Bhagavad Gita Chapter 4 summary in Sanskrit भगवद्गीता चतुर्थोऽध्यायः

4. भगवद्गीता चतुर्थोऽध्यायः – ज्ञानकर्मसन्यासयोगः (गीता सोपानम् – ४)

श्रीकृष्ण: पुनः अर्जुनं उपदिशन् सूर्यवंशराजर्षीणां परम्परया योगज्ञानप्राप्तिः, महता कालेन तस्य नाशः च अभवत् इति अवदत्—-

“अव्ययम् एतद् योगज्ञानं पूर्वम् अहं सूर्याय उपदिष्टवान् । सूर्यः स्वपुत्राय मनवे, मनुः इक्ष्वाकवे च उपादिशत् । एवं परम्परया देवर्षिभिः प्राप्तं ज्ञानं महता कालेन नष्टं जातम् । त्वं मम सुहृद् भक्तश्च, अतः तदेव उत्तमं रहस्यं ज्ञानम् इदानीं तुभ्यम् उपदिशामि” ।

तदा अर्जुनः संशयेन अपृच्छत् – “भवान् इदानिं मम पुरतः अस्ति, सूर्यस्य जन्म तु बहुपूर्वम् अभवत् । कथं वा भवान् तम् उपदिष्टवान् इति अहं जानीयाम्?”

भगवान् स्वमाहात्म्यम् अवतारविशेषञ्च बोधयित्वा तस्य संशयनिवारणं करोति ।

“मम, तव च बहूनि जन्मानि अभवन्, एतदहं जानमि, त्वं तु न जानासि । सर्वेश्वरः जन्मनाशरहितः सन्नपि स्वमायाप्रकृतीम् आश्रित्य मम जन्म भवति । सर्वेषु युगेषु, यदा धर्मच्युतिः अधर्मवृद्धिश्च भवति, तदा शिष्टरक्षणाय, दुष्टनाशनाय, धर्मसंरक्षणाय च मम अवताराः भवन्ति” ।

“मम दिव्यजन्मकर्मणां यथार्थज्ञानी देहत्यागानन्तरं मां प्राप्नोति, तस्य पुनर्जन्म न भवति । मन्मयाः,    रागभयक्रोधरहिताः मदाश्रिताः बहवः ज्ञानपरिशुद्धाः मद्भावं प्राप्नुवन्ति । भक्ताः येन प्रकारेण मां भजन्ते, तेनैव प्रकारेण अहं तान् अनुगृह्णामि । मनुष्याः अपि सर्वथा मम मार्गमेव अनुवर्तन्ते” ।

“जनाः कर्मफलसिद्ध्यर्थं देवान् भजन्ति यतः, मनुष्यलोके कर्मफलसिद्धिः शीघ्रं भवति । गुणकर्मभेदेन मया चातुर्वर्ण्यं व्यवस्थितम्, अहमेव एतस्य कर्ता विनाशकश्च ।  मम कर्मबन्धः कर्मफलेच्छा वा कदापि नास्ति । यः एवं  जानाति सोऽपि बन्धमुक्तो भवति । यथा प्राचीनैः ज्ञानिभिः मुमुक्षुभि: कर्म आचरितं, तथा त्वमपि कर्म कुरु” ।

“कर्म किम्, अकर्म किम् इति पण्डिताः अपि सम्यक् न जानन्ति, अतः तुभ्यं कर्म विषये वदामि येन अशुभात् मोचनं प्राप्नोषि । कर्मणः अकर्मणः विकर्मणश्च स्वरूपं ज्ञातव्यम् अस्ति, कर्मगतिः गहना एव” ।

“यः कर्मणि अकर्म (निष्कामकर्म) पश्यति, अकर्मणि कर्म (अकर्तृत्वं) च पश्यति, सः युक्तः बुद्धिमान्,  सर्वकर्मकृत् इति उच्यते । य: फलापेक्षां कर्तृभावनां च त्यक्त्वा सर्वाणी कर्माणि करोति, यस्य कर्म एवं ज्ञानाग्निना दग्धं भवति, सः पण्डितः इति ज्ञानिनः वदन्ति । नित्यतृप्तः, निराश्रयः (अन्याश्रयापेक्षारहितः) कर्मफले अनासक्तः, सः सर्वदा कर्म कुर्वन्नपि किमपि न करोति” ।

सर्वे जीविनः कर्म कुर्वन्ति – सामान्या: शारीरं कर्म कुर्वन्ति, वेदज्ञाः तु वेदोक्तयज्ञकर्माणि आचरन्ति ।

शारीरकर्माचरणे न कर्मबन्ध: कथमिति —-

“आशारहितः, यतेन्द्रियचित्तः, सकलव्यापारवर्जितः शरीरसंरक्षणाय केवलं कर्म करोति चेदपि पापं न प्राप्नोति । यः मात्सर्यं द्वन्द्वभावं च त्यक्त्वा यदृच्छालाभेनैव सन्तुष्टः सन् सिद्ध्यसिद्ध्यौ समत्वभावेन कर्म करोति सः कर्मणि बद्धो न भवति । एवं ज्ञानिनः रागद्वेषविमुक्ताः सङ्गं त्यक्त्वा यज्ञाय यानि कर्माणि आचरन्ति तान्यपि    नष्टाः भवन्ति, अर्थात् तत्रापि न पापः कर्मबन्धश्च” ।

