Kathopanishad – Class Notes – Part 1

कठोपनिषद् – श्रीमति वनिता रामस्वमि महोदया: कक्षा | निवेदिताया: टिप्पणी | १९-८-२०१५

उपनिषद् – पृष्ठभूमिका

सर्वान् वेदान् संकलैय्य वेदव्यासै: ऋग्वेदः यजुर्वेद: सामवेद: अथर्ववेद: च इति चतुर्वेदा: कृतम् | प्रति वेदे संहिता ब्राह्मणं आरण्यकं उपनिषद् च इति वेदस्य चतुर् भागा: कृतम् | वस्तुत: संहिता ब्राह्मणं आरण्यकं च त्रय: भागा: एव सन्ति | उपनिषद् इति आरण्यकस्य अन्तिम भाग: अस्ति | वेदे ये ये आद्यात्मिक विषया: विद्यते, तान् उपनिषद: संगृह्णुवन्ति |

उपनिषद् – निर्वचनम्

यास्काचार्यस्य निरुक्ते निर्वचननानि विद्यन्ते | षड्वेदाङ्गानिषु एक: निरुक्त: |  तत्र वेदानां ये पदा: सन्ति, तेषां पदानां निर्वचनानि सन्ति | (Derivation of Vedic words are present in Yaaskaa’s Nirukta)| तत्र सर्वं योगिकार्थ: न तु लौकिकार्थ: | “उप”, “नि” उपसर्गद्वय पूर्वक  ‘सद्’ धातो: कृत् प्रत्ययान्त रूपम् उपनिषद् शब्द: इति निरुक्ते उपनिषद् विषये अस्ति | कथम् उपनिषद् इत्युक्ते ब्रह्मविद्या ? यथा “आयुर्वै घृतम्” इति वाक्यं, धृतेन आयु: वर्तते इति कारणात्, धृतमेव आयु: इति सूचयति, तथा उपनिषद: तादर्थ: (secondary meaning) ब्रह्मविद्या इति भवति यत: उपनिषदा ब्रह्मविद्यां वयं प्राप्नूम: | “आयुर्वै घृतम्” इत्यादिवत् तादर्थेन उपनिषद् शब्दस्य “अग्निविद्या” इत्यपि अर्थ: अस्ति |

कठोपनिषद् – पृष्ठभूमिका

प्रमुखासु दशसु उपनिषत्सु  कठोपनिषत्  एका अस्ति | कठोपनिषद: अन्यं अपि नाम अस्ति काठकसंहिता अथवा काठकोपनिषद् इति | एषा उपनिषद् कृष्णयजुर्वेदीय उपनिषद् | कृष्णयजुर्वेदस्य आरण्यकानन्तर या उपनिषद् आगच्छति सा एव कठोपनिषद् | यद्यपि कृष्णयजुर्वेदीय आरण्यकम् इदानीं न उपलब्यते, तथापि कठोपनिषद् कृष्णयजुर्वेदीय आरण्यकविभागस्य अन्तिम भाग: इति निश्चय: कृत: | नचिकेतस्य कथा एव कठोपनिषदि वर्तते |

अनुबन्द चतुष्टयम्

[वेद पठनस्य पूर्वं तस्य वेदस्य ऋषिः देवता छन्दस् ज्ञातव्यम् | तादृशम् एव किमपि ग्रन्तस्य पठनात् पूर्वम् अनुबन्द चतुष्टयं किमिति ज्ञातव्यम् | तथापि एव करतलन्यस्थ आमलक वत् प्रकाशत्वेन अवगम्य शास्त्राद्ययनं कर्तुं शक्नुम: | ]

  1. विषय: – ग्रन्थप्रतिपाद्यवेद्य वस्तु विषया विद्या | परब्रह्मविद्या |
  2. अधिकारी – जिज्ञासुः | एषा विद्या अवगन्तुम् इच्छव: |
    (व्यासस्य ब्रह्मसूत्रे प्रथमसूत्रं “अथातो ब्रह्म जिज्ञासा” | ब्रह्मं ज्ञातुं इच्छा एव जीवनस्य मुख्य कार्यम् | अत्र “अथ” इत्युक्ते साधन चतुष्टयम् (Four Means of practice) कृत्वा इत्यर्थः | )
  3. प्रयोजनम् – ब्रह्मज्ञानम् | आद्यन्तिकी संसार निवृत्ति: , ब्रह्म प्राप्ति: लक्षणम् |
  4. संबन्द: – प्रतिपाद्य प्रतिपादक भाव संबन्द: | (proving the hypothesis)

