहु. ]
    • कर्मपदम् = अन्यदेवताः [ आ. स्त्री. द्वि. बहु. ]
    • कर्तृपदम् = ये [ यत् त. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = भक्ताः [ अ. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = अन्विताः [ अ. पुं. प्र. बहु. ]
      • करणवाचकपदम् = श्रद्धया [ आ. स्त्री. तृ. एक. ]
  • “ते” वाक्यांश:
    • क्रियापदम् = यजन्ति [ यज् “यज देवपूजासङ्गतिकरणदानेषु” उभ. लट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् = अविधिपूर्वकम् [ अ. पुं. द्वि. एक. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • कर्मविशेषणम् = एव [ अव्ययम् ]
    • कर्तृपदम् = ते [ तत् त. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = अपि [ अव्ययम् ]

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥

पदच्छेदः

अहं हि सर्वयज्ञानां भोक्ता च प्रभुः एव च न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥ २४ ॥

अन्वयः

अहम् एव हि सर्वयज्ञानां भोक्ता च प्रभुः च । ते मां तत्त्वेन न तु अभिजानन्ति । अतः च्यवन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = भोक्ता [ ऋ. पुं. प्र. एक. ]
      • कर्तृ-विशेषण-सूचक-पदम् = प्रभुः [ उ. पुं. प्र. एक. ]
      • संयोजक-पदम् = च [ अव्ययम् ]
      • सम्बन्ध-पदम् = सर्वयज्ञानाम् [ अ. पुं. ष. बहु. ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
    • कर्तृविशेषणम् = एव [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = अभिजानन्ति [ अभि + ज्ञा “ज्ञा अवबोधने” पर. लट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • कर्तृपदम् = ते [ तत् त. पुं. प्र. बहु. ]
    • करणवाचकपदम् = तत्त्वेन [ अ. नपुं. तृ. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = च्यवन्ति [ च्यु “च्युङ् गतौ” आ. लट्. प्रपु. बहु. ]
    • कारणवाचकपदम् = अतः [ अव्ययम् ]

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥

पदच्छेदः

यान्ति देवव्रताः देवान् पितॄन् यान्ति पितृव्रताः भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनोः अपि माम् ॥ २५ ॥

अन्वयः

देवव्रताः देवान् यान्ति । पितृव्रताः पितॄन् यान्ति । भूतेज्याः भूतानि यान्ति । मद्याजिनः अपि मां यान्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = देवान् [ अ. पुं. द्वि. बहु. ]
    • कर्तृपदम् = देवव्रताः [ अ. पुं. एक. बहु. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = पितॄन् [ ऋ. पुं. द्वि. बहु. ]
    • कर्तृपदम् = पितृव्रताः [ अ. पुं. एक. बहु. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = भूतानि [ अ. पुं. द्वि. बहु. ]
    • कर्तृपदम् = भूतेज्याः [ अ. पुं. एक. बहु. ]
  • चतुर्थवाक्यम्
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • कर्तृपदम् = मद्याजिनः [ अ. पुं. एक. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥

पदच्छेदः

पत्रं पुष्पं फलं तोयं यः मे भक्त्या प्रयच्छति तत् अहं भक्ति उपहृतम् अश्नामि प्रयतात्मनः ॥ २६ ॥

अन्वयः

यः पत्रं पुष्पं फलं तोयं मे भक्त्या प्रयच्छति प्रयतात्मनः भक्त्युपहृतं तत् अहम् अश्नामि ।

पदपरिचय:

  • “यः” वाक्यांश:
    • क्रियापदम् = प्रयच्छति [ प्र + यच्छ “दाण् दाने” पर. लट्. प्रपु. एक. ]
    • कर्मपदम् = पत्रम् [ अ. नपुं. द्वि. एक. ]
    • कर्मपदम् = पुष्पम् [ अ. नपुं. द्वि. एक. ]
    • कर्मपदम् = फलम् [ अ. नपुं. द्वि. एक. ]
    • कर्मपदम् = तोयम् [ अ. नपुं. द्वि. एक. ]
    • कर्तृपदम् = यः [ यत् त. पुं. प्र. एक. ]
    • सम्प्रदानपदम् = मे (मह्यम्) [ अस्मद् द. त्रि. च. एक. ]
    • करणवाचकपदम् = भक्त्या [ इ. स्त्री. तृ. एक. ]
  • “(तस्य)” वाक्यांश:
    • क्रियापदम् = अश्नामि [ अश् “अश भोजने” पर. लट्. उपु. एक. ]
    • वाक्यांश:
      • कर्मपदम् = तत् [ त. नपुं. द्वि. एक. ]
      • सम्बन्ध-पदम् = (तस्य)
      • सम्बन्ध-विशेषण-पदम् = प्रयतात्मनः [ न. पुं. ष. बहु. ]
    • कर्मविशेषणम् =भक्त्युपहृतम् [ अ. पुं. द्वि. एक. ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥

