Bhagavad Gita – Chapter 8 – Part 3

श्रीमद्भगवद्गीता – अष्ठोऽध्याय: – अक्षरब्रह्मयोग: – Part 3
References –

  1. Gita Praveshah – dviteeyabhaaga  Part- 2 by Samskrita Bharati
  2. https://sa.wikipedia.org/s/9oc  वर्गः:अक्षरब्रह्मयोगः
  3. 1st Nov 2015, नारायण नम्बूदरि महोदयस्य कक्षायां पठिता: श्लोका:

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥      

पदच्छेदः

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्ति अहरागमे रात्र्यागमे प्रलीयन्ते तत्र एव अव्यक्तसंज्ञके ॥ १८ ॥

अन्वयः

अहरागमे अव्यक्तात् सर्वाः व्यक्तयः प्रभवन्ति । रात्र्यागमे अव्यक्तसंज्ञके तत्र एव प्रलीयन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रभवन्ति [ प्र + भू “भू सत्तायाम्”, पर. लट्. प्रपु. बहु.]
    • कर्तृपदम् = व्यक्तयः [ इ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = सर्वाः [ अ. पुं. प्र. बहु. ]
    • कालवाचकपदम् = अह:+आगमे [ अ. नपुं. स. एक. ]
    • अपादानपदम् = अव्यक्तात् [ अ. पुं. प. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = प्रलीयन्ते [ प्र + ली “लीङ् श्लेषणे”, आ. लट्. प्रपु. बहु. ]
    • कालवाचकपदम् = रात्रि+आगमे [ अ. नपुं. स. एक. ]
    • अधिकरणपदम् = अव्यक्त+संज्ञके (विषयवाचक) [अ. पुं. स. एक.], तत्र [अव्ययम्] एव [अव्ययम्]

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

पदच्छेदः

भूतग्रामः स एव अयं भूत्वा भूत्वा प्रलीयते रात्र्यागमे अवशः पार्थ प्रभवति अहरागमे |

अन्वयः

पार्थ ! सः एव अयं भूतग्रामः अवशः भूत्वा भूत्वा रात्र्यागमे प्रलीयते । अहरागमे प्रभवति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रलीयते [ प्र + ली “लीङ् श्लेषणे”, आ. लट्. प्रपु. एक. ]
    • कर्तृपदम् = सः [तद् द. पुं. प्र. एक. ] एव [ अव्ययम् ]
    • कर्तृविशेषणम् = अयम् [इदम् म. पुं. प्र. एक.] भूतग्रामः [ अ. पुं. प्र. एक. ]
    • किं कृत्वा? अवशः [ अ. पुं. प्र. एक. ] भूत्वा [भू “भू सत्तायाम्” + क्त्वा प्रत्यय:, अव्ययम् ]
    • कालवाचकपदम् = रात्रि+आगमे [ अ. नपुं. स. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = प्रभवति [ प्र + भू “भू सत्तायाम्”, पर. लट्. प्रपु. एक. ]
    • कालवाचकपदम् = अह:+आगमे [ अ. नपुं. स. एक. ]

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

पदच्छेदः

परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति |

अन्वयः

तस्मात् अव्यक्तात् परः यः अन्यः अव्यक्तः भावः (सः) तु सनातनः । सः सर्वेषु भूतेषु नश्यत्सु (सत्सु) न विनश्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “य:” वाक्यांश:
      • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
      • प्रथमकर्तृविशेषणम् = तस्मात् [ तद् द. पुं. प. एक. ] अव्यक्तात् [ अ. पुं. प. एक. ] परः [ अ. पुं. प्र. एक. ]
      • द्वितीयकर्तृविशेषणम् = अन्यः [ अ. पुं. प्र. एक. ]
      • तृतीयकर्तृविशेषणम् = अव्यक्तः [ अ. पुं. प्र. एक. ]
      • चतुर्थकर्तृविशेषणम् = भावः [ अ. पुं. प्र. एक. ]
    • “स:” वाक्यांश:
      • कर्तृपदम् = (स:)
      • कर्तृविशेषणम् = सनातनः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = न [ अव्ययम् ] विनश्यति [ वि + नश् “णश अदर्शने”, दिवादिगण:, पर. लट्. प्र. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]
    • कालवाचकपदम् = सर्वेषु [ अ. नपुं. स. बहु. ] भूतेषु [ अ. नपुं. स. बहु. ] नश्यत्सु [ त. नपुं. स. बहु. ]
  •  विशेषण-विषेश्यं
    • तस्मात् अव्यक्तात् (स: अव्यक्त:)
    • सर्वेषु भूतेषु (सर्वाणी भूतानि)
  •  अन्यविशय:
    • सर्वेषु भूतेषु नश्यत्सु (सत्सु) – सति-सप्तमी

