Bhagavad Gita – Chapter 9 – Part 2

श्रीमद्भगवद्गीता – नवमोऽध्याय: – राजविद्याराजगुह्ययोगः  – भाग: 2

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।

परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥

पदच्छेदः

अवजानन्ति मां मूढाः मानुषीं तनुम् आश्रितम् परं भावम् अजानन्तः मम भूतमहेश्वरम् ॥ ११ ॥

अन्वयः

मम परं भावम् अजानन्तः मूढाः मानुषीं तनुम् आश्रितं भूतमहेश्वरं माम् अवजानन्ति ।

पदपरिचय:

  • क्रियापदम् = अवजानन्ति [ अव + ज्ञा “ज्ञा अवबोधने” पर. लट्. प्रपु. बहु. ]
  • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
  • कर्मविशेषणम् = भूतमहेश्वरम् [ अ. पुं. द्वि. एक. ]
  • कर्मविशेषण-वाक्यांश:
    • क्रियासूचक-कर्मपदम् = आश्रितम् [ अ. पुं. द्वि. एक. ]
    • कर्मपदम् = तनुम् [ उ. स्त्री. द्वि. एक. ]
    • कर्मविशेषणम् = मानुषीं [ ई. स्त्री. द्वि. एक. ]
  • कर्तृपदम् = मूढाः [ अ. पुं. प्र. बहु. ]
  • कर्तृविशेषण-वाक्यांश:
    • कर्तृपदम् = अजानन्तः [ अ. पुं. प्र. बहु. ]
    • कर्मपदम् = भावम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = परम् [ अ. पुं. द्वि. एक. ]
    • कर्मसंबन्दपदम् = मम [ अस्मद् द. पुं. ष. एक. ]

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥

पदच्छेदः

मोघाशा मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीम् आसुरीं च एव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥

अन्वयः

मोघाशाः मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् एव श्रिताः (मानुषीं तनुम् आश्रितं माम् अवजानन्ति) ।

पदपरिचय:

  • क्रियापदम् = (अवजानन्ति – पूर्वस्मिन् श्लोके उक्तम्)
  • कर्मपदम् = (माम् – पूर्वस्मिन् श्लोके उक्तम्)
  • कर्तृपदम् = (मूढाः – पूर्वस्मिन् श्लोके उक्तम्)
  • कर्तृविशेषणम् = मोघाशाः [ अ. पुं. प्र. बहु. ]
  • कर्तृविशेषणम् = मोघकर्माणः [ न. पुं. प्र. बहु. ]
  • कर्तृविशेषणम् = मोघज्ञानाः [ अ. पुं. प्र. बहु. ]
  • कर्तृविशेषणम् = विचेतसः [ स. पुं. प्र. बहु. ]
  • कर्तृविशेषण-वाक्यांश:
    • क्रियासूचक-कर्तृपदम् = श्रिताः [ अ. पुं. प्र. बहु. ]
    • क्रियाविशेषणम् = एव [ अव्ययम् ]
    • कर्मपदम् = प्रकृतिम् [ इ. स्त्री. द्वि. एक. ]
    • कर्मविशेषणपदम् = मोहिनीम् [ ई. स्त्री. द्वि. एक. ]
    • कर्मविशेषणपदम् = आसुरीम् [ ई. स्त्री. द्वि. एक. ]
    • कर्मविशेषणपदम् = राक्षसीम् [ ई. स्त्री. द्वि. एक. ]
    • कर्मविशेषण-संयोजक-पदम् = च [ अव्ययम् ]

 

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥

पदच्छेदः

महात्मानः तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः भजन्ति अनन्यमनसः ज्ञात्वा भूतादिम् अव्ययम् ॥ १३ ॥

अन्वयः

पार्थ ! दैवीं प्रकृतिम् आश्रिताः अनन्यमनसः महात्मानः तु भूतादिम् अव्ययं मां ज्ञात्वा (मां) भजन्ति ।

पदपरिचय:

  • क्रियापदम् = भजन्ति [भज् “भज सेवायाम्” उभ. लट्. प्रपु. बहु. ]
  • कर्मपदम् = (माम्)
  • तुमुनन्त-वाक्यांश:
    • क्रियासूचक-तुमुनन्तपदम् = ज्ञात्वा [ज्ञा “ज्ञा अवबोधने” + क्त्वा प्रत्यय:, अव्ययम् ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि (पुं). द्वि. एक. ]
    • कर्मविशेषणम् = अव्ययम् [ अ. विशेष्य (पुं). द्वि. एक. ]
    • कर्मविशेषणम् = भूतादिम् [ इ. पुं. द्वि. एक. ]
  • कर्तृपदम् = महात्मानः [ न. पुं. प्र. बहु. ]
  • कर्तृविशेषणम् = अनन्यमनसः [ स. पुं. प्र. बहु. ]
  • कर्तृविशेषण-वाक्यांश:
    • क्रियासूचक-कर्तृपदम् = आश्रिताः [ अ. पुं. प्र. बहु. ]
    • कर्मपदम् = प्रकृतिम् [ इ. स्त्री. द्वि. एक. ]
    • कर्मविशेषणम् = दैवीम् [ ई. स्त्री. द्वि. एक. ]

