Bhagavad Gita – Chapter 7 – Part 1

श्रीमद्भगवद्गीता – सप्तमोऽध्याय: – ज्ञानविज्ञानयोग: – Part 1

References –

  1. Gita Praveshah – dviteeyabhaaga  Part- 2 by Samskrita Bharati
  2. http://hi.brajdiscovery.org/index.php?title=%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_7:1

Note: (6:n) indicates the vibhakti and vachana !

श्रीभगवान् उवाच –
मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ।।1।।

पदच्छेद:
मयि आसक्तमना: पार्थ योगं युञ्जन् मदाश्रय: असंशयं समग्रं मां यथा ज्ञास्यसि तत् शृणु |

अन्वय:
(हे) पार्थ | मयि आसक्तमना: योगं युञ्जन् मदाश्रय: (त्वं) यथा मां असंशयं समग्रं ज्ञास्यसि तत् शृणु |

यथावाक्यांशे
क्रियाविशेषणं च क्रिया च = असंशयं, समग्रं, ज्ञास्यसि
कर्तृविशेषणं च कर्ता च = मयि (7:1) आसक्तमना:, योगं युञ्जन् मदाश्रय:, (त्वं)
कर्मविशेषणं च कर्म च = मां
तत्वाक्यांशे
क्रियाविशेषणं च क्रिया च = शृणु
कर्तृविशेषणं च कर्ता च = (त्वं)
कर्मविशेषणं च कर्म च = तत्

पदपरिचय:
आसक्तमना: = आसक्तमनस् प्रातिपदिकम् | प्रथमा विभक्ति एक वचनम् |
ज्ञास्यसि = “ज्ञा अवबोधने” लृट् लकार: मध्यम पुरुष: | लट् प्रथमपुरुष: एक वचने जानाति |

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ।।2।।

पदच्छेद:
ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषत: यत् ज्ञात्वा न इह भूय: अन्यत् ज्ञातव्यम् अवशिष्यते ।

 

अन्वय:
अहम् इदम् सविज्ञानम् ज्ञानम् ते अशेषत: वक्ष्यामि यत् ज्ञात्वा इह अन्यत् भूय: ज्ञातव्यम् (ज्ञानम्) न अवशिष्यते ।

“इदम्” वाक्यांशे

क्रियाविशेषणं च क्रिया च = ते(6:1) अशेषत:, वक्ष्यामि
कर्तृविशेषणं च कर्ता च = अहम्
कर्मविशेषणं च कर्म च = इदम्,  सविज्ञानम्, ज्ञानम्,

यत्” वाक्यांशे

क्रियाविशेषणं च क्रिया च = न अवशिष्यते
कर्तृविशेषणं च कर्ता च = अन्यत्, भूय: ज्ञातव्यम्, (ज्ञानम्)
कुत्र? इह

मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत: ।।3।।

पदच्छेद:

मनुष्याणाम् सहस्त्रेषु कश्चित् यतति सिद्धये यतताम् अपि सिद्धानां कश्चित् मां वेत्ति तत्त्वत: ।

अन्वय:
मनुष्याणाम् सहस्त्रेषु कश्चित् सिद्धये यतति | यतताम् अपि सिद्धानां कश्चित् मां तत्त्वत: वेत्ति ।

क्रियाविशेषणं च क्रिया च = यतति
कर्तृविशेषणं च कर्ता च = मनुष्याणाम् (6:n) सहस्त्रेषु (6:n) कश्चित्
कस्मै? सिद्धये

क्रियाविशेषणं च क्रिया च = यतताम् (6:n) अपि सिद्धानां (6:n) कश्चित्
कर्तृविशेषणं च कर्ता च = तत्त्वत: वेत्ति
कर्मविशेषणं च कर्म च = मां

 

पदपरिचय:
यतति – हार्ष प्रयोगः | यतते आत्मनेपदी |

भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ।।4।।

पदच्छेद:
भूमि: आप: अनल: वायु: खम् मन: बुद्धि: एव च अहङ्कार इति इयम् मे भिन्ना प्रकृति: अष्टधा ।
अन्वय:
भूमि: आप: अनल: वायु: खं मन: बुद्धि: अहङ्कार एव च इति इयं मे प्रकृति: अष्टधा भिन्ना ।

क्रियाविशेषणं च क्रिया च = अस्ति
कथम् अस्ति? भूमि: आप: अनल: वायु: खं मन: बुद्धि: अहङ्कार एव च इति अष्टधा भिन्ना अस्ति |
कर्तृविशेषणं च कर्ता च = इयं,  मे(6:1) प्रकृति:

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ।।5।।

पदच्छेद:

अपरा इयम् इत: तु अन्याम् प्रकृतिम् विद्धि मे पराम् जीवभूताम् महाबाहो यया इदम् धार्यते जगत् ।

अन्वय:
महाबाहो | इयम् अपरा (यत् प्रकृति: पूर्वस्मिन् श्लोके उक्तम्) | इत: अन्यां, मे जीवभूताम्, पराम्, (ताम्) प्रकृतिम् विद्धि यया इदम् जगत् धार्यते ।

ताम्” वाक्यांशे

क्रियाविशेषणं च क्रिया च = विद्धि
कर्तृविशेषणं च कर्ता च = त्वम्
कर्मविशेषणं च कर्म च = इत: (5:1) अन्यां, मे (6:1) जीवभूताम्, पराम्, प्रकृतिम्

यया” वाक्यांशे

क्रियाविशेषणं च क्रिया च = धार्यते
कर्तृविशेषणं च कर्ता च = इदम् जगत्

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s