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

पदच्छेदः

अव्यक्तः अक्षर: इति उक्तः तम् आहुः परमां गतिम् यं प्राप्य न निवर्तन्ते तत् धाम परमं मम |

अन्वयः

अव्यक्तः अक्षरः इति उक्तः | तं परमां गतिम् आहुः । यं प्राप्य न निवर्तन्ते तत् मम परमं धाम ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृपदम् = उक्तः [ अ. पुं. प्र. एक. ]
    • कर्मवाचकवाक्यांश: = अव्यक्तः [ अ. पुं. प्र. एक. ] अक्षरः [ अ. पुं. प्र. एक. ] इति [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = आहुः [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
      प्रथम पुरुष रूपाणि – ब्रवीति / आह, ब्रूत: / आहतु:, ब्रुवन्ति / आहु: |
    • कर्मपदम् = तम् [ तद् द. पुं. द्वि. एक. ] (अक्षरम्)
    • कर्मविशेषणम् = परमाम् [ आ. स्त्री. द्वि. एक. ] गतिम् [ आ. स्त्री. द्वि. एक. ]
  • तृतीयवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = न [ अव्ययम् ] निवर्तन्ते [ नि + वृत् “वृतु वर्तने” आ. लट्. प्रपु. बहु. ]
      • किं कृत्वा? यम् [यद् द. पुं. द्वि. एक. ] प्राप्य [ प्र + आप् “आप्ऌ व्याप्तै” + ल्यप् प्रत्यय:, अव्ययम् ]
    • “तत्” वाक्यांश:
      • कर्तृपदम् = तत् [ तद् द. नपुं. प्र. एक. ]
      • कर्तृविशेषणम् = मम [अष्मद् द. त्रि. ष. एक. ] परमम् [ अ. नपुं. प्र. एक. ] धाम [  न. नपुं. प्र. एक. ]
    • विशेषण-विषेश्यम्
      • परमां गतिम्
      • तत् धाम
      • परमं धाम

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥

पदच्छेदः

पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया यस्य अन्तस्थानि भूतानि येन सर्वम् इदं ततम्  |

अन्वयः

पार्थ ! भूतानि यस्य अन्तःस्थानि, येन इदं सर्वं ततम्, सः तु परः पुरुषः अनन्यया भक्त्या लभ्यः ।

पदपरिचय:

  • “यस्य” वाक्यांश:
    • कर्तृपदम् = भूतानि [ अ. नपुं. प्र. बहु. ]
    • कर्तृविशेषणम् = यस्य [यद् द. पुं. ष. एक. ] अन्तःस्थानि [ अ. नपुं. प्र. बहु. ]
  • “येन” वाक्यांश:
    • कर्तृपदम् = ततम् [ अ. नपुं. प्र. एक. ]
    • कर्तृविशेषणम् = इदम् [ द. नपुं. प्र. एक. ] सर्वम् [ अ. नपुं. प्र. एक. ]
    • करणवाचकपदम् = येन [ यद् द. नपुं. तृ. एक. ]
  • “सः” वाक्यांश:
    • कर्तृपदम् = सः [तद् द. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = परः [ अ. पुं. प्र. एक. ] पुरुषः [ अ. पुं. प्र. एक. ], लभ्यः [ अ. पुं. प्र. एक. ]
    • करणवाचकपदम् = अनन्यया [ अ. स्त्री. तृ. एक. ] भक्त्या [ इ. स्त्री. तृ. एक. ]
  • विशेषण-विशष्यम्
    • इदं सर्वम्
    • परः पुरुषः
    • अनन्यया भक्त्या

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

पदच्छेदः

यत्र काले तु अनावृत्तिम् आवृत्तिं च एव योगिनः प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ |

अन्वयः

भरतर्षभ ! योगिनः यत्र काले तु प्रयाताः आवृत्तिम् अनावृत्तिं च एव यान्ति तं कालं वक्ष्यामि ।

पदपरिचय:

  • “यत्र” वाक्यांश:
    • क्रियापदम् = यान्ति [“या प्रापणे” पर. लट्. प्रपु. बहु.]
    • कर्तृपदम् = प्रयाताः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषण-कालवाचकपदम् = यत्र (अत्र यस्मिन् इत्यर्थ:) [ अव्ययम् ] काले [ अ. नपुं. स. एक. ]
    • कर्मपदम् = आवृत्तिम् [ इ. स्त्री. द्वि. एक. ] अनावृत्तिम् [ इ. स्त्री. द्वि. एक. ] च [अव्ययम्]
  • “तम्” वाक्यांश:
    • क्रियापदम् = वक्ष्यामि [ वच “वच परिभाषणे” पर. लट्. उपु. एक. ]
    • कर्तृपदम् = (अहम्)
    • कर्मपदम् = कालम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = तम् [ तद् द. पुं. द्वि. एक. ]
  • विशेषण-विषेश्यम्
    • तं कालम्

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥

पदच्छेदः

अग्निः र्ज्योतिः अहः शुक्लः षण्मासाः उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदः जनाः |

अन्वयः

अग्निः (च), ज्योतिः (च), अहः (च), शुक्लः (च), उत्तरायणं (इति) षण्मासाः (च), (सन्ति) | तत्र प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदानि = अग्निः [ इ. पुं. प्र. एक. ] ज्योतिः [ इ. पुं. प्र. एक. ], अहः [ न. नपुं. प्र. एक. ], शुक्लः [ अ. पुं. प्र. एक. ], उत्तरायणं [ अ. नपुं. प्र. एक. ] षण्मासाः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्त्यम्
    • क्रियापदम् = गच्छन्ति [ गम् “गम्ऌ गतौ” पर. लट्. प्रपु. बहु. ]
    • कर्तृपदम् = जनाः [ अ. पुं. प्र. बहु. ]
    • प्रथमकर्तृविशेषणम् = ब्रह्मविदः [ द. पुं. प्र. बहु. ]
    • द्वितीयकर्तृविशेषणम् = प्रयाताः [ अ. पुं. प्र. बहु. ]
    • द्वितीयकर्तृविशेषणस्य (कालवाचकम्) = तत्र (अत्र तस्मिन् इत्यर्थ:) [ अव्ययम् ]
    • कर्मपदम् (स्थानवाचकपदम्) = ब्रह्म [ न. नपुं. द्वि. एक. ]

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥

पदच्छेदः

धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिणायनम् तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते |

अन्वयः

धूमः (च), रात्रिः (च), कृष्णः (च), तथा दक्षिणायनम् (इति) षण्मासाः (च), (सन्ति) | तत्र योगी चान्द्रमसं (इति) ज्योतिः प्राप्य निवर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • क्रियाविशेषणम् = तथा [ अव्ययम् ]
    • कर्तृपदानि = धूमः [ इ. पुं. प्र. एक. ] रात्रिः [ इ. पुं. प्र. एक. ], कृष्णः [ अ. पुं. प्र. एक. ], दक्षिणायनं [ अ. नपुं. प्र. एक. ] षण्मासाः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्त्यम्
    • क्रियापदम् = निवर्तते [ नि + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
    • कर्तृपदम् = योगी [ न. पुं. प्र. एक. ]
    • (कालवाचकम्) = तत्र (अत्र तस्मिन् समये इत्यर्थ:) [ अव्ययम् ]
    • “प्राप्य” वाक्यांश:
    • किं कृत्वा? प्राप्य [प्र + आप् “आप्ऌ व्याप्तै” + ल्यप्, अव्ययम् ]
    • कर्मवाचक वाक्यांश: = चान्द्रमसम् [ अ. नपुं. प्र. एक. ] ज्योतिः [ इ. पुं. प्र. एक. ]

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।

एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥

पदच्छेदः

शुक्लकृष्णे गती हि एते जगतः शाश्वते मते एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः |

अन्वयः

एते हि शुक्लकृष्णे गती जगतः शाश्वते मते । एकया अनावृत्तिं याति | अन्यया पुनः आवर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (स्त:)
    • कर्तृपदम् = मते [ अ. नपुं. प्र. द्वि.]
    • कर्तृविशेषणम् = एते [ एतद् द. नपुं. प्र. द्वि. ]
    • कर्तृविशेषणम् = शुक्ल+कृष्णे [ अ. स्त्री. प्र. द्वि. ] गती [ इ. स्त्री. प्र. द्वि. ]
    • कर्तृविशेषणम् = जगतः [ त. नपुं. ष. एक. ] शाश्वते [ अ. नपुं. प्र. द्वि. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = याति [ या “या प्रापणे” पर. लट्. प्रपु. एक.]
    • करणवाचकपदम् = एकया [ अ. स्त्री. तृ. एक. ]
    • कर्मपदम् = अनावृत्तिम् [ इ. स्त्री. द्वि. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = आवर्तते [ आ + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = पुनः [ अव्ययम् ]
    • करणवाचकपदम् = अन्यया [ अ. स्त्री. तृ. एक. ]