वेदोक्तयज्ञविशेषाः —-

“ब्रह्मयज्ञे, यजमानः ब्रह्म, सृगादियज्ञसाधनं ब्रह्म, अग्निः ब्रह्म, तत्र आहूतम् आज्यादिकं ब्रह्म, ब्रह्मसमाधिना यजमानेन प्राप्तव्यं स्थानमपि ब्रह्म एव । अपरे योगिनः दैवाय दैवयज्ञं, ब्रह्माग्नौ स्वयं यज्ञरुपॆण यज्ञं, पञ्चेन्द्रियाणां संयमाग्नौ, तथा इन्द्रियविषयाणां इन्द्रियाग्नौ संयमयज्ञं च आचरन्ति । अन्ये पुनः समस्तेन्द्रिय-प्राणकर्मणां ज्ञानप्रज्वालिते आत्मसंयमनाग्नौ आत्मसंयमयज्ञञ्च आचरन्ति । कठिनव्रताः केचन यतयः द्रव्ययज्ञं, तपोयज्ञं, स्वाद्ध्यायज्ञानयज्ञञ्च आचरन्ति । एवमेव प्राणायामपरायणाः पूरक-कुम्भक-रेचकरूपेण अभ्यासेन – अर्थात् प्राणं अपाने, अपानं प्राणे च क्षिप्त्वा प्राणापानरोधनेन प्राणापानयज्ञं आचरन्ति । अन्ये उपवासयज्ञे प्राणान् प्राणेषु क्षिपन्ति । एते सर्वे यज्ञेन परिशुद्धाः भवन्ति । अर्जुन ! यज्ञशेषम् अमृतं मत्वा भुञ्जानाः जनाः सनातनब्रह्म गच्छन्ति । यज्ञविहीनानाम् अस्मिन् लोके, परलोके वा किम् सुखम्? वेदस्य आदौ ज्ञानकाण्डे एवं बहुविधाः यज्ञाः वर्णिताः सन्ति । एतान् सर्वानपि कर्मजन्यानिति जानीहि । एतेन ज्ञानेन मोक्षं प्राप्स्यसि” ।

“परन्तप!, ज्ञानयज्ञः द्रव्यसहितयज्ञात् श्रेष्ठः भवति, यतः सर्वकर्मणां समाप्तिः ज्ञाने भवति” ।

“गुरोः सकशात् पुनः पुनः प्रश्नेन गुरुवन्दनशुश्रूषादिना च ज्ञानं प्राप्तव्यम् । तत्वज्ञानी गुरूः ज्ञानं प्रदास्यति, यं प्राप्य  कदापि तस्य मोहो न भवति । ज्ञानेन त्वं सर्वाणि भूतानि आत्मनि अनन्तरं मयि च पश्यसि ।  सर्वपापेभ्यः पापकृत्तमः चेदपि सः ज्ञानप्लवेन पापसमुद्रं तरिष्यति । प्रज्वलितः अग्निः यथा काष्ठानि भस्मीकरोति, तथा ज्ञानाग्निः सर्वकर्माणि भस्मीकरोति । अस्मिन् लोके ज्ञानसदृशं पवित्रं अन्यत् किमपि नास्ति। योगसिद्धः तादृशं ज्ञानं स्वयमेव कालेन प्राप्नोति” ।

“जितेन्द्रियः ज्ञानपरः श्रद्धावान् ज्ञानं प्राप्नोति, तदनन्तरं परमशान्तिं प्राप्नोति । किन्तु अज्ञः श्रद्धाविहीनः संशयात्मा नश्यति, तस्य अस्मिन् लोके परलोके वा सुखं न भवति । कौन्तेय! यः समर्पण-भावनया कर्म करोति, यस्य संशयाः ज्ञानेन नाशिताः सन्ति, तादृशं जितात्मानं पुरुषं कर्म न बध्नाति । अतः त्वमपि ज्ञानखड्गेन हृदिस्थं अज्ञानजन्यं संशयं छित्वा उत्तिष्ठ, योगं आचर – युद्धाय सन्नद्धो भव” ।

अभ्यासः ——–

  • ५ श्लोकानम् अन्वयम्, अन्वयार्थं, तत्पर्यार्थं च लिखत ।
  • एक वाक्येन उत्तरत –
    • श्रीकृष्णेन सूर्याय योगं कथं वा उक्तं इति अर्जुनस्य सन्देहस्य कारणं किम् ?
    • युगे युगे भगवान् किमर्थं स्वयं सृजति?
    • लोके जनाः किमर्थं देवताः यजन्ते?
    • कस्य ज्ञानेन जनः अशुभात् मोक्ष्यते?
    • मनुष्येषु युक्तः बुद्धिमान् कः?
    • ज्ञानयज्ञः कस्मात् श्रेय:? किमर्थम्?
    • वेदमुखे वर्णिताः यज्ञाः कीदृशा, एवं ज्ञात्वा किम् भविष्यति च?
    • तत्वदर्शिना उपदिष्टेन ज्ञानेन का अनुभूतिः भवति?
    • ज्ञानाग्निः सर्वकर्माणि कथं भस्मीकरोति?
    • कीदृशः आत्मा विनश्यति?
  • पञ्च वाक्येन उत्तरत –
    • अव्ययं योगज्ञानं राजर्षिभिः परम्परया कथं प्राप्तम् ?
    • शारीरं कर्म यज्ञकर्म वा आचरन् कर्मबन्धः न भवति कर्म विलीयते च – वर्णयत ।
    • ब्रह्मयज्ञं प्राणायामयज्ञं च विवृणुत ।

Thanks to Sri P.N. Namboodiri who conducts the Gita Pravesha (Samskrita Bharati Gita Sopanam level 4) classes.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s