महाभारते नचिकेतस्य कथा

महाभारते अपि कठोपनिषद: कथा दृश्यते एव | परन्तु तत्र किञ्चित् भेद: दृश्यते | उद्दालकस्य पुत्र: नचिकेत: | उद्दालक: स्वस्य सेवायां नचिकेतं उपयुङ्त: | एकदा स: पुत्रं प्रति एवं उक्तवान् |  “अन्यत्र मम आशक्ति आसीत् | अथ: व्याशक्तमनसा मया कुश: (दर्भ – पवित्र तृणं) इध्मम् (उदाहरणम्, अश्वत्त वृक्षस्य समिथः) इत्यादीकं नदीतीरे विस्मृतम् | तत् स्वीकृत्य गृहम् आनय |”  तेन पुत्रेण अन्विषनं कृतम् | तथापि न अवाप्तम् | नद्या: समीपे उद्दालक: निक्षिप्तवान् | नद्या: वेगात् सर्वं नद्यामेव प्राय: गतम् | नचिकेत: पुनरागतवान् | “न पश्यामि किन्चित् तत्र” इति पितरम् उक्तवान् | कोपेन उद्दालक: , “यमं पश्य |” इति झटिति पुत्रं शपितवान् | “ऋषीणां वाचम् अर्थो अनुधावति” खलु | अथ: सहसा नचिकेत: सर्वं शक्तिम् अपहाय भूमौ अपतत् | उद्दालक: एतद् दृष्ट्वा “किं मया कृतम्?” इति चिन्ताक्रान्त: अभवत् | स: तां रात्रिं परिदेवनेन तत्र एव स्थितवान् | तेन मुक्तैरक्षुभि: सिक्त: पुत्र: पुन: संज्ञां अवाप्तवान् | बहुसन्तोषेण पिता पृष्टवान् “इदानीं भवत: वपु: दिव्य शरीरं इव ज्वलति | त्वया के लोका: जिता:?” इति | “यथा भवाता उक्तं, तथैव आज्ञानुसारं यमलोकं अहं गतवान् |” इति नचिकेत: उक्तवान् | यमनचिकेतयोर्मध्ये संवाद: कठोपनिषदि यद् विद्यते तद् महाभारते नास्ति | वैवस्वत: (यम:) नचिकेतं स्वागतं कृतवान् | “अहं महर्षे: वचनम् असत्यं न करिष्यामि | परन्तु भवान् मृतवान् नास्ति | भवत: पिता यमं पश्य इत्येव उक्तवान् | भवान् गृहं प्रतिनिवर्तस्व | अहं प्रीत: अस्मि | भवान् मम अथिति: | प्रस्थानात् पूर्वं॑ अभीप्सितं वरं वृणीष्व |” इति वैवस्वत: अवदत् | नचिकेत: अवदत् “पुन्यकृतान् लोकं दृष्टुम् इच्छामि” इति |  वैवस्वतोऽपि तान् लोकान् संदर्शयामास | योगारूढेन नचिकेतेन निमिशमात्रेण सर्वं दृष्टम् | गोदानं येन कृतं तेन अनुभवितव्यानि लोकानि अपि अपश्यत् | वैवस्वत: गोदानस्य महत्वमपि उक्तवान् | वैवस्वत: नाचिकेतं “नाचिकेताग्नि:” इति यज्ञं बोदयितवान् | महाभारते उद्दालकस्य पुत्रस्य नाम नाचिकेत: न तु नचिकेत: |

{ “गतं न शोचन्ति महानुभावाः” | “जातस्य मरणं द्रुवम्” | }

कठोपनिषद: विषय:

उपनिषद् शब्दस्य को अर्थ: ? क: विषय: ?  “ब्रह्मयाथात्मज्ञानं अग्निविद्या च कठोपनिषद: शब्द वाच्यम् |” इति शंकराचार्य: वदति |  पर अपर विद्याद्वयमपि ब्रह्मविद्यां अस्ति | परम् – इहलोक सुख: — क्षीने पुण्ये मर्त्य लोकं विशन्ति | अग्निविद्याया: प्रयोजनं किम् ? “स्वर्ग कामो यजेत |” इति उच्यते | कठोपनिषदि प्रथम वल्यां विंशतितमे श्लोकात् आरभ्य तृतीय वरे प्राधान्येन ब्रह्मयाथात्मज्ञानमेव वर्तते |  अस्याम् उपनिषदि अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । कठोपनिषदि षट् वल्ल्यः विद्यन्ते |

षट् वल्ल्यः

प्रथमावल्ल्यां नचिकेत: यम समीपं गच्छति | यम: वरत्रयं ददाति | नचिकेतसा प्रार्थितो प्रथमो वर: प्रथमवल्ल्यां अस्ति | प्रथमावल्ल्यां नचिकेतसा प्रार्थितो द्वितीयो वर:, अग्निविद्या प्रार्थना, मृत्यो: वर धान प्रतिज्ञा, अपि च प्रीर्तेन यमेन दत्त चतुर्थोवर: अस्ति | द्वितीय वल्ल्यां यम: आत्मा तत्त्वस्य स्वरूप विवृणोति |

ॐ अथ कठोपनिषद्
ॐ सह नाववतु ।  सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नमः |

१.१.१ श्लोक:

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

उशन् – संतोषम् अनुभवन्

ह वै  (द्वौ निपातौ) किमपि अर्थ: न विद्यते | वृत्तस्य कारणात् द्वौ निपातौ अत्र स्त: |

[ छन्दस् अक्षराणां संख्या उद्दिश्य भवति | वृत्तरत्नाकर ग्रन्तेषु छन्दस: विवरणम् अस्ति | उदाहरणम् – गायत्री छन्दसि पादत्रयं भवति, प्रति पादेषु अष्ट अक्षराणि भवन्ति | मात्र छन्दसि ह्रस्व, दीर्घ, प्लुतः इति त्रीनि मात्राणि भवन्ति | मात्र [राम, रामा, रामा+आ – १, २, ३ syllabic instances]  | मात्र छन्दस् एव वृत्तम् (meter) | ]

वाजश्रवसः – वाजम् = अन्नम्; श्रव: = यश: ; वाजं श्रवो यस्य स: वाजश्रवस् | तस्य अपत्यम् अथवा गोत्रो जात: वाजश्रवसः |   वाजश्रवस: इति महामुनिः यस्य पूर्वजै: अन्नदानेन यश: प्राप्त: |

सर्ववेदसं ददौ = स: विश्वजित् याग: कृतवान् | तस्मिन् यागे सर्वस्वम् दातव्यम् |

तस्य ह नचिकेता नाम पुत्र आस = तस्य नचिकेत: नाम पुत्र: आसीत् |

At the end of his life, desiring Heaven, Vajasravasa (Natcheketas’ father), a pious man, sacrificed a few of his least valuable possessions.

१.१.२ श्लोक:

तँ ह कुमारँ सन्तं दक्षिणासु
नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २ ॥

तँ ह कुमारँ सन्तं = यदा स: कुमार: आसीत्

दक्षिणासु नीयमानासु = यदा दक्षिणां ददाति

श्रद्धाविवेश सोऽमन्यत = श्रद्धा आविवेश: = श्रद्धा तस्मिन् प्रवेशं कृता |

सोऽमन्यत = स: गत्वा पश्यति

नचिकेत: इदानीं बाल: एव | युवक: अपि नास्ति | पिता किं करोति, किं ददाति इति द्रष्टुम् आगतवान् |

When the gifts (consisting of cows) were being led (to the priests), faith entered him (Natcheketa), who was still a boy;

4-Sep-2015

१.१.३ श्लोक:

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३ ॥

पीतोदका = पीत+उदका: ; जग्धतृणा = जग्ध+तृणा: ; दुग्धदोहा = दुग्ध+दोहा: ; निरिन्द्रियाः = इन्द्रियेषु शक्ति एव नास्ति |

अनन्दा नाम ते लोका: स्तात् स: गच्छति ता: ददत् = न आनन्दा: अनन्दा: ; मम पिता एतादृशं गां दत्वा अनन्दा: लोका: एव गच्छति इति नचिकेत: चिन्तितवान् |

“These barren cows have yielded all their milk, ate and drunk for the last time. Joyless are the worlds attained by one who offers (give charity) such useless gifts.”

