Bhagavad Gita – Chapter 9 – Part 1

श्रीमद्भगवद्गीता – नवमोऽध्याय: – राजविद्याराजगुह्ययोगः  – भाग: 1

श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥

पदच्छेदः

इदं तु ते गुह्यतमं प्रवक्ष्यामि अनसूयवे ज्ञानं विज्ञानसहितं यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ १ ॥

अन्वयः

यत् ज्ञात्वा अशुभात् मोक्ष्यसे (तत्) इदं गुह्यतमं विज्ञानसहितं ज्ञानं तु अनसूयवे ते प्रवक्ष्यामि ।

पदपरिचय:

  • “यत्” वाक्यांश:
    • क्रियापदम् = मोक्ष्यसे [ मुच् “मुच्ऌ मोक्षणे” उभय. लृट्. मपु. एक. ]
    • अपादानपदम् = अशुभात् [ अ. नपुं. प. एक. ]
    • कर्तृपदम् = (त्वम्)
    • क्त्वान्त-वाक्यांश:
      • त्वान्तपदम् = ज्ञात्वा [ ज्ञा “ज्ञा अवबोधने” + क्त्वा प्रत्यय: अव्ययम् ]
      • कर्मपदम् = यत् [ द. नपुं. प्र. एक. ]
    • “(तत्)” वाक्यांश:
      • क्रियापदम् = प्रवक्ष्यामि [ प्र + वच् “वच परिभाषणे” पर. लट्. उपु. एक. ]
      • कर्मपदम् = ज्ञानम् [ अ. नपुं. द्वि. एक. ]
      • कर्तृपदम् = (अहम्)
      • कर्मविशेषणम् = इदम् [ म. नपुं. द्वि. एक. ]
      • कर्मविशेषणम् = गुह्यतमम् [ अ. नपुं. द्वि. एक. ]
      • कर्मविशेषणम् = विज्ञानसहितम् [ अ. नपुं. द्वि. एक. ]
      • सम्प्रदानपदम् = ते (तुभ्यम्) [ द. त्रि. च. एक. ]
      • सम्प्रदानविशेषणम् = अनसूयवे [ अ. पुं. च. एक. ]

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

पदच्छेदः

राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥ २ ॥

अन्वयः

इदं राजविद्या राजगुह्यं पवित्रम् उत्तमं प्रत्यक्षावगमं धर्म्यं कर्तुं सुसुखम् अव्ययम् ।

पदपरिचय:

  • क्रियापदम् = (अस्ति)
  • कर्तृ-विशेषण-सूचक-पदम् = राजविद्या [ आ. स्त्री. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = राजगुह्यम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = पवित्रम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = उत्तमम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = प्रत्यक्षावगमम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-पदम् = धर्म्यम् [ अ. नपुं. प्र. एक. ]
  • कर्तृ-विशेषण-सूचक-वाक्यांश:
    • कर्तृपदम् = सुसुखम् [ अ. नपुं. प्र. एक. ]
    • तुमुनन्तपदम् = कर्तुम् [ कृ “डुकृञ् करणे” + तुमुन् प्रत्यय:, अव्ययम् ]
  • कर्तृ-विशेषण-सूचक-पदम् = अव्ययम् [ अ. नपुं. प्र. एक. ]
  • कर्तृपदम् = इदम् [ द. नपुं. प्र. एक. ] (ज्ञानम् इति पूर्वस्मिन् श्लोके उक्तम् अस्ति)

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥

पदच्छेदः

अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥

अन्वयः

परन्तप ! अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते ।

पदपरिचय:

  • क्रियापदम् = निवर्तन्ते [ नि + वि + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
  • अधिकरणपदम् = मृत्युसंसारवर्त्मनि [ न. नपुं. स. एक. ]
  • कर्तृपदम् = पुरुषाः [ अ. पुं. प्र. बहु. ]
  • कर्तृविशेषण वाक्यांश:
    • कर्तृविशेषणम् = अश्रद्दधानाः [ अ. पुं. प्र. बहु. ]
    • संबन्दपदम् = धर्मस्य [ अ. पुं. ष. एक. ]
    • संबन्दविशेषणम् = अस्य [ इदम् म. पुं. ष. एक. ]
  • ल्यबन्त-वाक्यांश:
    • क्रियासूचक-ल्यबन्तपदम् = अप्राप्य [ अ + प्र + आप् “आप्ऌ व्याप्तौ” + ल्यप् प्रत्यय: ]
    • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥

पदच्छेदः

मया ततम् इदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न च अहं तेषु अवस्थितः ॥ ४ ॥

