Bhagavad Gita – Chapter 8 – Part 1

श्रीमद्भगवद्गीता – अष्टमोऽध्यायः – अक्षरब्रह्मयोग: – Part 1
(12th Oct 2015, नारायण नम्बूदरि महोदयस्य कक्षायां पठिता: श्लोका:)

References –

  1. Gita Praveshah – dviteeyabhaaga  Part- 2 by Samskrita Bharati
  2. https://sa.wikipedia.org/s/9oc वर्गः:अक्षरब्रह्मयोगः

अर्जुन उवाच –                             

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

पदच्छेदः

किं तत् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥ १ ॥

अन्वयः
पुरुषोत्तम ! किं तद् ब्रह्म (अस्ति) ? किम् अध्यात्मम् (अस्ति)? किं कर्म (अस्ति)? किम् अधिभूतम् (इति) प्रोक्तम् ? किम् अधिदैवम् (इति) उच्यते  च ?

पदपरिचय:

प्रथमवाक्यम्

क्रियापदम् = (अस्ति)
कर्तृपदम् = ब्रह्म
कर्तृविशेषणम् = तत्
प्रश्नवाचकम् कर्तृपदम्  = किम्
द्वितीयवाक्यम्

क्रियापदम् = (अस्ति)
कर्तृपदम् = अध्यात्मम् 
प्रश्नवाचकम् कर्तृपदम्  = किम्

तृतीयवाक्यम्

क्रियापदम् = (अस्ति)
कर्तृपदम् = कर्म 
प्रश्नवाचकम् कर्तृपदम्  = किम्

चतुर्थवाक्यम्

क्रियापदम् = (अस्ति)
कर्मपदम् = प्रोक्तम्  [कर्मण्यर्थे क्तान्तं पदम्]
कर्मवाचकवाक्यांश: = अधिभूतम् (इति)
प्रश्नवाचकम् कर्मपदम्  = किम्

पञ्चमवाक्त्यम्

क्रियापदम् = उच्यते [कर्मणि प्रयोगः]
कर्मवाचकवाक्यांश: = अधिदैवम् (इति)
प्रश्नवाचकम् कर्मपदम्  = किम्

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ २ ॥

पदच्छेदः
अधियज्ञः कथं कः अत्र देहे अस्मिन् मधुसूदन प्रयाणकाले च कथं ज्ञेयः असि नियतात्मभिः ॥ २ ॥

अन्वयः
मधुसूदन ! अत्र अस्मिन् देहे कः अधियज्ञः (अस्ति)? कथम् (अस्ति)? प्रयाणकाले कथं च (त्वं) नियतात्मभिः ज्ञेयः असि ?

पदपरिचय:

प्रथमवाक्यम्

क्रियापदम् = (अस्ति)
प्रश्नवाचकं कर्तृपदम् = कः
कर्तृविशेषणम् = अधियज्ञः
कृत्र? अत्र, अस्मिन्, देहे

द्वितीयवाक्यम्

क्रियापदम् = (अस्ति)
प्रश्नवाचकं क्रियाविशेषणम् = कथम्
कर्तृपदम् = (स:)
कर्तृविशेषणम् = (अधियज्ञः)

तृतीयवाक्यम्

क्रियापदम् = असि
प्रश्नवाचकं क्रियाविशेषणम् = कथम्
कर्तृपदम्  = (त्वम्)
कर्तृविशेषणम् = नियतात्मभिः [न. पुं. तृ. बहु.] ज्ञेयः [अ. पुं. प्र. एक.] [तव्यत्, कर्मणिप्रयोग:]
कदा? प्रयाणकाले [अ. पुं. स. एक.]

विशेषण-विशेष्यम्

  • अस्मिन् [(इदम्) म. पुं. स. एक.], देहे [अ. पुं. स. एक.]

श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥

पदच्छेदः
अक्षरं ब्रह्म परमं स्वभावः अध्यात्मम् उच्यते भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः ॥ ३ ॥

अन्वयः
परमम् अक्षरं ब्रह्म (अस्ति), स्वभावः अध्यात्मम् (इति) उच्यते । भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः (अस्ति) ।

पदपरिचय:

प्रथमवाक्यम्

क्रियापदम् = (अस्ति)
कर्तृपदम् = ब्रह्म [न. नपुं. प्र. एक.]
कर्तृविशेषणम् = परमम् अक्षरम्

द्वितीयवाक्यम्

क्रियापदम् = उच्यते [कर्मणि प्रयोग:]
कर्मवाचकं वाक्यम् = स्वभावः अध्यात्मम् (इति) |

तृतीयवाक्यम्

क्रियापदम् = (अस्ति)
कर्तृपदम् = विसर्गः
कर्तृविशेषणम् = भूतभावोद्भवकरः, कर्मसंज्ञितः

विशेषण-विशेष्यम्

  • परमम् [अ. नपुं. प्र. एक.] अक्षरम् [अ. नपुं. प्र. एक.]
  • भूतभावोद्भवकरः [अ. पुं. प्र. एक.] विसर्गः [अ. पुं. प्र. एक.]