4th Sep 2015

कठोपनिषद् काठक शाकायां भवति  | अथ: काठकोपनिषद् इत्यपि उच्यते | उपनिषद् अथवा वेदान्त: इति वेदस्य अन्तिम: भाग: भवति | वेदानां सारसन्ग्रहनमेव वेदान्त: | वेदान्तशब्द: ज्ञानम्, आद्यात्माज्ञानं (spiritual knowledge) परब्रह्मण: ज्ञानं इत्यादिकं सूचयति | अस्माकं जीवने आत्मज्ञानमेव प्रधानं भवति | अन्यत् सर्वम् अपि क्षणिकसुखस्य विषय: अस्ति | यदि स्थिरसुख: प्राप्तव्यम् अस्माभि: आत्मज्ञानं प्राप्तव्यम् | अस्मिन् मार्गे अस्माकं ऋषयः चतुर्विधपुरुशार्था: इति उक्ता: | धर्मार्थकाममोक्षा: चतुर्विधपुरुषार्था: भवन्ति | तत्र धर्म: तु प्रधान्पुरुशार्थ: भवति | मोक्ष: तु परमपुरुशार्थ: भवति | अर्थकामौ निमित्तकारणौ एव स्थ: | साहायकम्, माध्यम् एव (means to the end) | कामा इति सामान्य इच्छा | नचिकेत: जीवनस्य परमपुरुशार्थ: मोक्ष: इति जानाति | अत: यम: यद्यपि तं प्रति प्रचोदयति “स्त्रियः, धनं, भोगं सर्वं अहं यच्छामि | भवान् मृत्यु विषये प्रश्नं मा करोतु” इति | नचिकेत: न स्वीकृतवान् | स: वदति “अहं एतान् सर्वान् भूगान् निरर्थकान् इति अहं जानामि | अहं अध्यात्म ज्ञानं, ब्रह्मण: ज्ञानं प्राप्तुम् एव इच्छामि” इति |

१.१.४ श्लोक:

स होवाच पितरं तत कस्मै मां दास्यसीति ।
द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

तत: स: ह पितरं उवाच “कस्मै मां दास्यसि” इति । द्वितीयं तृतीयं तँ “मृत्यवे त्वा ददामि” इति उवाच ॥ ४ ॥

[ क्रतु: = याग: = अध्वर: = होमम् ] यागात् आनन्दा: संपद: च भवेयु: | अत्र तु क्रतु: असंपत्तिनिमित्तं अभवत् | नचिकेत: चिन्तयति “विष्वजित् यागे सर्वस्य त्याग: करनीय: | मम पिता एतावत् दानं करोति चेत् अनन्दा: लोका: एव गच्छति | सुखप्राप्ति: न भवति | सत्पुत्रेण मया अनिष्टं फलं निवारनीयम् | पितु: ऋते आत्मप्रदानम् अपि कर्तुं सिद्धोऽहं | अहं युवक: अस्मि | यत्कोपि मां प्राप्नोति तस्य कृते अहं सेवां कर्तुं शक्नोमि | यदि मां ददाति चित् मम पिता आनन्दान् लोकान् गन्तुमर्हति” इति नचिकेत: अचिन्तयत् | स: पितरम् उवाच “हे तात |  मां कस्मै ददाति” इति | पिता किमपि उत्तरं न अवदत् | स: मौनेन आसीत्  | स: उपेक्षमान: | औदासीन्येन दृष्ट: | बाल: पुन: पुन: अपृच्छत् | कृद्द: पिता सद्य: उवाच “त्वां अहं मृत्यवे ददामि” इति | ऋष मुखात् अनृतं न आगच्छति | “अर्थो वाचाम् अनुदावति” | पिता बहु दु:खित: अभवत् |