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

पदच्छेदः

न एते सृती पार्थ जानन् योगी मुह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तः भव अर्जुन |

अन्वयः

पार्थ ! एते सृती जानन् कश्चन योगी न मुह्यति । अर्जुन ! तस्मात् सर्वेषु कालेषु योगयुक्तः भव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = न [ अव्ययम् ] मुह्यति [ मुह् “मुह वैचित्त्ये” पर. लट्. प्रपु. एक. ]
    • कर्तृपदम् = योगी [ न. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = कश्चन [ अ. पुं. प्र. एक. ]
    • “जानन्” वाक्यांश:
      • किं कुर्वन् ? जानन् [ ज्ञा “ज्ञा अवबोधने” + शतृ प्रत्यय:, त. पुं. प्र. एक.]
      • कर्मपदम् = एते [एतद् द. स्त्री. द्वि. द्वि. ] सृती [ इ. स्त्री. द्वि. द्वि. ]
    • द्वितीयवाक्यम्
      • क्रियापदम् = भव [ भू “भू सत्तायाम्”, पर. लोट्. मपु. एक. ]
      • कर्तृपदम् = (त्वम्)
      • कर्तृविशेषणम् = योगयुक्तः [ अ. पुं. प्र. एक. ]
      • कालवाचकपदम् = सर्वेषु [ अ. पुं. स. बहु. ] कालेषु [ अ. पुं. स. बहु. ]
      • कारणवाचकपदम् = तस्मात् [ अव्ययम् ]
    • विशेषण-विशेष्यम्
      • सर्वेषु कालेषु

वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।

अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥

पदच्छेदः

वेदेषु यज्ञेषु तपस्सु च एव दानेषु यत् पुण्यफलं प्रदिष्टम् अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति च आद्यम् |

अन्वयः

एतत् सर्वं विदित्वा वेदेषु (च) यज्ञेषु (च) तपस्सु (च) दानेषु च एव यत् पुण्यफलं प्रदिष्टं (अस्ति), योगी तत् अत्येति | परम् आद्यं स्थानम् उपैति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृपदम् = पुण्यफलम् [ अ. नपुं. प्र. एक. ]
      • कर्तृविशेषणम् = यत् [ यद्. द. नपुं. प्र. एक. ] प्रदिष्टम् [ अ. नपुं. प्र. एक. ]
      • अधिकरणम् = वेदेषु [ अ. पुं. स. बहु. ] यज्ञेषु [ अ. पुं. स. बहु. ] तपस्सु [ स. पुं. स. बहु. ] दानेषु [ अ. पुं. स. बहु. ]
      • “विदित्वा” वाक्यांश:
        • किं कृत्वा ? विदित्वा [ विद् “विद सत्तायाम्” + क्त्वा, अव्ययम् ]
        • कर्मपदम् = एतत् [एतद् द. नपुं. द्वि. एक. ] सर्वं [ अ. नपुं. द्वि. एक. ]
      • “तत्” वाक्यांश:
        • क्रियापदम् = अत्येति [ अति + इ “इण् गतौ” पर. लट्. प्रपु. एक. (प्रपु. एक. रूपम् – एति) ]
        • कर्तृपदम् = योगी [ न. पुं. प्र. एक. ]
        • कर्मपदम् = तत् [ तद्. द. नपुं. द्वि. एक. ]
      • द्वितीयवाक्यम्
        • क्रियापदम् = उपैति [उप + इ “इण् गतौ”, पर. लट्. प्रपु. एक.]
        • कर्मपदम् = स्थानम् [ अ. नपुं. द्वि. एक. ]
        • कर्मविशेषणम् = परम् [ अ. नपुं. द्वि. एक. ] आद्यम् [ अ. नपुं. द्वि. एक. ]
      • विशेषण-विषेश्यम्
        • परं स्थानम्
        • आद्यं स्थानम्
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s