Hey Heramba, Kimamba — Chaatushloka – Parichaya Lesson 2

हे हेरम्ब किमम्ब रोदिषि कुतः? कर्णौ लुठत्यग्निभूः
किं ते स्कन्द विचेष्टितं मम पुरा संख्या कृता चक्षुषाम्।
नैतत्तेप्युचितं गजास्य चरितं नासां मिमीतेऽम्ब मे
तावेवं सहसा विलोक्य हसितव्यग्रा शिवा पातु वः॥

हे हेरम्ब, किम् अम्ब, रोदिषि कुतः? कर्णौ लुठति अग्निभूः
किं ते स्कन्द विचेष्टितम् मम पुरा संख्या कृता चक्षुषाम् |
न एतत् ते अपि उचितं गजास्य चरितं नासां मिमीते अम्ब मे
तौ एवम् सहसा विलोक्य हसितव्यग्रा शिवा पातु वः॥

पार्वती :: हे हेरम्ब |
गजानन: :: किम् अम्ब ?
पार्वती :: रोदिषि कुतः?
गजानन: :: अग्निभूः कर्णौ लुठति |
पार्वती :: (हे) स्कन्द | किं ते विचेष्टितम् ?
स्कन्द: :: पुरा मम चक्षुषाम् संख्या (तेन) कृता |
पार्वती :: (हे) गजास्य | एतत् ते चरितं अपि न उचितं |
स्कन्द: :: (हे) अम्ब | (स:) मे नासां मिमीते |
एवं शिवा तौ सहसा विलोक्य हसितव्यग्रा पातु वः॥

शिवा = पार्वती
हेरम्ब: = गणेश:
अग्निभूः = born out of fire – Shanmukha
तौ एवं सहसा विलोक्य = स्कन्दगजाननौ कलहरूपेण क्रीडन्तौ दृष्ट्वा
सहसा = hurriedly (here, casually)
हसितव्यग्रा = हसने या व्यग्रा अभवत् सा = She who is engaged or occupied in smiling
व: = युष्मान् (you all)
पातु = रक्षतु

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s