Side Note: यागकार्ये चत्वार: ऋत्विजः सन्ति | ते चतुर्वेदानां प्रतिनिदय: भवन्ति | अद्वर्यु: (ऋग्), हूता (यजुर्), उद्गाता (साम), ब्रह्मा (अथर्व) इति |

१.१.५ श्लोक:

बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५ ॥

“यद्किंचित् मम पितरा उक्तम्, अहं प्रथम: बूत्वा करिष्यामि | कदापि अधम: न अभवत् | पितु: वचनम् असत्यं मा भूत् इति स: चिन्तितवान् | अहं यमस्य प्रयोजनं किं रूपेण भविष्यामि ? यदा अहं यमस्य सकाशं गमिष्यामि, तत्र  कथं मम प्रयोजनं भवति यमाय | कथमपि प्रयोजनकारी भवामि ” इति नचिकेत: चिन्तितवान् |

१.१.६ श्लोक:

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।

सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥ २००९.०१, २०१४.०१

पितरं प्रति नचिकेतस: उक्ति: | मम पितृ पितामाहा: पूर्वं यथा चिन्तितवन्त: यथा कृतवन्त: तथैव अहमपि करोमि | ऋषय: वर्तनं कथम् अभवत् ? यथा वृक्षं वा सस्यं वा पक्वं भवति तथा एव मानुषाः अपि मरणं प्राप्य पुन: जायते | एवं उक्त: नचिकेत: | अत: पिता तस्य सत्यतायै पुत्रं प्रेषयामास | स: यम भवनं गत्वा तिस्र: रात्रि: वसनम् अकरोत्  | यम: कर्तव्यस्य प्रतीक: भवति | स: कर्तव्यं प्रतिनिधिं करोति | स: गृहे न आसीत् | नचिकेत: यमस्य सेवक: | अत: यमस्य आज्ञां विना स: अन्नम् न स्वीकरोति | उदकम् अपि न स्वीकरोति | आसनम् अपि न स्वीकरोति | तिस्र: रात्र्य: यजमानस्य यमस्य निरीक्षणं कृत्वा तत्र तिष्ठति |

१.१.७ श्लोक:

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥

अनन्तरं यम: आगतवान् | यमं प्रति भार्याणां अमात्यानां च उक्ति: | अथिति सेवा अवश्यं कर्तव्या | वेशेषत: कोऽपि ब्राह्मण: आगच्छति तथा विशेषतः आदरं आदित्यं करनीयम् | वैश्वानर: इत्युक्ते अग्निः | [वैश्वानरः प्रविशति अतिथि: ब्राह्मण: गृहान् ] अथिति: अग्निस्वरूपे अभ्यागत: स्वयं विष्णु: एव | यदि अर्ग्य पाद्यादिकं सर्वं दत्वा न आदरं करोमि तर्हि स: ब्राह्मण: अग्नि: भूत्वा सर्वं दहति | अत: अथिति: गृहम् आगच्छति चेत् तस्य शान्तिं कुर्वन्ति | उदकं, पाद्यं, आसनम् इत्यादीन् दत्वा सीवां कुर्वन्ति | प्रथमम् अथिते: प्रशमनं करणीयम् | अत: उदकम् आनयितुं उवाच अमात्या: भार्या: च |

१.१.८ श्लोक:

आशाप्रतीक्षे संगतँ सूनृतां      चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो  यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥

अथिति सेवा अवश्यं कर्तव्या | कोऽपि सन्त: गृहम् आगच्छति चेत् तस्य सेवा करनीया | य: कोऽपि न करोति चित् तस्य नाशनं भवति | यदा अल्पभुद्धियुक्त: पुरुष:, गृहम् आगतं ब्राह्मणं, भाजनं विना, अभुञ्जान: गृहे स्थास्यति तदा   अथिति: तस्य सर्वं नाशयति | आशा, प्रतिक्षा, (सूनृता) प्रियवाक्, (इष्टा) यागजन्यफलानि, (पूर्तं / आपूर्तं) सुकृत कार्यं, पुत्रं, पशुं च एतद् सर्वं नाशयति | सर्वासु अवस्तासु अथिते: आदरणं करनियमेव | यत्किंचित् लब्यते तद् देयम् | अथिति: न उपेक्षनीय: | तस्य विषये औदासीन्यं न करनीयम् |

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s