 

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥

पदच्छेदः

सततं कीर्तयन्तः मां यतन्तः च दृढव्रताः नमस्यन्तः च मां भक्त्या नित्ययुक्ताः उपासते ॥ १४ ॥

अन्वयः

दृढव्रताः सततं कीर्तयन्तः यतन्तः च मां नमस्यन्तः च नित्ययुक्ताः भक्त्या माम् उपासते ।

पदपरिचय:

  • क्रियापदम् = उपासते [ उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
  • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
  • करणवाचकपदम् = भक्त्या [ इ. स्त्री. तृ. एक. ]
  • कर्तृपदम् = नित्ययुक्ताः [ अ. पुं. प्र. बहु. ]
  • कर्तृ-विशेषण-वाक्यांश:
    • क्रियासूचक-कर्तृपदम् = नमस्यन्तः [ त. पुं. प्र. बहु. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
  • कर्तृविशेषणम् = यतन्तः [ त. पुं. प्र. बहु. ]
  • कर्तृ-विशेषण-वाक्यांश:
    • क्रियासूचक-कर्तृपदम् = कीर्तयन्तः [ त. पुं. प्र. बहु. ]
    • क्रियाविशेषणम् = सततम् [ अव्ययम् ]
  • कर्तृविशेषणम् = दृढव्रताः [ अ. पुं. प्र. बहु. ]

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥

पदच्छेदः

ज्ञानयज्ञेन च अपि अन्ये यजन्तः माम् उपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥

अन्वयः

अन्ये च विश्वतोमुखं मां ज्ञानयज्ञेन एकत्वेन पृथक्त्वेन बहुधा यजन्तः अपि उपासते ।

पदपरिचय:

  • क्रियापदम् = उपासते [ उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
  • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
  • कर्मविशेषणम् = विश्वतोमुखम् [ अ. पुं. द्वि. एक. ]
  • कर्तृपदम् = अन्ये [ अव्ययम् ]
  • कर्तृ-विशेषण-वाक्यांश:
    • क्रियासूचक-कर्तृपदम् = यजन्तः [ त. पुं. प्र. बहु. ]
    • क्रियाविशेषणम् = बहुधा [ अव्ययम् ]
    • करणवाचकपदम् = पृथक्त्वेन [ अ. नपुं. तृ. एक. ]
    • करणवाचकपदम् = एकत्वेन [ अ. नपुं. तृ. एक. ]
    • करण-सम्योजक-पदम् = च [ अव्ययम् ]
  • कर्तृ-विशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
  • करणवाचकपदम् = ज्ञानयज्ञेन [ अ. नपुं. तृ. एक. ]

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥

पदच्छेदः

अहं क्रतुः अहं यज्ञः स्वधा अहम् अहम् औषधम् मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहं हुतम् ॥ १६ ॥

अन्वयः

अहं क्रतुः, अहं यज्ञः, अहं स्वधा, अहम् औषधम्, अहं मन्त्रः, अहम् आज्यम्, अहम् अग्निः, अहमेव हुतम् |

पदपरिचय:

  • कर्तृ-विशेषण-सूचक-पदम् = क्रतुः [ उ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = यज्ञः [ अ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = स्वधा [ आ. स्त्री. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = औषधम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = मन्त्रः [ अ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = आज्यम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = अग्निः [ इ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = हुतम् [ अ. पुं. प्र. एक. ]
  • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]

पिताहमस्य जगतो माता धाता पितामहः ।

वेद्यं पवित्रमोङ्कारः ऋक्साम यजुरेव च ॥ १७ ॥

पदच्छेदः

पिता अहम् अस्य जगतः माता धाता पितामहः वेद्यं पवित्रम् ओङ्कारः ऋक्साम यजुरेव च ॥ १७ ॥

अन्वयः

अस्य जगतः पिता माता धाता पितामहः वेद्यं पवित्रम् ओङ्कारः ऋक् साम यजुः च अहम् एव ।

  • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]
  • कर्तृ-विशेषण-वाक्यांश:
    • कर्तृपदम् = पिता [ ऋ. पुं. प्र. एक. ]
    • कर्तृपदम् = माता [ ऋ. पुं. प्र. एक. ]
    • कर्तृपदम् = धाता [ ऋ. पुं. प्र. एक. ]
    • कर्तृपदम् = पितामहः [ अ. पुं. प्र. एक. ]
    • सम्बन्धपदम् = जगतः [ त. नपुं. ष. एक. ]
    • सम्बन्ध-विशेषण-पदम् = अस्य [ इदम् म. नपुं. ष. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = वेद्यम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = पवित्रम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = ओङ्कारः[ अ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = ऋक् [ च. स्त्री. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = साम [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = यजुः [ स. नपुं. प्र. एक. ]
  • सम्योजकपदम् = च [ अव्ययम् ]

