Sri Sri Deshamaatrukaa Pooja – shloka with anvaya

श्री श्री देशमातृका पूजा

Bharatamata

Sri Bharatamata mandir, K.R. Puram, Bangalore   http://sribharatamatamandir.org/word/?page_id=5

ध्यानम्

वन्देभारत-मातरं हितरतां धर्मार्थदां मोक्षदाम्
आराध्याम् ऋषिसेवितामनुपमां सस्यान्वितां शोभनाम् |

पदच्छेद:

वन्दे भारत+मातरं हितरतां धर्मार्थदां मोक्षदाम् आराध्याम् ऋषि+सेविताम्  अनुपमाम् सस्यान्वितां शोभनाम् |

अन्वय:

हितरतां धर्मार्थदां मोक्षदाम् आराध्याम् ऋषि+सेविताम्  अनुपमाम् सस्यान्वितां शोभनाम् भारतमातरं (अहं) वन्दे |

फुल्लाब्जां शैलरम्यां सुविमल-सलिलां श्यामलां रत्नभूषाम्
त्रैलोक्यप्रीतिगातां हिमगिरिमुकुटां सागरैर्धौतपादाम्
मन्त्रस्तु हीं देशमातृकायै नम: ||

फुल्लाब्जां शैलरम्यां सुविमल+सलिलां श्यामलां रत्न+भूषाम् त्रैलोक्य+प्रीति+गातां हिम+गिरि+मुकुटां सागरै: धौतपादाम्
मन्त्र: तु हीं देशमातृकायै नम: |

फुल्लाब्जां शैलरम्यां सुविमलसलिलां श्यामलां रत्नभूषाम् त्रैलोक्यप्रीतिगातां हिमगिरिमुकुटां सागरै: धौतपादाम् (अहं वन्दे) |
मन्त्र: तु “हीं देशमातृकायै नम:” इति |

रूपदर्शनम्

पश्यामि मातस्तव दिव्यदेहे सर्वानपूर्वान् परमान् पदार्थान् |
पश्यामि मातस्तव चारुरूपे दिव्याञ्चमूर्तिं मधुरां मनोज्ञाम् || १ ||

पश्यामि मात: तव दिव्य+देहे सर्वान् अपूर्वान् परमान् पदार्थान् |
पश्यामि मात: तव चारु+रूपे दिव्यां च मूर्तिं मधुरां मनोज्ञाम् |

हे मात: | तव दिव्यदेहे सर्वान् अपूर्वान् परमान् पदार्थान् पश्यामि | हे मात: |  तव चारुरूपे दिव्यां मधुरां मनोज्ञां च मूर्तिं पश्यामि |

पश्यामि सर्वान् विवुधांश्च पूज्यान् देवीस्वरूपा ललनाश्च सर्वा: |
पश्यामि सर्वाश्च मुनीन् प्रणम्यन् धीरांश्चवीरान् विगतानशोच्यान् || २ ||

पश्यामि सर्वान् विवुधान् च पूज्यान् देवी+स्वरूपा: ललना: च सर्वा: |
पश्यामि सर्वा: च मुनीन् प्रणम्यान् धीरान् च वीरान् विगतान् अशोच्यान् |

सर्वान् विवुधान् पूज्यान् च पश्यामि | सर्वा: देवीस्वरूपा:, सर्वा: ललना: च  पश्यामि | मुनीन्, प्रणम्यान्, धीरान्, वीरान्, विगतान् अशोच्यान्, च पश्यामि |

पश्यामि मातस्तव पुण्य-भूमौ संयुक्तदेहानिह पूर्वलोकान् |
ग्राह्यां विभूतिं फलदाममूल्यां रत्नानि रौप्याणि सुवर्णराशिम् || ३ ||

पश्यामि मात: तव पुण्य+भूमौ संयुक्त+देहान् इह पूर्वलोकान् |
ग्राह्यां विभूतिं फलदाम् अमूल्यां रत्नानि रौप्याणि सुवर्णराशिम् |

हे मात: | इह, तव पुण्यभूमौ, संयुक्तदेहान्, पूर्वलोकान्, ग्राह्यां विभूतिं, फलदां अमूल्यां रत्नानि, रौप्याणि सुवर्णराशिम्, च पश्यामि |

पश्यामि मातस्तव पुण्यतोये कल्हार-पङ्केरुह-पुण्य-राशिम् |

शुक्तिस्थमुक्ता बहुमीनसंधान् हे भारताम्ब ग्रथितं समस्तम् || ४ ||

पश्यामि मात: तव पुण्यतोये कल्हार+पङ्केरुह+पुण्य+राशिम् |

शुक्तिस्थमुक्ता बहुमीनसंधान् हे भारताम्ब ग्रथितं समस्तम् |

हे मात: | तव पुण्यतोये कल्हार-पङ्केरुह-पुण्य-राशिम् पश्यामि | हे भारताम्ब |  शुक्तिस्थमुक्ता:, बहुमीनसंधान्, समस्तम् ग्रथितं च पश्यामि |

पश्यामि पूज्ये तव सृष्टिकार्ये ईशस्य हस्तं प्रवलं प्रशस्तम् |
पश्यामि मान्ये तव मूर्तिमध्ये तस्यैव दिव्यं प्रतिमूर्तिभावम् || ५ ||

पश्यामि पूज्ये तव सृष्टिकार्ये ईशस्य हस्तं प्रवलं प्रशस्तम् |
पश्यामि मान्ये तव मूर्तिमध्ये तस्य एव दिव्यं प्रतिमूर्तिभावम् |