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥

पदच्छेदः
अधिभूतं क्षरः भावः पुरुषः च अधिदैवतम् अधियज्ञः अहम् एव अत्र देहे देहभृतां वर ॥ ४ ॥
अन्वयः
क्षरः भावः अधिभूतम् (अस्ति) | पुरुषः च अधिदैवतम् (अस्ति) । देहभृतां वर ! अत्र देहे अहम् एव अधियज्ञः (अस्मि) ।

पदपरिचय:

तृतीयवाक्यम्

क्रियापदम् = अस्मि
कर्तृपदम् = अहम्
कर्तृविशेषणम् = अधियज्ञः, एव [अव्ययम्]
कृत्र ? अत्र देहे

  • देहभृतां [त. पुं. ष. बहु.] वर [अ. पुं. सम्बो. एक.]

विशेषण-विशेष्यम्

  • क्षरः भावः

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥

पदच्छेदः
अन्तकाले च माम् एव स्मरन् उक्त्वा कलेवरम् यः प्रयाति स मद्भावं याति न अस्ति अत्र संशयः ॥ ५ ॥

अन्वयः
यः अन्तकाले च माम् एव स्मरन् कलेवरं मुक्त्वा प्रयाति सः पुरुषः मद्भावं याति । अत्र न संशयः ।

पदपरिचय:

“य:” वाक्यांशे

क्रियापदम् = प्रयाति
कर्तृपदम् = य:
अन्य पदम् / वाक्यांश: (किं कृत्वा, किं कुर्वन्, कदा) =  कलेवरं मुक्त्वा,  माम् एव स्मरन्, अन्तकाले

“स:” वक्यांशे

क्रियापदम् = याति
कर्तृपदम् = पुरुषः
कर्तृविशेषणम् = सः
कर्म = मद्भावं

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।

तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

पदच्छेदः
यं यं वा अपि स्मरन् भावं त्यजति अन्ते कलेवरम् तं तम् एव एति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥
अन्वयः
कौन्तेय ! अन्ते यं यं वा अपि भावं स्मरन् कलेवरं त्यजति (सः) सदा तद्भावभावितः तं तम् एव एति ।

पदपरिचय:

“यं” वाक्यांश:

क्रियापदम् =  त्यजति
अन्य वाक्यांश: (किं कुर्वन्) =  यं यं वा अपि भावं स्मरन्
कर्म = कलेवरम्

“तं” वाक्यांश:

क्रियापदम् = एति
कर्तृपदम् = तद्भावभावितः
कर्म = तम्
कर्मविशेषणं = तम् एव
अन्यपदम् (कदा) = सदा

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशय: ॥ ७ ॥

पदच्छेदः
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च मय्यर्पितमनोबुद्धि माम् एव एष्यसि असंशयः ॥ ७ ॥
अन्वयः
तस्मात् सर्वेषु कालेषु माम् अनुस्मर | युध्य च । मयि अर्पितमनोबुद्धिः माम् एव एष्यसि । असंशयः ।

पदपरिचय:

प्रथमवाक्यम्

क्रियापदम् = अनुस्मर
कर्तृपदम् = (त्वम्)
कर्म = माम्
अन्यपदम् (कस्मात् कारणात्, कदा) = तस्मात्, सर्वेषु कालेषु

विशेषण-विशेष्यम्

  • सर्वेषु [अ. पु. स. बहु.] कालेषु [अ. पु. स. बहु.]

द्वितीयवाक्यम्

क्रियापदम् = युध्य
कर्तृपदम् = (त्वम्)

तृतीयवाक्यम्

क्रियापदम् = एष्यसि
कर्त्रुपदम् = (त्वम्)
कर्तृवेशेषण: वाक्यांश: = मयि [(अस्मद्) द. त्रि. स. एक.] अर्पितमनोबुद्धिः [इ. पुं. प्र. एक.]
कर्मपदम् = माम्
कर्मविशेषणम् = एव [अव्ययम्]

चतुर्थवाक्यम्

क्रियापदम् = (अस्ति)
कर्तृपदम् = असंशयः

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s