Bhagavad Gita – Chapter 7 – Part 2

श्रीमद्भगवद्गीता – सप्तमोऽध्याय: – ज्ञानविज्ञानयोग: – Part 2

References –

  1. Gita Praveshah – dviteeyabhaaga  Part- 2 by Samskrita Bharati
  2. http://hi.brajdiscovery.org/index.php?title=%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_7:1

Note: (6:n) indicates the vibhakti and vachana !

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ।।6।।

पदच्छेद:
एतद्योनीनि भूतानि सर्वाणि इति उपधारय अहम् कृत्स्नस्य जगत: प्रभव: प्रलय: तथा ।

अन्वय:
भूतानि सर्वाणि एतद्योनीनि इति उपधारय | अहं कृत्स्नस्य जगत: प्रभव: (अस्मि) | तथा (अहं कृत्स्नस्य जगत: ) प्रलय: (अपि अस्मि) ।

क्रियाविशेषणं च क्रिया च = अस्मि
कर्तृविशेषणं च कर्ता च = अहं, कृत्स्नस्य (6:1) जगत: (6:1) प्रभव:
——

मत्त: परतरं नान्यत्किंचिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।।7।।

पदच्छेद:
मत्त: परतरम् न अन्यत् किंचित् अस्ति धनञ्जय मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणा: इव ।

अन्वय:
धनञ्जय | मत्त: परतरं अन्यत् किंचित् न अस्ति | इदम् सर्वम् सूत्रे मणिगणा: इव मयि प्रोतम् ।

क्रियाविशेषणं च क्रिया च = न अस्ति
कर्तृविशेषणं च कर्ता च = परतरं,  अन्यत्,  किंचित्
कस्मात् परतरम्? मत्त: (पञ्चमिविभक्यर्थ:)

क्रियाविशेषणं च क्रिया च = प्रोतम्
कर्तृविशेषणं च कर्ता च = इदं सर्वम्
कुत्र? मयि (7:1)
कथम् इव? सूत्रे (7:1) मणिगणा: इव

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: ।
प्रणव: सर्ववेदेषु शब्द: खे पौरूषं नृषु ।।8।।

पदच्छेद:
रस: अहम अप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: प्रणव: सर्ववेदेषु शब्द: खे पौरूषम् नृषु ।

अन्वय:
कौन्तेय | अहम अप्सु रस: (अस्मि) | शशिसूर्ययो: प्रभास्मि | सर्ववेदेषु प्रणव: | खे शब्द: | नृषु पौरूषम् ।

क्रियाविशेषणं च क्रिया च = अस्मि
कर्तृविशेषणं च कर्ता च = अहम

कथम् अस्मि? अप्सु (7:n) रस: | शशिसूर्ययो: (7:2) प्रभास्मि | सर्ववेदेषु (7:n) प्रणव: | खे (7:1) शब्द: | नृषु (7:n) पौरूषम् ।
———————————————————–

पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ।।9।।

पदच्छेद:
पुण्य: गन्ध: पृथिव्यां च तेज: च अस्मि विभावसौ जीवनम् सर्वभूतेषु तप: च अस्मि तपस्विषु ।

अन्वय:
पृथिव्यां पुण्य: गन्ध: च | विभावसौ तेज: च अस्मि | सर्वभूतेषु जीवनम् | तपस्विषु तप: च अस्मि ।

क्रियाविशेषणं च क्रिया च = अस्मि
कर्तृविशेषणं च कर्ता च = अहम

कथम् अस्मि? पृथिव्यां (7:1) पुण्य: (विशेषणं) गन्ध: | विभावसौ (7:1) तेज: च अस्मि | सर्वभूतेषु जीवनम् | तपस्विषु तप: च अस्मि ।

पदपरिचय:
विभावसौ – विभावस् प्रातिपदिकम् | सप्तमि विभक्तिः एक वचनम् | प्रथमा विभक्ति: एक वचने विभावा: |

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ।।10।।

पदच्छेद:
बीजम् माम् सर्वभूतानाम् विद्धि पार्थ सनातनम् बुद्धि: बुद्धिमताम् अस्मि तेज: तेजस्विनाम् अहम् ।

अन्वय:
पार्थ | सर्वभूतानाम् सनातनम् बीजम् माम् विद्धि | बुद्धिमताम् बुद्धि: अस्मि | अहम् तेजस्विनाम् तेज: ।

क्रियाविशेषणं च क्रिया च = विद्धि
कर्तृविशेषणं च कर्ता च = त्वम्
कर्मविशेषणं च कर्म च = बीजम्, माम्
कीदृशं बीजम्? सर्वभूतानाम् (विशेषणं) सनातनम् (विशेषणं)

क्रियाविशेषणं च क्रिया च = अस्मि
कर्तृविशेषणं च कर्ता च = अहम्
कीदृश: अस्मि? बुद्धिमताम् (6:n) बुद्धि: , तेजस्विनाम् (6:n) तेज:

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s