(हे) पूज्ये | तव सृष्टिकार्ये, ईशस्य प्रवलं प्रशस्तं हस्तं पश्यामि |  तव मान्ये मूर्तिमध्ये तस्य एव दिव्यं प्रतिमूर्तिभावं पश्यामि |

पश्याम्यरण्येऽपि गिरौ प्रदेशे सङ्गीतलिप्तान् विविधान् विहङ्गान् |
शृङ्गान् लतालिंगित-चारुवृक्षान् पश्यामि दृष्ट्वा च नमामि हि त्वाम् || ६ ||

पश्यामि अरण्ये अपि गिरौ प्रदेशे सङ्गीत+लिप्तान् विविधान् विहङ्गान् |
शृङ्गान् लता+आलिंगित+चारु+वृक्षान् पश्यामि दृष्ट्वा च नमामि हि त्वाम्|

अरण्ये, अपि गिरौ प्रदेशे, सङ्गीत+लिप्तान्, विविधान्, विहङ्गान् पश्यामि | शृङ्गान् लता+आलिंगित+चारु+वृक्षान् पश्यामि | दृष्ट्वा च त्वाम् नमामि हि |

पश्यामि साक्षात् तव चारुदेहे पुण्यानि सस्यानि फलानि मात: |
संक्षिप्तसारां पृथिवीं समग्रां दृष्ट्वा विमुग्धोऽस्मि नमामि हि त्वाम् || ७ ||

पश्यामि साक्षात् तव चारुदेहे पुण्यानि सस्यानि फलानि मात: |
संक्षिप्तसारां पृथिवीं समग्रां दृष्ट्वा विमुग्ध: अस्मि नमामि हि त्वाम् |

मात: | तव चारुदेहे पुण्यानि सस्यानि, फलानि, साक्षात् पश्यामि | संक्षिप्तसारां समग्रां पृथिवीं दृष्ट्वा, विमुग्ध: अस्मि | त्वाम् नमामि हि |

पश्यामि किन्तूद्गतवारिनेत्रे सुवर्णगात्रं तव धूलि-लिप्तम् |
आस्ये न हास्यं तव दवि दृष्टं पश्याम्यहो तवाञ्च विषादयुक्ताम् || ८ ||

पश्यामि किन्तूद्गतवारिनेत्रे सुवर्णगात्रं तव धूलि+लिप्तम् |
आस्ये न हास्यं तव दवि दृष्टं पश्यामि अहो तवां च  विषादयुक्ताम् |

किन्तूद्गतवारिनेत्रे तव धूलिलिप्तम् सुवर्णगात्रं पश्यामि | आस्ये न हास्यं तव अहो तवां विषादयुक्ताम् च दवि दृष्टं पश्यामि |

हा किं करोमि क्व च यामि मात: द्रष्टुं न शक्नोमि दशां विशोच्याम् |
उत्तिष्ठ मात स्वगुणैर्महिम्ना पुत्रान् प्रवुद्धान् कुरु निजशक्त्या || ९ ||

हा किं करोमि क्व च यामि मात: द्रष्टुं न शक्नोमि दशां विशोच्याम् |
उत्तिष्ठ मात: स्वगुणै: महिम्ना पुत्रान् प्रवुद्धान् कुरु निजशक्त्या |

मात: | हा किं करोमि ? क्व च यामि ? दशां विशोच्याम् द्रष्टुं न शक्नोमि | मात: | उत्तिष्ठ | स्वगुणै: निजशक्त्या महिम्ना पुत्रान् प्रवुद्धान् कुरु |

प्रणामम्

यद्वक्षसि वयं जाता यदङ्के नित्यसंस्थिता: |
पुनर्यत्र लयं यानास्तं देशं प्रणमाम्यहम् ||

यत् वक्षसि वयं जाता यदङ्के नित्यसंस्थिता: |
पुन: यत्र लयं याना: तं देशं प्रणमामि अहम् |

यत् वक्षसि वयं जाता:, यदङ्के नित्यसंस्थिता:,  पुन: यत्र लयं याना:, तं देशं अहं प्रणमामि |

यदन्नै: पोषितो देहो यज्जलैर्जीवनं मम |
यद्वायौ श्वसिमो नित्यं तं देशं प्रणमाम्यहम् ||

यत् अन्नै: पोषित: देह: यत् जलै: जीवनं मम |
यत् वायौ श्वसिम: नित्यं तं देशं प्रणमामि अहम् ||

यत् अन्नै: पोषित: देह:, यत् जलै: मम जीवनं, यत् वायौ श्वसिम: नित्यं, तं देशं अहं प्रणमामि |

पिता पितामहो देवस्तथा मत्पूर्ववंशजा: |
यत्र जाता लयं यानास्तं देशं प्रणमाम्यहम् ||

पिता पितामह: देव: तथा मत्पूर्ववंशजा: |
यत्र जाता लयं याना: तं देशं प्रणमामि अहम् ||

पिता, पितामह:, देव:, तथा मत्पूर्ववंशजा:, यत्र जाता:, अहम् लयं याना: तं देशं प्रणमामि |

Chandas or the meter of this Sanskrit Poem:

Each verse has 4 padams. Each padam has 11 syllables. In metrical scheme, Guru (long sound like आ) is represented by “-“ and Lagu (short sound like अ) is represented by “u”.  The meter used to compose the verses is upajaati vruttam which is a combination of upendravajraavruttam (u – u  – – u  u – u  –   – ) and indravajraavruttam (– – u – – u u – u – –).

The full verse could be shown as:

– – u – – u u – u – –   – – u – – u u – u – –  |

– – u – – u u – u – –   u – u – – u u – u – –  ||

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s