Bhagavad Gita – Chapter 8 – Part 2

श्रीमद्भगवद्गीता – अष्ठोऽध्याय: – अक्षरब्रह्मयोग: – Part 2
(31st Oct 2015, नारायण नम्बूदरि महोदयस्य कक्षायां पठिता: श्लोका:)

References –

  1. Gita Praveshah – dviteeyabhaaga  Part- 2 by Samskrita Bharati
  2. https://sa.wikipedia.org/s/9oc वर्गः:अक्षरब्रह्मयोगः

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥

पदच्छेदः

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्थ अनुचिन्तयन् ॥ ८ ॥

अन्वय:

पार्थ ! अभ्यासयोगयुक्तेन नान्यगामिना चेतसा अनुचिन्तयन् दिव्यं परमं पुरुषं याति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = याति [“या प्रापणे” पर. लट्. प्रपु. एक.]
    • कर्मपदम् = पुरुषम् [अ. पुं. द्वि. एक.]
    • कर्मविशेषणम् = दिव्यम् [अ. पुं. द्वि. एक.], परमम् [अ. पुं. द्वि. एक.]
    • किं कुर्वन् ? = अनुचिन्तयन् [अनु+चिन्तय+शतु प्रत्यय:] “चिति स्मृत्याम्”, उभयपदी – अत्र परस्मैपदी, चुरादि: (अत: निच् प्रत्यय:),
  • “अनुचिन्तयन्” वाक्यांष:
    • प्रथमं करणम् = न+अन्य+गामिना [न. नपुं. तृ. एक.] चेतसा [स. नपुं. तृ. एक.]
    • द्वितीयं करणम् = अभ्यासयोगयुक्तेन [अ. नपुं. तृ. एक.]

विशेषण-विशेष्यम्

  • दिव्यं पुरुषम्
  • परमं पुरुषम्
  • नान्यगामिना चेतसा

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।

सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥

पदच्छेदः

कविं पुराणम् अनुशासितारम् अणो: अणीयांसम् अनुस्मरेत् यः सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥ ९ ॥

अन्वयः

यः कविं पुराणम् अनुशासितारम् अणोः अणीयांसं सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् अनुस्मरेत् ।

पदपरिचय:

  • य: वाक्यांश: (पूर्वस्मिन् श्लोके स: वाक्यांश: अस्ति)
    • क्रियापदम् = अनुस्मरेत् [अनु + स्मृ, “स्मृ चिन्तायाम्”, पर. विधिलिङ्. प्रपु. एक.]
    • कर्तृपदम् = यः [यद् द. पुं. प्र. एक.]
    • कर्मपदम् = (परमं पुरुषम् – पूर्वस्मिन् श्लोके अस्ति)
    • कर्मविशेषणम्
      • कविम् [इ. पुं. द्वि. एक.]
      • पुराणम् [अ. पुं. द्वि. एक.]
      • अनुशासितारम् [अ. पुं. द्वि. एक.]
      • अणोः [उ. पुं. प. एक.] अणीयांसम् [अणीयस् स. पुं. द्वि. एक.]
        • प्रथमा        अणीयान्           अणीयांसौ          अणीयांसः
        • द्वितीया अणीयांसम्        अणीयांसौ          अणीयसः
        • (गरीयसी-पदे विध्यमान: ईयसुन्-प्रत्यय: अत्र अपि अस्ति | अणीयान् = अणु + ईयसुन् प्रत्यय:)
      • सर्वस्य [अ. पुं. ष. एक.] धातारम् [इ. पुं. द्वि. एक.]
      • अचिन्त्य+रूपम् [अ. पुं. द्वि. एक.]
      • आदित्य+वर्णम् [अ. पुं. द्वि. एक.]
      • तमसः [स. नपुं. प. एक.] परस्तात् [अ. पुं. प. एक.] (तमसः परतः विद्यमानम् इति द्वितीयविभक्त्यर्थे)

प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

पदच्छेदः

प्रयाणकाले मनसा अचलेन भक्त्या युक्तः योगबलेन च एव भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् |

अन्वयः

सः भक्त्या युक्तः प्रयाणकाले योगबलेन च एव भ्रुवोः मध्ये प्राणं सम्यक् आवेश्य अचलेन मनसा (स्मरन्) दिव्यं परं तं पुरुषम् उपैति ।

पदपरिचय:

  • प्रथमवाक्यम्
  • क्रियापदम् = उपैति [उप + इ “इण् गतौ”, पर. लट्. प्रपु. एक. (प्रपु. एक. रूपम् – एति)]
  • कर्तृपदम् = सः [तद् द. पुं. प्र. एक.]
  • कर्तृविशेषणम् = भक्त्या [इ. स्त्री. तृ. एक.] युक्तः [अ. पुं. प्र. एक.]
  • कर्मपदम् =पुरुषम् [अ. पुं. द्वि. एक.]
  • कर्मविशेषणम्= दिव्यं [अ. पुं. द्वि. एक.] परं [अ. पुं. द्वि. एक.] तम् [तद् द. पुं. द्वि. एक.]
  • कालवाचकपदम् = प्रयाण+काले [अ. पुं. स. एक.]
  • प्रथमकरणपदम् = योग+बलेन [अ. पुं. तृ. एक.]
  • द्वितीयकरणपदम् = मनसा [स. नपुं. तृ. एक.]
  • द्वितीयकरणविशेषणम् = अचलेन [अ. नपुं. तृ. एक.]
  • किं कृत्वा? भ्रुवोः मध्ये प्राणं सम्यक् आवेश्य
  • “आवेश्य” वाक्यांश:
    • क्रियापदम् = आवेश्य [आ + विश् “विश प्रवेशने” + णिच् (प्रेरणार्थे) + ल्यप्, अव्ययम्, (प्रपु. लट्. प्र-उपसर्गपूर्वकपदम् = प्रविशति)]
    • क्रियाविशेषणम् = सम्यक् [अव्ययम्]
    • कर्मपदम्= प्राणम् [अ. पुं. द्वि. एक.]
    • स्थानवाचकपदम् = भ्रुवोः [ऊ. स्त्री. ष. द्वि.] मध्ये[अव्ययम्]

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥

 पदच्छेदः

यत् अक्षरं वेदविदः वदन्ति विशन्ति यत् यतयः वीतरागाः यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥

अन्वयः

वेदविदः यत् अक्षरं वदन्ति, वीतरागाः यतयः यत् विशन्ति, यत् इच्छन्तः ब्रह्मचर्यं चरन्ति, तत् पदं ते सङ्ग्रहेण प्रवक्ष्ये ।

पदपरिचय:

  • यत् प्रथमवाक्यांश:
    • क्रियापदम् = वदन्ति [वद “वद व्यक्तायां वाचि”, पर. लट्. बहु.]
    • कर्तृपदम् = वेद+विदः [त. पुं. प्र. बहु.]
    • कर्मपदम् = यत् [त. नपुं. प्र. एक.]
    • कर्मविशेषणम् = अक्षरम् [अ. नपुं. प्र. एक.]
  • यत् द्वितीयवाक्यांश:
    • क्रियापदम् = विशन्ति [विश् “विश प्रवेशने”, पर. लट्. प्रपु. बहु. (प्र-उपसर्गपूर्वकपदम् = प्रविशन्ति)]
    • कर्तृपदम् = यतयः [इ. पुं. प्र. बहु.]
    • कर्तृविशेषणम् = वीत+रागाः [अ. पुं. प्र. बहु.]
    • कर्मपदम् = यत् [त. नपुं. प्र. एक.]
  • यत् तृतीयवाक्यांश:
    • क्रियापदम् = चरन्ति [चर “चर गतिभक्षणयो:”, पर. लट्. प्रपु. बहु.]
    • कर्तृपदम् = यत् [त. नपुं. प्र. एक.] इच्छन्तः [(इष “इष इच्छायाम्” + शतृ) अ. पुं. प्र. बहु.]
    • कर्मपदम् = ब्रह्मचर्यम् [अ. नपुं. प्र. एक.]
  • मुख्यवाक्यम्
    • क्रियापदम् = प्रवक्ष्ये [प्र+वच “वच परिभाषणे”, पर. लट्. उपु. एक. = प्रवक्ष्यामि | अत्र आत्मनेपदित्वेन आर्ष: प्रयोग: ]
    • क्रियाविशेषणम् = सङ्ग्रहेण [अ. नपुं. तृ. एक.]
    • कर्तृपदम् = (अहम्)
    • कर्मपदम् = पदम् [अ. नपुं. द्वि. एक.]
    • कर्मविशेषणम् = तत् [त. नपुं. द्वि. एक.]
    • सम्प्रदानपदम् = ते (तुभ्यम्) [युष्मद् द. त्रि. च. एक.]
  • अन्य विषय:
    • कठोपनिषद्-श्लोक:
      • सर्वे वेदा: यत्पदम् आमनन्ति — तपाँसि सर्वाणि च यत् वदन्ति ।

यत् इच्छन्तो ब्रह्मचर्यं चरन्ति — तत्ते पदँ संग्रहेण ब्रवीमि ॐ इत्येतत् ॥ १.२.१५ ॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥

