Bhagavad Gita – Chapter 7 – Part 3

श्रीमद्भगवद्गीता – सप्तमोऽध्याय: – ज्ञानविज्ञानयोग: – Part 3

References –

  1. Gita Praveshah – dviteeyabhaaga  Part- 2 by Samskrita Bharati
  2. http://hi.brajdiscovery.org/index.php?title=%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_7:11

Note: (6:n) indicates the vibhakti and vachana !

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरूद्धो भूतेषु कामोऽस्मि भरतर्षभ ।।11।।

पदच्छेद:
बलम् बलवताम् च अहम् कामरागविवर्जितम् धर्माविरूद्ध: भूतेषु काम: अस्मि भरतर्षभ ।

अन्वय:
भरतर्षभ | अहं बलवतां कामरागविवर्जितं बलम्  (अस्मि) | भूतेषु धर्माविरुद्ध: काम: च अस्मि ।

क्रियाविशेषणं च क्रिया च = अस्मि
कर्तृविशेषणं च कर्ता च = अहम्
कर्मविशेषणं च कर्म च = बलवतां (6:n) कामरागविवर्जितं (विशेषणं) बलम् , भूतेषु (7:n) धर्माविरुद्ध: (विशेषणं) काम:

पदपरिचय:
धर्माविरुद्ध: = धर्म + अविरुद्ध:

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ।।12।।

पदच्छेद:
ये च एव सात्त्विका: भावा: राजसा: तामसा: च ये मत्त: एव इति तान् विद्धि न तु अहम् तेषु ते मयि ।

अन्वय:
ये च एव सात्त्विका: भावा: ये राजसा: तामसा: च तान् मत्त: एव इति विद्धि | अहम् तेषु न (अस्मि) | ते मयि (सन्ति) ।

ये” वाक्यांशे
क्रियाविशेषणं च क्रिया च = सन्ति
कर्तृविशेषणं च कर्ता च = सात्त्विका: च राजसा: च तामसा: च भावा:

तान्” वाक्यांशे
क्रियाविशेषणं च क्रिया च = विद्धि
कर्तृविशेषणं च कर्ता च = त्वम्
कर्मविशेषणं च कर्म च = तान्, मत्त: (पञ्चम्यर्थे) एव इति

———–

त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ।।13।।

पदच्छेद:
त्रिभि: गुणमयै: भावै: एभि: सर्वम् इदम् जगत् मोहितम् न अभिजानाति माम् एभ्य: परम् अव्ययम् ।

अन्वय:
एभि: त्रिभि: गुणमयै: भावै: इदं सर्वं जगत् मोहितम् (अस्ति) | (ते जना:) एभ्य: परं अव्ययं मां न अभिजानाति ।

क्रियाविशेषणं च क्रिया च = अस्ति
कर्तृविशेषणं च कर्ता च = इदं सर्वं जगत्
कथम् अस्ति ? एभि: (3:n), त्रिभि: (3:n) (गुणमयानां विशेषणं), गुणमयै: (3:n) (भावानां विशेषणं), भावै: (3:n) मोहितम्

क्रियाविशेषणं च क्रिया च = न अभिजानाति
कर्तृविशेषणं च कर्ता च = (ते जना:)
कर्मविशेषणं च कर्म च = एभ्य: (5:n) परं, अव्ययं, मां
————————————-

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।।14।।

पदच्छेद:
दैवी हि एषा गुणमयी मम माया दुरत्यया माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते ।

अन्वय:
एषा दैवी गुणमयी मम माया दुरत्यया | ये माम् एव प्रपद्यन्ते ते एतां मायां तरन्ति ।

क्रियाविशेषणं च क्रिया च = अस्ति
कर्तृविशेषणं च कर्ता च = एषा, दैवी, गुणमयी, मम (6:1) माया
कथम् अस्ति ? दुरत्यया

ये” वाक्यांशे
क्रियाविशेषणं च क्रिया च = एव प्रपद्यन्ते
कर्तृविशेषणं च कर्ता च = ये
कर्मविशेषणं च कर्म च = माम्

ते” वाक्यांशे
क्रियाविशेषणं च क्रिया च = तरन्ति
कर्तृविशेषणं च कर्ता च = ते
कर्मविशेषणं च कर्म च = एतां, मायां

पदपरिचय:
दुरत्यया = दुर् + अति + इण् + खल् | “इण् गतौ” | प्रथमा विभक्ति एक वचने – एति | अति+एति = अत्येति | अत्येतुं योग्या अत्यया | कृच्छ्रेण अत्येतुं शक्या दुरत्यया |
खल् प्रत्यय – This suffix has limited usage primarily with verbs prefixed with ईषत्, सु, and दुस्, e.g. सुखेन क्रियते – सुकरम् , दुःखेन क्रियते – दुष्करम् , Thus,  सुपठः, सुवचम्, दुर्वचम्, दुर्घटः, ईषज्जयः, दुर्जयः, सुजयः, सुगमः, दुर्गमः etc. are common usages. https://grammarofsanskrit.wordpress.com/2012/11/02/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83/

न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: ।
माययापहृतज्ञाना आसुरं भावमाश्रिता: ।।15।।

पदच्छेद:
न माम् दुष्कृतिन: मूढा: प्रपद्यन्ते नराधमा: मायया अपहृतज्ञाना: आसुरम् भावम् आश्रिता: ।

अन्वय:
आसुरं भावम् आश्रिता: मायया अपहृतज्ञाना: नराधमा: मूढा: दुष्कृतिन: मां न प्रपद्यन्ते ।

क्रियाविशेषणं च क्रिया च = न प्रपद्यन्ते
कर्तृविशेषणं च कर्ता च = आसुरम् (2:1) भावम् (2:1) आश्रिता:, मायया (3:1) अपहृतज्ञाना:, नराधमा:, मूढा: दुष्कृतिन:
कर्मविशेषणं च कर्म च = माम्

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s