Bhagavad Gita Chapter 3 summary in Sanskrit भगवद्गीता तृतीयॊऽध्यायः

भगवद्गीता तृतीयॊऽध्यायः – कर्मयोगः (गीता सोपानम् – ४)

श्रीकृष्णेन एतावत् ज्ञान-कर्म-योग विषये उपदिष्टः अर्जुनः संशयनिवारणाय पुनः पृच्छति —-

“ज्ञानं कर्मणः श्रेष्ठं इति भवान् वदति, तथापि मां एतादृशे घोरकर्मणि (युद्धे) नियोजयति च । एवं विरुद्धवचनेन मम बुद्धिमोहः भवति, अतः अस्माकं श्रेयसे किं करणीयमिति एकं निश्चित्य वदतु” ।

अर्जुनस्य सन्देहनिवारणं कुर्वन् भगवान् अवदत् । “अस्मिन् लोके साङ्ख्यानां कृते ज्ञानयोगः योगिनां कृते कर्मयोगः इति द्विविधा निष्ठा मया पूर्वं उक्ता अस्ति । कर्मणः अनाचरणं नैष्कर्म्यं न भवति, केवलं कर्मत्यागेन ज्ञानसिद्धिः अपि न भवति ।  सर्वे प्राणिनः सर्वदा कर्म कुर्वन्ति एव । सर्वे अपि स्वभावगुणैः विवशा: भूत्वा कर्म कुर्वन्ति । दम्भी कर्मेन्द्रियाणि नियम्य मनसा इन्द्रियविषयान् स्मरति, जितेन्द्रियः कर्मयोगी तु फलासक्तिं विना कर्म आचरति” ।

“अकर्मणः अपेक्षया कर्माचरणं श्रेष्ठम् । अत: त्वं नियतं कर्म आचर । कर्म न करोति चेत्, शरीरसंरक्षणमपि न भविष्यति । यज्ञात् इतरकर्माणि बन्धनं जनयन्ति, अतः त्वं फलासक्तिं त्यक्त्वा कर्म समाचर ।

सृष्टेः आदौ यज्ञसहितान् मानवान् सृष्ट्वा ब्रह्मा अवदत्  —

“यज्ञः भवतां कामधेनुः अस्ति, एतेन यज्ञेन वर्धयन्तु । यज्ञेन यूयं देवान् भावयथ, देवाः युष्मान् भावयन्तु च । एवं परस्परभावनया (दैवानुग्रहेण) युष्माकं परं श्रेयः भविष्यति । यज्ञभाविताः देवाः युष्मभ्यम् इष्टभोगान् प्रदास्यन्ति । तस्मात्- प्राप्तात् भोगात्  किञ्चिदपि वा तेभ्यः देवेभ्यः प्रत्यर्पणीयम् । यः प्रत्यर्पणं विना समस्तभोगान् स्वयं भुङ्ते स: चोरः एव” ।

यज्ञशिष्टभोगिनः सज्जना: पापमुक्ताः भवन्ति, ये स्वभोगायैव पाकं कुर्वन्ति, ते तु पापं भुञ्जते ।

उद्भवचक्रम् —

“प्राणिनाम् उत्पत्तिः अन्नात् भवति । अन्नं तु वृष्टेः कारणात्, वृष्टि: यज्ञाच्च जायते । यज्ञः कर्मसम्भव:, कर्म वेदोद्भवञ्च । सः वेद: अक्षरात् परमात्मनः जात:, अतः सर्वव्यापी ब्रह्म सर्वदा यज्ञे उपस्थितम् अस्ति । यः एवं मया व्यवस्थितं चक्रं न अनुसरति, पापात्मनः तस्य जीवनं व्यर्थं भवति” ।

“यः आत्मारामः, आत्मतृप्तः आत्मतुष्टश्च अस्ति तस्य करणीयं किमपि न विद्यते यतः आचरितेन वा अनाचरितेन वा कार्येण तस्य किमपि प्रयोजनम् नास्ति, कर्मफलसिद्ध्यर्थं तस्य न कोऽपि परालम्बः । अत: फलापेक्षां त्यक्त्वा सर्वदा कर्म कुरु । असक्तः पुरुष: कर्म कुर्वन् परमपदं प्राप्नोति” ।

“जनकादयः ज्ञानिनः कर्मयोगेन सिद्धिं प्राप्तवन्तः, अतः त्वमपि लोकहिताय कर्म आचर । श्रेष्ठः यद्यद् आचरति, इतरे जनाः तत्सर्वम् आचरन्ति, तस्य प्रमाणं सर्वे अनुसरन्ति च” ।

“यद्यपि त्रिषु लोकेषु मम न किञ्चिदपि कर्तव्यम्, मया न किमपि अप्राप्तम्, प्राप्तव्यञ्च अस्ति, तथापि अहं सर्वदा कर्मनिरतो भवामि । अहं उत्साहेन कर्म न करोमि चेत्, सर्वे मानवाः अपि मामेव अनुसरन्ति । अहं कर्म न करोमि चेत् लोकस्य हानिः भवेत् । अहं सङ्करस्य कारणं लोकनाशकश्च भवेयम्” ।

विद्वान् – अविद्वान् च —-

“यथा अज्ञानिनः सक्ताः कर्म कुर्वन्ति, तथा असक्तः विद्वान् लोकोद्धाराय कर्म आचरेत् ।