अन्वयः

अव्यक्तमूर्तिना (चेत् अपि) च मया इदं सर्वं जगत् ततम् । सर्वभूतानि मत्स्थानि । अहं तेषु न अवस्थितः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (क्रियते) [ कर्मणि प्रयोग: ]
    • क्रियासूचक-कर्मपदम् = ततम् [ अ. नपुं. प्र. एक. ]
    • कर्मपदम् = जगत् [ त. नपुं. प्र. एक. ]
    • कर्मविशेषणम् = इदम् [ द. नपुं. प्र. एक. ]
    • कर्मविशेषणम् = सर्वम् [ अ. नपुं. प्र. एक. ]
    • कर्तृपदम् = मया [ अस्मद् द. त्रि. तृ. एक. ]
    • कर्तृविशेषणम् = अव्यक्तमूर्तिना [ इ. पुं. तृ. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मत्स्थानि [ अ. नपुं. प्र. बहु. ]
    • कर्तृपदम् = सर्वभूतानि [ अ. नपुं. प्र. बहु. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = (अस्मि)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = अवस्थितः [ अ. पुं. प्र. एक. ]
      • निषेधपदम् = न [ अव्ययम् ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
    • अधिकरणपदम् = तेषु [ तद् द. नपुं. स. बहु. ]

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥

पदच्छेदः

न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् भूतभृत् न च भूतस्थः मम आत्मा भूतभावनः ॥ ५ ॥

अन्वयः

(वस्तुतः) भूतानि मत्स्थानि न । भूतभृत् (चेत् अपि) च भूतभावनः (चेत् अपि) च मम आत्मा भूतस्थः न । ऐश्वरं मे योगं पश्य ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = मत्स्थानि [ अ. नपुं. प्र. एक. ]
      • निषेधपदम् = न [ अव्ययम् ]
    • कर्तृपदम् = भूतानि [ अ. नपुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = भूतस्थः [ अ. पुं. प्र. एक. ]
      • निषेधपदम् = न [ अव्ययम् ]
    • कर्तृपदम् = आत्मा [ न. पुं. प्र. एक. ]
    • कर्तृसंबन्दपदम् = मम [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृविशेषणम् = भूतभावनः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = भूतभृत् [ त. पुं. प्र. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
    • कर्तृपदम् = (त्वम्)
    • कर्मपदम् = योगम् [ अ. पुं. द्वि. एक. ]
    • कर्मसंबन्दपदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्मविशेषणम् = ऐश्वरम् [ अ. पुं. द्वि. एक. ]

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥

पदच्छेदः

यथा आकाशस्थितः नित्यं वायुः सर्वत्रगः महान् तथा सर्वाणि भूतानि मत्स्थानी इति उपधारय ॥ ६ ॥

अन्वयः

यथा सर्वत्रगः महान् वायुः नित्यम् आकाशस्थितः तथा मत्स्थानि सर्वाणि भूतानि इति उपधारय ।

पदपरिचय:

  • मुख्यवाक्यम्
    • क्रियापदम् = उपधारय [ उप + धृ “धृञ् धारणे” उभय. लोट्. मपु. एक. ]
    • कर्तृपदम् = (त्वम्)
    • कर्मपदम् = “…..” इति [ अव्ययम् ]
      • “यथा” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • क्रियासूचक-कर्तृपदम् = आकाशस्थितः [ अ. पुं. प्र. एक. ]
        • क्रियाविशेषण-सूचक-पदम् = नित्यम् [ अव्ययम् ]
        • कर्तृपदम् = वायुः [ उ. पुं. प्र. एक. ]
        • कर्तृविशेषणम् = महान् [ त. पुं. प्र. एक. ]
        • कर्तृविशेषणम् = सर्वत्रगः [ अ. पुं. प्र. एक. ]
      • “तथा” वाक्यांश:
        • क्रियापदम् = सन्ति [ अस् “अस भुवि” पर. लट्. प्रपु. बहु. ]
        • क्रियासूचक-कर्तृपदम् = मत्स्थानि [ अ. नपुं. प्र. बहु. ]
        • कर्तृपदम् = भूतानि [ अ. नपुं. प्र. बहु. ]
        • कर्तृविशेषणम् = सर्वाणि [ अ. नपुं. प्र. बहु. ]

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥

पदच्छेदः

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनः तानि कल्पादौ विसृजामि अहम् ॥ ७ ॥

अन्वयः

कौन्तेय ! कल्पक्षये सर्वभूतानि मामिकां प्रकृतिं यान्ति । कल्पादौ तानि अहं पुनः विसृजामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = प्रकृतिम् [ इ. स्त्री. द्वि. एक. ]
    • कर्मविशेषणम् = मामिकाम् [ आ. स्त्री. द्वि. एक. ]
    • कर्तृपदम् = सर्वभूतानि [ अ. नपुं. प्र. बहु. ]
    • कालवाचकपदम् = कल्पक्षये [ अ. पुं. स. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = विसृजामि [ वि + सृज् “सृज विसर्गे” पर. लट्. उपु. एक. ]
    • क्रियाविशेषणम् = पुनः [ अव्ययम् ]
    • कर्मपदम् = तानि [ त. नपुं. प्र. बहु. ]
    • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
    • कालवाचकपदम् = कल्पादौ [ इ. पुं. स. एक. ]