पदच्छेदः

यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥ २७ ॥

अन्वयः

कौन्तेय ! यत् करोषि यत् अश्नासि यत् जुहोषि यत् ददासि यत् तपस्यसि तत् मदर्पणं कुरुष्व ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय [ अ. पुं. सम्. एक. ]
  • “यत्” वाक्यांश:
    • क्रियापदम् = करोषि [ कृ “डुकृञ् करणे” उभ. लट्. मपु. एक. ]
    • कर्मपदम् = यत् [ द. नपुं. प्र. एक. ]
  • “यत्” वाक्यांश:
    • क्रियापदम् = अश्नासि [ अश् “अश भोजने” पर. लट्. मपु. एक. ]
    • कर्मपदम् = यत् [ द. नपुं. प्र. एक. ]
  • “यत्” वाक्यांश:
    • क्रियापदम् = जुहोषि [ हु “हु दानादनयो:” पर. लट्. मपु. एक. ]
    • कर्मपदम् = यत् [ द. नपुं. प्र. एक. ]
  • “यत्” वाक्यांश:
    • क्रियापदम् = ददासि [ दा “डुदाञ् दाने” पर. लट्. मपु. एक. ]
    • कर्मपदम् = यत् [ द. नपुं. प्र. एक. ]
  • “यत्” वाक्यांश:
    • क्रियापदम् = तपस्यसि [ तपस् + क्यङ् प्रत्यय – नामधातु, पर. लट्. मपु. एक. ]
    • कर्मपदम् = यत् [ द. नपुं. प्र. एक. ]
  • “तत्” वाक्यांश:
    • क्रियापदम् = कुरुष्व [ कृ “डुकृञ् करणे” उभ. लोट्. मपु. एक. ]
    • कर्मपदम् = मदर्पणम् [ अ. नपुं. द्वि. एक. ]
    • कर्मविशेषणम् = तत् [ त. नपुं. द्वि. एक. ]
    • कर्तृपदम् = त्वम् [ युष्मद् द. त्रि. प्र. एक. ]

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥

पदच्छेदः

शुभाशुभफलैः एवं मोक्ष्यसे कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तः माम् उपैष्यसि ॥ २८ ॥

अन्वयः

एवं शुभाशुभफलैः कर्मबन्धनैः मोक्ष्यसे । सन्न्यासयोगयुक्तात्मा विमुक्तः माम् उपैष्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = मोक्ष्यसे [ मुच् “मुच्ऌ मोक्षणे” उभ. लृट्. मपु. एक. ]
    • क्रियाविशेषणम् = एवम् [ अ. पुं. द्वि. एक. ]
    • करणवाचकपदम् = कर्मबन्धनैः [ अ. नपुं. तृ. बहु. ]
    • करणविशेषणम् = शुभाशुभफलैः [ अ. नपुं. तृ. बहु. ]
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपैष्यसि [ उप + इ “इण् गतौ” पर. लट्. मपु. एक. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • कर्तृपदम् = विमुक्तः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = सन्न्यासयोगयुक्तात्मा [ न. पुं. प्र. एक. ]

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९ ॥

पदच्छेदः

समः अहं सर्वभूतेषु न मे द्वेष्यः अस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु च अपि अहम् ॥२९ ॥