युक्त: विद्वान् कर्मसक्तानां अज्ञानिनां बुद्धिभेदं कदापि न जनयेत्, स्वयं कर्माणि समाचरन् तानि तैः कारयेत् च।

प्रकृतिविकारभूतानि इन्द्रियाणि एव कर्म कुर्वन्ति न तु आत्मा, किन्तु अज्ञानी  अहङ्कारविमूढः  ’अहं कर्ता’ इति  चिन्तयति ।

प्रकृतिजन्येन्द्रियाणां तेषां कर्मणां च विभागयो: यथार्थज्ञानी “इन्द्रियाणि विषयेषु प्रवर्तन्ते” इति ज्ञात्वा विषयेषु न सज्जते ।

मायागुणमोहिताः (प्रकृते: गुणाः = मायायाः सत्वरजस्तमो गुणाः) विषयेषु आसक्ताः भवन्ति । विद्वान् ज्ञानी कदापि तादृशान् मन्दबुद्धीन् न विचालयेत्” ।

“अतः त्वं अध्यात्ममनसा सर्वकर्माणि मयि, भगवति समर्प्य निराशी: निर्ममः भयशून्यश्च भूत्वा युद्धं कुरु” ।

“ये मम इदम् अभिप्रायं नित्यं अनुसरन्ति, श्रद्धावन्त:, असूयारहिताः ते अपि कर्मबन्धनात् मुक्ताः भवन्ति । किन्तु ये असूयाविष्टाः विपरीतम् अनुतिष्ठन्ति तान् सर्वज्ञानविमूढान्, अविवेकिनः नष्टान् इति जानीहि”  ।

“ज्ञानी अपि स्वभावानुसारमेव प्रवर्तते ।  सर्वे स्वप्रकृतिं अनुसरन्ति । तस्य निषेधेन प्रयोजनम् नास्ति ।  सर्वेषु इन्द्रियविषयेषु रागद्वेषौ तिष्ठतः। तौ शत्रू इति ज्ञात्वा ज्ञानी तयोर्वशं न गच्छेत् ।

विगुणः अपि स्वधर्मः सुष्ठु अनुष्ठितात् परधर्मात् श्रेय: भवति । स्वधर्मे मरणमपि श्रेयः, परधर्मस्तु भयदायकः भवति” ।

अनन्तरं, “मनुष्यः कस्य प्रेरणया बलात् नियोजित: इव पापं करोति“ इति अर्जुनेन पृष्टः कृष्ण: अवदत् —

“कामः क्रोधश्च रजोगुणात् सम्भवत: । कामपूर्ति: असाध्यमेव । एनं स्वशत्रुं जानीहि । यथा धूम: वह आच्छादयति, मलं दर्पणं आच्छादयति, उल्ब: गर्भं च आच्छादयति, तथा कामः ज्ञानम् आच्छादयति । एवं कामः नित्यशत्रुवत् दुष्पूरेण अग्निना ज्ञानं आच्छाद्य तिष्ठति ।  एष: कामः इन्द्रियमनोबुद्धिषु स्थित्वा आत्मानं मोहयति । अतः त्वं आदौ इन्द्रियनियमनेन ज्ञानविज्ञाननाशकं एनं पापं कामं त्यज” ।

इन्द्रियाणि उत्कृष्टानि सन्ति । मनः इन्द्रियेभ्यः उत्कृष्टं अस्ति । बुद्धिः मनसोपि उत्कृष्टा भवति, किन्तु आत्मा तु बुद्धेः अपि उत्कृष्टः । हे अर्जुन! एवं सर्वोत्कृष्टं आत्मानं विज्ञाय आत्मनियन्त्रणेन दुर्जयं कामरूपं शत्रुं नाशय” ।

अभ्यासः ——–

  • ५ श्लोकानं अन्वयम्, अन्वयार्थं, तत्पर्यार्थं च लिखत ।
    • एक वाक्येन उत्तरत –
    • कः मिथ्याचरः इति उच्यते?
    • परस्परं भावयन्तः किम् अवाप्नुवन्ति?
    • के अघं (पापं) भुञ्जते?
    • जनः कस्य किम् अनुवर्तते?
    • असक्तः विद्वान् किम् इच्छन् कर्म कुर्यात् ?
    • अहङ्कारविमूढात्मा क: ?
    • तत्ववित् किं मत्वा न सज्जते ?
    • रागद्वेषौ कुत्र व्यवस्थितौ स्तः ?
    • बुद्धि: कस्मात् परा? बुद्धेः परः कः ?
  • पञ्चवाक्यैः उत्तरत –
    • सर्वगतं ब्रह्म कथं सर्वदा यज्ञे प्रतिष्ठ्तम् इति श्रीकृष्ण: वर्णयति ?
    • अविद्वांसः अपेक्षया युक्तः विद्वान् किं किं कथं कुर्यात् इति वर्णयत ।
    • “आदौ इन्द्रियाणि नियम्य कामं प्रजहि” इति कृष्ण: अर्जुनं किमर्थं उपदिशति ? वर्णयत ।

Thanks to Sri P.N. Namboodiri who conducts the Gita Pravesha (Samskrita Bharati Gita Sopanam level 4) classes.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s