पदच्छेदः

सर्वद्वाराणि संयम्य मनः हृदि निरुध्य च मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योगधारणाम् ॥

ॐ इति एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् यः प्रयाति त्यजन् देहं सः याति परमां गतिम् ॥

अन्वयः

सर्वद्वाराणि संयम्य, मनः हृदि निरुध्य च, आत्मनः प्राणं मूर्ध्नि आधाय, योगधारणाम् आस्थितः, यः ॐ इति एकाक्षरं ब्रह्म व्याहरन्, माम् अनुस्मरन्, देहं त्यजन्, प्रयाति, सः परमां गतिं याति ।

पदपरिचय:

  • य: वाक्यांश:
    • क्रियापदम् = प्रयाति [प्र + या “या प्रापणे”, पर. लट्. प्रपु. एक.]
    • कर्तृपदम् = यः [यत् त. पुं. प्र. एक.]
    • कर्तृविशेषणम् = योगधारणाम् (कर्मपदम्) [आ. स्त्री. द्वि. एक.] आस्थितः [ अ. पुं. प्र. एक. ]
    • किं कृत्वा ? सर्व+द्वाराणि (कर्मपदम्) [अ. नपुं. द्वि. बहु.] संयम्य [ अव्ययम् | सम् + यम् + ल्यप् “यम उपरमे”]
    • किं कृत्वा ? मनः (कर्मपदम्) [स. नपुं. द्वि. एक.], हृदि (स्थानवाचकम्) [हृद् द. नपुं. स. एक.], निरुध्य [ नि + रुध् + ल्यप्, “रुधिर् आवरणे”], च [अव्ययम्]
    • किं कृत्वा ? आत्मनः (संबन्दवाचकपदम्) [न. पुं. ष. एक.], प्राणम् (कर्मपदम्) [अ. पुं. द्वि. एक.], मूर्ध्नि (स्थानवाचकपदम्) [न. पुं. स. एक.], आधाय [ अव्ययम् | आ + धाञ् + ल्यप् “डु धाञ् धारणपोषणयो:”]
    • किं कुर्वन् ? माम् (कर्मपदम्) [अस्मद् द. त्रि. द्वि. एक.] अनु+स्मरन् [ अनु + स्मृ + शत्रु (कर्तरी), “स्मृ चिन्तायाम्” ]
    • किं कुर्वन् ? ॐ [(अक्षरं एव पदं नास्ति)], इति [अव्ययम्], एक+अक्षरं [अ. नपुं. प्र. एक.], ब्रह्म [न. नपुं. प्र. एक.], व्याहरन् [ वि + आ + हृञ् + शतृ (कर्तरी), “हृञ् हरणे”]
    • किं कुर्वन् ? देहं [अ. पुं. द्वि. एक.] त्यजन् [ त्यज् + शतृ (कर्तरी), “त्यज हानौ”]
  • स: वाक्यांश:
    • क्रियापदम् = याति [“या प्रापणे” पर. लट्. प्रपु. एक.]
    • कर्तृपदम् = स: [तद् द. पुं. प्र. एक.]
    • कर्मपदम् = गतिम् [इ. स्त्री. द्वि. एक.]
    • कर्मविशेषणम् = परमाम् [आ. स्त्री. द्वि. एक.]

अनन्यचेताः सततं यो मां स्मरति नित्यशः।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४

पदच्छेदः

अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः |

पदच्छेदः

अनन्यचेताः सततं य: मां स्मरति नित्यशः तस्य अहं सुलभः पार्थ नित्ययुक्तस्य योगिनः |

अन्वयः

पार्थ | अनन्यचेताः य: सततं नित्यशः मां स्मरति तस्य नित्ययुक्तस्य योगिनः अहं सुलभः |

  • य: वाक्यांश:
    • क्रियापदम् = स्मरति [स्मृ, “स्मृ चिन्तायाम्”, पर. लट्. प्रपु. एक.]
    • क्रियाविशेषणम् = सततम् [अव्ययम्] नित्यशः [अव्ययम्]
    • कर्तृपदम् = य: [यद् द. पुं. प्र. एक.]
    • कर्तृविशेषणम् = अनन्यचेताः [अनन्यचेतस् स. पुं. प्र. एक.]
    • कर्मपदम् = माम् [अस्मद् द. त्री. द्वि. एक.]
  • स: वाक्यांश:
    • क्रियापदम् = (अस्मि)
    • कर्तृपदम् = अहम् [अष्मद् द. त्रि. प्र. एक.]
    • कर्तृविशेषणम् = सुलभः [अ. पुं. प्र. एक.]
    • “सुलभः” पदस्य संबन्दवाचकपदम् = तस्य [तद् द. पुं. ष. एक.] नित्य+युक्तस्य [अ. पुं. ष. एक.] योगिनः [न. पुं. ष. एक.]
  •  विशेषण-विषेश्यम्
    • तस्य योगिनः (स: योगी)
    • नित्य+युक्तस्य योगिनः (नित्ययुक्त: योगी)