अन्वयः

अहं सर्वभूतेषु समः । द्वेष्यः मे न अस्ति, प्रियः न । ये तु मां भक्त्या भजन्ति ते मयि अहं तेषु च अपि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = समः [ अ. पुं. प्र. एक. ]
      • अधिकरणपदम् = सर्वभूतेषु [ अ. पुं. ष. बहु. ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • वाक्यांश:
      • कर्तृपदम् = द्वेष्यः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • तृतीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • क्रियाविशेषणम् = न [ अव्ययम् ]
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
    • चतुर्थवाक्यम्
      • “ये” वाक्यांश:
        • क्रियापदम् = भजन्ति [ भज् “भज सेवायाम्” उभ. लट्. प्रपु. बहु. ]
        • करणवाचकपदम् = भक्त्या [ इ. स्त्री. तृ. एक. ]
        • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
        • कर्तृपदम् = ये [ यत् त. पुं. प्र. बहु. ]
      • “ते” वाक्यांश:
        • क्रियापदम् = (सन्ति)
        • कर्तृपदम् = ते [ तत् त. पुं. प्र. बहु. ]
        • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
      • पञ्चमवाक्यम्
        • क्रियापदम् = (अस्मि)
        • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
        • अधिकरणपदम् = तेषु [ तद् द. नपुं. स. बहु. ]

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥

पदच्छेदः

अपि चेत् सुदुराचारः भजते माम् अनन्यभाक् साधुः एव स मन्तव्यः सम्यक् अव्यवसितः हि सः ॥ ३० ॥

अन्वयः

सुदुराचारः अपि चेत् अनन्यभाक् मां भजते सः साधुः एव (इति) मन्तव्यः । सः हि सम्यक् व्यवसितः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “चेत्” वाक्यांश:
      • क्रियापदम् = भजते [ भज् “भज सेवायाम्” उभ. लट्. प्रपु. एक. ]
      • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
      • कर्तृपदम् = सुदुराचारः [ अ. पुं. प्र. एक. ]
      • कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
      • कर्तृविशेषणम् =अनन्यभाक् [ ज. पुं. प्र. एक. ]
      • सम्योजकपदम् = चेत् [ अव्ययम् ]
    • “(तर्हि)” वाक्यांश:
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम् = मन्तव्यः [ अ. पुं. प्र. एक. ]
        • कर्मपद-वाक्यांश:
          • सम्योजकपदम् = (इति)
          • कर्म-वाक्यम्
            • कर्तृ-विशेषण-सूचक-पदम् = साधुः [ उ. पुं. प्र. एक. ]
            • कर्तृ-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]
            • कर्तृपदम् =सः [ तत् त. पुं. प्र. एक. ]
          • द्वितीयवाक्यम्
            • कर्तृ-विशेषण-सूचक-वाक्यांश:
              • क्रिया-गर्भ-कर्तृपदम्= व्यवसितः [ अ. पुं. प्र. एक. ]
              • क्रियाविशेषणम् = सम्यक् [ अव्ययम् ]
              • सम्योजकपदम् = हि [ अव्ययम् ]
            • कर्तृपदम् = सः [ तत् त. पुं. प्र. एक. ]

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥

पदच्छेदः

क्षिप्रं भवति धर्मात्मा शश्वत् शान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥

अन्वयः

(सुदुराचार: अपि) क्षिप्रं धर्मात्मा भवति । शश्वत् शान्तिं निगच्छति । कौन्तेय ! मे भक्तः न प्रणश्यति इति प्रतिजानीहि |

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भवति [ भू “भू सत्तायाम्” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम्= क्षिप्रम् [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-पदम् = धर्मात्मा [ न. पुं. प्र. एक. ]
    • कर्तृपदम् = (स: ) (सुदुराचार: चेत् अपि – इति पूर्वस्मिन् श्लोके उक्तम् अस्ति)
  • द्वितीयवाक्यम्
    • क्रियापदम् = निगच्छति [ नि + गम् “गम्ऌ गतौ पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम्=  शश्वत् [ अव्ययम् ]
    • कर्मपदम् = शान्तिम् [ इ. स्त्री. द्वि. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = प्रतिजानीहि [ प्रति + ज्ञा “ज्ञा अवबोधने” पर. लट्. प्रपु. एक. ]
    • कर्मपद-वाक्यांश:
      • सम्योजकपदम् = इति [ अव्ययम् ]
      • कर्म-वाक्यम्
        • क्रियापदम् = प्रणश्यति [ प्र + नश् “णश् अदर्शने” पर. लट्. प्रपु. एक. ]
        • क्रियाविशेषणम्=  न [ अव्ययम् ]
        • वाक्यांश:
          • कर्तृपदम् = भक्तः [ अ. पुं. प्र. एक. ]
          • सम्बन्दपदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥

पदच्छेदः

मां हि पार्थ व्यपाश्रित्य ये अपि स्युः पापयोनयः स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति परां गतिम् ॥ ३२ ॥