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥

पदच्छेदः

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेः वशात् ॥ ८ ॥

अन्वयः

स्वां प्रकृतिम् अवष्टभ्य प्रकृतेः वशात् इमं अवशम् कृत्स्नं भूतग्रामं पुनः पुनः विसृजामि ।

पदपरिचय:

  • क्रियापदम् = विसृजामि [ वि + सृज् “सृज विसर्गे” पर. लट्. उपु. एक. ]
  • क्रियाविशेषणम् = पुनः [ अव्ययम् ] पुनः [ अव्ययम् ]
  • कर्तृपदम् = (अहम्)
  • कर्मपदम् = भूतग्रामम् [ अ. पुं. द्वि. एक. ]
  • कर्मविशेषणम् = कृत्स्नम् [ अ. पुं. द्वि. एक. ]
  • कर्मविशेषणम् = अवशम् [ अ. पुं. द्वि. एक. ]
  • कर्मविशेषणम् = इमम् [ इदम् म. पुं. द्वि. एक. ]
  • कारणवाचकपदम् = वशात् [ अ. पुं. प. एक. ]
  • कारणवाचक-संबन्द-पदम् = प्रकृतेः [ इ. स्त्री. ष. एक. ]
  • ल्यबन्त-वाक्यांश:
    • क्रियासूचक-ल्यबन्तपदम् = अवष्टभ्य [ अव + स्तम्भु “स्तम्भु प्रतिघाते” + ल्यप् प्रत्यय: , अव्ययम्]
    • कर्मपदम् = प्रकृतिम् [ इ. स्त्री. द्वि. एक. ]
    • कर्मविशेषणम् = स्वाम् [ आ. स्त्री. द्वि. एक. ]

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥

पदच्छेदः

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवत् असीनम् असक्तं तेषु कर्मसु ॥ ९ ॥

अन्वयः

धनञ्जय ! तेषु कर्मसु असक्तं च उदासीनवत् आसीनं मां तानि कर्माणि न निबध्नन्ति ।

पदपरिचय:

  • क्रियापदम् = निबध्नन्ति [ नि + बन्ध “बन्ध बन्धने” पर. लट्. प्रपु. बहु. ]
  • क्रियाविशेषणम् = न [ अव्ययम् ]
  • कर्तृपदम् = कर्माणि [ न. नपुं. प्र. बहु. ]
  • कर्तृविशेषणम् = तानि [ त. नपुं. प्र. बहु. ]
  • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक. ]
  • कर्मविशेषण-वाक्यांश:
    • कर्मविशेषणम् = आसीनम् [ अ. पुं. द्वि. एक. ]
    • उपमावाचकपदम् = उदासीनवत् [ अव्ययम् ]
  • कर्मविशेषण-वाक्यांश:
    • कर्मविशेषणम् = असक्तम् [ अ. पुं. द्वि. एक. ]
    • अधिकरणपदम् = कर्मसु [ न. नपुं. स. बहु. ]
    • अधिकरण-विशेषणम् = तेषु [ तद् द. नपुं. स. बहु. ]

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥

पदच्छेदः

मया अध्यक्षेण प्रकृतिः सूयते सचराचरम् हेतुना अनेन कौन्तेय जगत् विपरिवर्तते ॥ १० ॥

अन्वयः

कौन्तेय ! अध्यक्षेण मया सचराचरं प्रकृतिः सूयते । अनेन हेतुना जगत् विपरिवर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = सूयते [ सू “षूङ् प्राणिप्रसवे” आ. लट्. प्रपु. एक. ]
    • कर्मपदम् = सचराचरम् [ अ. नपुं. द्वि. एक. ]
    • कर्तृपदम् = प्रकृतिः [ इ. स्त्री. प्र. एक. ]
    • करणवाचकपदम् = मया [ अस्मद् द. त्रि. तृ. एक. ]
    • करणविशेषणम् = अध्यक्षेण [ अ. पुं. तृ. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = विपरिवर्तते [ वि + परि + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
    • कर्तृपदम् = जगत् [ त. नपुं. प्र. एक. ]
    • करणवाचकपदम् = हेतुना [ उ. पुं. तृ. एक. ]
    • करणविशेषणम् = अनेन [ इदम् म. पुं. तृ. एक. ]

References –

  1. 8th Nov 2015 दिनाङ्के  नारायण नम्बूदरि महोदयस्य कक्षायां पठिता: श्लोका:
    Namboodiri class sir
  2. वर्गः: राजविद्याराजगुह्ययोगः https://sa.wikipedia.org/s/6mw
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s