Bhagavad Gita – Chapter 7 – Part 4

श्रीमद्भगवद्गीता – सप्तमोऽध्याय: – ज्ञानविज्ञानयोग: – Part 4

References –

  1. Gita Praveshah – dviteeyabhaaga  Part- 2 by Samskrita Bharati
  2. http://hi.brajdiscovery.org/index.php?title=%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_7:16

Note: (6:n) indicates the vibhakti and vachana !

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।।16।।

पदच्छेद:
चतुर्विधा: भजन्ते माम् जना: सुकृतिन: अर्जुन आर्त: जिज्ञासु: अर्थार्थी ज्ञानी च भरतर्षभ ।

अन्वय:
अर्जुन | भरतर्षभ । आर्त: जिज्ञासु: अर्थार्थी ज्ञानी च (इति) चतुर्विधा: जना: सुकृतिन: मां भजन्ते

क्रियाविशेषणं च क्रिया च = भजन्ते
कर्तृविशेषणं च कर्ता च = आर्त: जिज्ञासु: अर्थार्थी ज्ञानी च (इति) चतुर्विधा: जना:, सुकृतिन:
कर्मविशेषणं च कर्म च = माम्

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ।।17।।

पदच्छेद:
तेषाम् ज्ञानी नित्ययुक्त: एकभक्ति: विशिष्यते प्रिय: हि ज्ञानिन: अत्यर्थम् अहम् स: च मम प्रिय: ।

अन्वय:
तेषाम् ज्ञानी नित्ययुक्त: एकभक्ति: विशिष्यते | अहं हि ज्ञानिन: अत्यर्थम् प्रिय: (अस्मि) | स: मम प्रिय: च (अस्ति) ।

क्रियाविशेषणं च क्रिया च = विशिष्यते
कर्तृविशेषणं च कर्ता च = तेषाम् (6:n) ज्ञानी, नित्ययुक्त: एकभक्ति:

क्रियाविशेषणं च क्रिया च = (अस्मि)
कथम् अस्मि? ज्ञानिन: (6:n) अत्यर्थं (अव्ययं, विशेषणं) प्रिय:
कर्तृविशेषणं च कर्ता च = अहम्

क्रियाविशेषणं च क्रिया च = (अस्ति) ।
कथम् अस्ति? मम (6:1) प्रिय:
कर्तृविशेषणं च कर्ता च = स:

उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ।।18।।

पदच्छेद:
उदारा: सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् । आस्थित: स: हि युक्तात्मा माम् एव अनुत्तमाम् गतिम् ।

अन्वय:
एते सर्वे उदारा: एव (सन्ति) | ज्ञानी तु (मे) आत्मा एव (इति) मे मतम् (अस्ति) । स: हि युक्तात्मा अनुत्तमां गतिं माम् एव आस्थित: (अस्ति)।

क्रियाविशेषणं च क्रिया च = (अस्ति)
कथम् अस्ति? मे (6:1) मतम्
कर्तृविशेषणं च कर्ता च = ज्ञानी तु (मे) आत्मा एव (इति)

क्रियाविशेषणं च क्रिया च = (अस्ति)
कथम् अस्ति? आस्थित:
कर्तृविशेषणं च कर्ता च = स:, युक्तात्मा
कर्मविशेषणं च कर्म च = अनुत्तमां (विशेषणं) गतिं, माम्

पदपरिचय:
अनुत्तमा – न विद्यते उत्तमा यस्या: सा
आस्थित: – आ+स्थित: = सर्वदा सर्वथा सर्व प्रकारेण स्थित:

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ।।19।।

पदच्छेद:
बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते वासुदेव: सर्वम् इति स: महात्मा सुदुर्लभ: ।

अन्वय:
बहूनां जन्मनाम् अन्ते वासुदेव: सर्वम् इति ज्ञानवान् माम् प्रपद्यते | स: महात्मा सुदुर्लभ: (अस्ति) ।

क्रियाविशेषणं च क्रिया च = प्रपद्यते
कदा?  बहूनां(6:n) जन्मनाम्(6:n) अन्ते (अव्ययं सप्तंयर्थे)
कर्तृविशेषणं च कर्ता च = वासुदेव: सर्वम् इति ज्ञानवान्
कर्मविशेषणं च कर्म च =  माम्

कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: ।
तं तं नियममास्थाय प्रकृत्या नियता: स्वया ।।20।।

पदच्छेद:
कामै: तै: तै: हृतज्ञाना: प्रपद्यन्ते अन्यदेवता: तम् तम् नियमम् आस्थाय प्रकृत्या नियता: स्वया ।

अन्वय:
तै: तै: कामै: हृतज्ञाना: स्वया प्रकृत्या नियता: तम् तम् नियमम् आस्थाय अन्यदेवता: प्रपद्यन्ते ।

क्रियाविशेषणं च क्रिया च = प्रपद्यन्ते
किं कृत्वा? तं (2:1) तं (2:1) नियमम् (2:1) आस्थाय
कर्तृविशेषणं च कर्ता च = तै: (3:n) तै: (3:n) कामै: (3:n) हृतज्ञाना:, स्वया (3:1) प्रकृत्या (3:1) नियता:
कर्मविशेषणं च कर्म च = अन्यदेवता: (2:n)

पदपरिचय:
तै: तै: = समस्त इति सूचयितुं द्विवारम् अस्ति |

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s