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ १८ ॥

पदच्छेदः

गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥ १८ ॥

अन्वयः

(अहमेव) गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानम् अव्ययं बीजम् ।

  • कर्तृपदम् = (अहम् – पूर्वस्मिन् श्लोके उक्तम्)
  • कर्तृ-विशेषण-सूचक-पदम् = (एव – पूर्वस्मिन् श्लोके उक्तम्)
  • कर्तृ-विशेषण-सूचक-पदम् = गतिः [ इ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = भर्ता [ ऋ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = प्रभुः [ उ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = साक्षी [ न. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = निवासः [ अ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = शरणम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = सुहृत् [ त. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = प्रभवः [ अ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = प्रलयः [ अ. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = स्थानम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = निधानम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-वाक्यांश:
    • कर्तृपदम् = बीजम् [ अ. नपुं. प्र. एक. ]
    • कर्तृ-विशेषणम् = अव्ययम् [ अ. त्रि (नपुं). प्र. एक. ]

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

पदच्छेदः

तपामि अहम् अहं वर्षं निगृह्णामि उत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥

अन्वयः

अर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।

  • प्रथमवाक्यम्
    • क्रियापदम् = तपामि [ तप् “तप सन्तापे” पर. लट्. उपु. एक. ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = निगृह्णामि [ नि + ग्रह् “ग्रह उपादाने” पर. लट्. उपु. एक. ]
    • क्रियापदम् = उत्सृजामि [ उत् + सृज् “सृज विसर्गे” पर. लट्. उपु. एक. ]
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्मपदम् = वर्षम् [ अ. पुं. द्वि. एक. ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
  • तृतीयवाक्यम्
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-पदम् = अमृतम् [ अ. नपुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = मृत्युः [ उ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = सत् [ द. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = असत् [ द. पुं. प्र. एक. ]
    • सम्योजकपदम् = च [ अव्ययम् ]

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।

ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥

पदच्छेदः

त्रैविद्या मां सोमपाः पूतपापाः यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ २० ॥

अन्वयः

त्रैविद्याः सोमपाः पूतपापाः स्वर्गतिम् इष्ट्वा यज्ञैः मां प्रार्थयन्ते । ते पुण्यं सुरेन्द्रलोकम् आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रार्थयन्ते [ प्र + अर्थ “अर्थ उपयाच्ञायाम्” आ. लट्. प्रपु. बहु. ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
    • कारणवाचकपदम् = यज्ञैः [ अ. पुं. तृ. बहु. ]
    • कर्तृपदम् = त्रैविद्याः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = सोमपाः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = पूतपापाः [ अ. पुं. प्र. बहु. ]
    • क्त्वान्त-वाक्यांश:
      • क्रियासूचक-क्त्वान्तपदम् = इष्ट्वा [ दृश् “दृशिर् प्रेक्षणे” + क्त्वा प्रत्यय:, अव्ययम् ]
      • कर्मपदम् = स्वर्गतिम् [ इ. पुं. द्वि. एक. ]
    • द्वितीयवाक्यम्
      • क्रियापदम् = अश्नन्ति [ अश् “अश भोजने” पर. लट्. प्रपु. बहु. ]
      • कर्मपदम् = देवभोगान् [ अ. पुं. द्वि. बहु. ]
      • कर्मविशेषणम् = दिव्यान् [ अ. पुं. द्वि. बहु. ]
      • सम्प्रदानपदम् = दिवि [ दिव् व. स्त्री. स. एक. ]
      • कर्तृपदम् = ते (तुभ्यम्) [ द. त्रि. च. एक. ]
      • ल्यबन्त-वाक्यांश:
        • क्रियासूचक-ल्यबन्तपदम् = आसाद्य [ आ+साद् “आङ: षद पद्यर्थे” + ल्यप् प्रत्यय, अव्ययम् ] This root is always used only with the आङ् prefix.
        • कर्मपदम् = सुरेन्द्रलोकम् [ अ. पुं. द्वि. एक. ]
        • कर्मविशेषणम् = पुण्यम् [ अ. विशेष्य (पुं.) द्वि. एक. ]

References –

  1. 13th Nov 2015 दिनाङ्के  नारायण नम्बूदरि महोदयस्य कक्षायां पठिता: श्लोका:
  2. वर्गः: राजविद्याराजगुह्ययोगः https://sa.wikipedia.org/s/6mw
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s