Grammatical aspects in Bhaja Govindam verse 12 – Dinayaaminyau Saayam Pratah

12. दिनयामिन्यौ सायं प्रातः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः

श्लोक:

दिनयामिन्यौ सायं प्रातः

शिशिरवसन्तौ पुनरायातः ।

कालः क्रीडति गच्छत्यायुः

तदपि न मुञ्चत्याशावायुः ।।१२।।

पदच्छेद:

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुन: आयातः  कालः क्रीडति गच्छति आयुः तत् अपि न मुञ्चति आशावायुः |

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (आयात:)
    • कर्तृपदम् = दिनयामिन्यौ [अ. पुं. प्र. द्वि.]
  • द्वितीयवाक्यम्
    • क्रियापदम् = (आयात:)
    • कर्तृपदम् = सायम् [म. नपुं. प्र. एक.] प्रातः [अ. पुं. प्र. एक.]
  • तृतीयवाक्यम्
    • क्रियापदम् = आयात: [ आ (आङ्) + या “या प्रापणे” पर. लट्. प्रपु. द्वि.]
    • कर्तृपदम् = शिशिर+वसन्तौ [अ. पुं. प्र. द्वि.]
  • चतुर्थवाक्यम्
    • क्रियापदम् = क्रीडति[ क्रीड “क्रीडृ विहारे” पर. लट्. प्रपु. एक.]
    • कर्तृपदम् = कालः [उ. पुं. प्र. एक.]
  • पञ्चमवाक्यम्
    • क्रियापदम् = गच्छति [ गम् “गम्ऌ गतौ” पर. लट्. प्रपु. एक.]
    • कर्तृपदम् = आयुः [उ. पुं. प्र. एक.]
  • षष्ठवाक्यम्
    • क्रियापदम् = न [अव्ययम्] मुञ्चति [मुच् “मुच्ऌ मोक्षणे” पर. लट्. प्रपु. एक.]
    • कर्तृपदम् = आशा+वायुः [उ. पुं. प्र. एक.]
    • कालवाचकम् (to be verified) = तत् [ द. नपुं. प्र. एक. ] अपि [अव्ययम्]

अन्वय:

दिनयामिन्यौ (आयातः) | सायं प्रातः (आयातः) |  शिशिरवसन्तौ पुन: आयातः  |  कालः क्रीडति | आयुः गच्छति | तत् अपि आशावायुः न मुञ्चति |

सार:

अह: निशा च पुन: पुन: चक्रनेमिवत् आगच्छत: गच्छत: च | एवं सायं प्रात: शिशिरवसन्तौ च यातायाते कुरुत: | काल: लीलां करोति, तेन सह आयु: अपि गच्छति | यद्यपि तृष्णावायु: नरं न त्यजति |

व्याकरणम्

  • संधि:
    • पुनरायातः = पुन: आयातः – विसर्गसन्धि: रेफादेश: |
    • गच्छत्यायुः = गच्छति आयुः – यण् सन्धि: |
    • तदपि = तत् अपि – जश्त्वसन्धि: |
    • मुञ्चत्याशावायुः = मुञ्चति आशावायुः – यण् सन्धि: |
  • विग्रह:
    • शिशिरवसन्तौ = शिशिर: च वसन्त: च शिशिरवसन्तौ – द्वन्द्वसमास |
    • आशावायु: = आशा एव वायु: – अवधारणा-पूर्वपद-कर्मधारय: |

Dinayāmin’yau sāyaṁ prātaḥ
śiśiravasantau punarāyātaḥ.
Kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñcatyāśāvāyuḥ ||12||

Night follows the day, the day closes in the evening and dawns afresh on the next morning. The cheerless winter is succeeded by the pleasant spring. Thus Time, the wizard, is playing his Death dance and conjures thee. Yet thou do not want to part with life that is transitory.

Source for the purport in Sanskrit  – भज गोविन्दम् अथवा मोहमुद्गर:, Sanskrit Commentary by Dr. S. Geethamani Amma and Dr. S. Sobhana (Teachers, Sree Sankaracharya University of Sanskrit, Kalady, Kerala) published by Parimal publications Delhi.

English Translation by my grandfather, Sri S.R. Venugopalan. Source: Tattva Darsana (http://sribharatamatamandir.org/word/wp-content/uploads/2015/04/TATTVA-DARSANA-32-1-January-June-2015.pdf)

<page status – work in progress – come back later for updates >

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s