अन्वयः

पार्थ ! पापयोनयः ये अपि स्त्रियः वैश्याः तथा शूद्राः स्युः ते अपि मां व्यपाश्रित्य परां गतिं यान्ति हि ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ [ अ. पुं. सम्. एक. ]
  • “ये” वाक्यांश:
    • क्रियापदम् = स्युः [ अस् “अस भुवि” पर. विधिलिङ्. प्रपु. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = शूद्राः [ अ. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = वैश्याः [ अ. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = स्त्रियः [ इ. स्त्री. प्र. बहु. ]
    • संयोजक-पदम् = तथा [ अव्ययम् ]
    • कर्तृपदम् = ये [ यत् त. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = पापयोनयः [ इ. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
  • “ते” वाक्यांश:
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् = हि [ अव्ययम् ]
    • कर्मपदम् = गतिम् [ इ. स्त्री. द्वि. एक. ]
    • कर्मविशेषणम् =पराम् [ आ. स्त्री. द्वि. एक. ]
    • कर्तृपदम् = ते [ तत् त. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = व्यपाश्रित्य [ वि + अप + आङ् + श्री “श्रीञ् पाके” + ल्यप् प्रत्यय:, अव्ययम् ]
      • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥

पदच्छेदः

किं पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥ ३३ ॥

अन्वयः

पुण्याः भक्ताः ब्राह्मणाः तथा राजर्षयः (सन्ति) | (तेषां विषये) पुनः किं (वक्तव्यम्) ? (तस्मात्) इमम् अनित्यम् असुखं लोकं प्राप्य मां भजस्व ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(सन्ति)
    • कर्तृपदम् = ब्राह्मणाः [ न. पुं. प्र. बहु. ]
    • कर्तृपदम् = राजर्षयः [ इ. पुं. प्र. बहु. ]
    • कर्तृपदम् = भक्ताः [ अ. पुं. प्र. बहु. ]
    • कर्तृपदम् = पुण्याः [ अ. पुं. प्र. बहु. ]
    • संयोजक-पदम् = तथा [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रियापदम् =(वक्तव्यम्)
    • प्रश्नवाचकपदम् = किम्[ अव्ययम् ]
    • क्रियाविशेषणम् = पुनः [ अव्ययम् ]
  • तृतीयवाक्यम्
    • क्रियापदम् = भजस्व [ भज “भज सेवायाम्” उभ. लोट्. मपु. एक. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्राप्य [ प्र + आप् “आप्ऌ व्याप्तौ” + ल्यप् प्रत्यय:, अव्ययम् ]
      • कर्मपदम् = लोकम् [ अ. पुं. द्वि. एक. ]
      • कर्मविशेषणम् =इमम् [ इदम् म. पुं. द्वि. एक. ]
      • कर्मविशेषणम् =अनित्यम् [ अ. पुं. द्वि. एक. ]
      • कर्मविशेषणम् =असुखम् [ अ. पुं. द्वि. एक. ]

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥

पदच्छेदः

मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु माम् एव एष्यसि युक्ता एवम् अत्मानं मत्परायणः ॥ ३४ ॥

अन्वयः

मन्मनाः मद्याजी मद्भक्तः भव । मां नमस्कुरु । एवम् आत्मानं युक्त्वा मत्परायणः माम् एव एष्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भव [ भू “भू सत्तायाम्” पर. लोट्. प्रपु. एक. ]
    • कर्तृपदम् =मन्मनाः [ अ. पुं. प्र. एक. ]
    • कर्तृपदम् =मद्याजी [ न. पुं. प्र. एक. ]
    • कर्तृपदम् =मद्भक्तः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = नमस्कुरु [ नमस् + कृ “डुकृञ् करणे” उभ. लोट्. मपु. एक. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = एष्यसि [ इ “इण् गतौ” पर. लृट्. मपु. एक. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • कर्म-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् =मत्परायणः [ न. पुं. प्र. बहु. ]
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = युक्त्वा [ युज् “युज समाधौ” + क्त्वा, अव्ययम् ]
      • क्रियाविशेषणम् = एवम् [ अ. पुं. द्वि. एक. ]
      • कर्मपदम् =आत्मानम् [ न. पुं. द्वि. एक. ]

References –

  1. 14th Nov 2015 दिनाङ्के  नारायण नम्बूदरि महोदयस्य कक्षायां पठिता: श्लोका:
  2. वर्गः: राजविद्याराजगुह्ययोगः https://sa.wikipedia.org/s/6mw
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s