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

पदच्छेदः

माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतं न आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः |

अन्वयः

परमां संसिद्धिं गताः महात्मानः माम् उपेत्य अशाश्वतं दुःखालयं पुनर्जन्म न आप्नुवन्ति |

पदपरिचय:

  • क्रियापदम् = न [अव्ययम्] आप्नुवन्ति [आप् “आप्ऌ व्याप्तै” पर. लट्. प्रपु. बहु.]
  • कर्तृपदम् = महात्मानः [न. पुं. प्र. बहु.]
  • कर्तृविशेषणम् = परमां (कर्मपदम्) [आ. स्त्रि. द्वि. एक.] संसिद्धिं (कर्मपदम्) [इ. स्त्रि. द्वि. एक.] गताः [अ. पुं. प्र. बहु.]
  • कर्मपदम् = पुनर्+जन्म [न. नपुं. द्वि. एक.]
  • कर्मविशेषणम् = अशाश्वतम् [अ. नपुं. द्वि. एक.] दुःखालयम् [अ. नपुं. द्वि. एक.]
  • विशेषण-विषेश्यं
    • परमां संसिद्धिम्
    • अशाश्वतं पुनर्जन्म
    • दुःखालयं पुनर्जन्म

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

पदच्छेदः

आब्रह्मभुवनात् लोकाः पुनरावर्तिन: अर्जुन माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते |

अन्वयः

अर्जुन | आब्रह्मभुवनात् लोकाः पुनरावर्तिन: | कौन्तेय | माम् उपेत्य तु पुनर्जन्म न विद्यते |

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = आब्रह्म+भुवनात् [अ. नपुं. प. एक.] (तस्मात् आरभ्य सर्वे इत्यर्थे:) लोकाः [अ. पुं. प्र. बहु.]
    • कर्तृविशेषणम् = पुनरावर्तिन: [न. पुं. प्र. बहु.]
  • द्वितीयवाक्यम्
    • क्रियापदम् = न [अव्ययम्] विद्यते [विद् “विद सत्तायाम्” आ. लट्. प्रपु. एक.]
    • कर्मपदम् = पुन:+जन्म [न. नपुं. प्र. एक.]
    • किं कृत्वा? माम् (कर्मपदम्) [अस्मद् द. त्रि. द्वि. एक.] उपेत्य [अव्ययम्, उप + इ +ल्यप् “इण् गतौ”, (प्रपु. एक. रूपम् – एति)]

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥

पदच्छेदः

सहस्रयुगपर्यन्तम् अह: यत् ब्रह्मण: विदुः। रात्रिं युगसहस्रान्तां ते अहोरात्रविद: जनाः |

अन्वयः

(ये) सहस्रयुगपर्यन्तम् यत् ब्रह्मण: अह:  विदुः, (ये) युगसहस्रान्तां रात्रिं विदुः,  ते जनाः अहोरात्रविद: |

पदपरिचय:

  • “ये” वाक्यांश:
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = ये [द. पुं. प्र. बहु.]
    • कर्तृविशेषणम् = विदुः [विद् “विद ज्ञाने”, पर. लट्. प्र. बहु.]
      • “विदुः” पदस्य प्रथमविशेषणवाक्यम्
        • क्रियापदम् = (अस्ति)
        • क्रियाविशेषणम् = सहस्र+युग+पर्यन्तम् [अ. पुं. द्वि. एक.]
        • कर्तृपदम् = ब्रह्मण: [न. नपुं. ष. एक.] अह: [अ. नपुं. प्र. एक.]
      • “विदुः” पदस्य प्रथमविशेषणवाक्यम्
        • क्रियापदम् = (अस्ति)
        • कर्तृविशेषणम् = युग+सहस्र+अन्तां [आ. स्त्री. द्वि. एक.]
        • कर्तृपदम् = रात्रिं [इ. स्त्री. द्वि. एक.]
  • “ते” वाक्यांश:
    • कर्तृपदम् = ते [तद् द. पुं. प्र. बहु.]
    • कर्तृविशेषणम् = जनाः [अ. पुं. प्र. बहु.] अहोरात्रविद: [द. पुं. प्र. बहु.]
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s