Bhagavad Gita Chapter 2 summary in Sanskrit भगवद्गीता द्वितीयॊऽध्यायः

भगवद्गीता द्वितीयॊऽध्यायः (गीता सोपानम् – ४)

“साङ्ख्ययोग:” इति द्वितीयाध्याये अर्जुनविषादस्य अनुवर्तनम् अनन्तरं गीतोपदेशस्य आरम्भश्च भवति। साङ्ख्ययोगेन ज्ञानयोगं तत्प्राप्त्यर्थं कर्मयोगमपि अत्र उक्तमस्ति। स्थितप्रज्ञस्य लक्षणम्, आचरणं तत्रापि इन्द्रियनिग्रहं च भगवान् अर्जुनाय उपदिशति।

कुरुक्षेत्र-वृत्तान्तं वर्णयन् सञ्जय:, दुःखितं अश्रुपूर्णनयनम् अर्जुनं श्रीकृष्ण: कथं सान्त्वयति, उपदिशति इति धृतराष्ट्रं अवदत् ।

“एतादृशे विषमे काले अस्वर्ग्यम् अकीर्तिकरं विषादं त्वयि न युज्यते, अतः नीचं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ” इति कृष्णेन आदिष्टः अर्जुनः पुन: दु:खेन अवदत् ।

“भीष्मद्रोणौ पूजनीयौ, कथमहम् ताभ्यां सह युद्धम् करिष्यामि? तदपेक्षया भैक्ष्यमपि श्रेयः इति अहं मन्ये, यतः एतादृशानां महानुभावानां हननेन प्राप्यमाणं सुखभोगादिकं रक्तमिश्रितं भवति। युद्धे अस्माकम् वा कौरवाणां वा जयः भवति, तयोः किं श्रेयः इत्यपि वयं न जानीमः । किन्तु शत्रुपक्षे स्थितान् कौरवान् हत्वा वयं जीवितुं न इच्छामः । एवं लोभमोहाविष्टः तव शिष्यः अहं प्रार्थये – यदस्माकं श्रेयः तद्वदतु, शरणागतं मां उपदिशतु। युद्धानन्तरं शत्रुपीडारहितं समृद्धं राज्यं देवाधिपत्यं च प्राप्नोमि चेदपि मम शोकस्य निवारणं न पश्यामि”।

अनन्तरं “युद्धं न करिष्यामि” इति उक्त्वा अर्जुनः मौनेन तिष्ठति। तदा किञ्चित् हसन् इव भगवान् कृष्णः अवदत् । अत्रैव गीतोपदेशस्य आरम्भः अस्ति । परत्मात्मज्ञानदृष्ट्या, जीवात्मज्ञानदृष्ट्या, व्यावहारिकदृष्ट्या च अर्जुनः शोचितुम् नार्हति इति वदति।

“हे अर्जुन! त्वम् अशोच्यान् प्रति शोचसि, पण्डित: इव वदसि च, किन्तु पण्डिताः मृतान् जीवितान् च प्रति न शोचन्ति। एते सर्वे, अहम्, त्वम् च इतः पूर्वं सर्वदा आसन्, इतः परं सर्वदा भविष्यन्ति च।  कौमारं, यौवनं, वृद्धत्वं इव देहिनः अन्यदेहप्राप्तिः अपि भविष्यति इति ज्ञात्वा धीरः अस्मिन् विषये कदापि न मुह्यते। विषयसंयोगजन्यं अनित्यं शीतोष्णसुखदुःखादिकं सहस्व, यतः द्वन्द्वमोहविमुक्तः एव मोक्षं अर्हति। असद्वस्तुनः भाव: (अस्तित्वं), सद्वस्तुनः अभावम् च कदापि न विद्यते। तत्त्वज्ञानिन: एव एतयोः उभयोरपि फलं जानन्ति। परमात्मा यं देही, शरीरी इत्यपि वदति, सः सर्वव्यापी, अविनाशी, नित्यः, अप्रमेयः च। कोपि तस्य विनाशं कर्तुम् न शक्नोति। एते देहाः तु नाशशीलाः इति ज्ञात्वा युद्धाय सन्नद्धो भव”।

पारमार्थिकदृष्ट्या —–

“आत्मा न हन्ति, न हन्यते च। अतः अज्ञानी एव आत्मानं हन्तारं मृतं वा मन्यते। आत्मा न जायते, न म्रियते च। जन्मरहितः, नित्यः, सनातनः, पुराणश्च आत्मा शरीरनाशे अपि न हन्यते इति जानीहि। अतः आत्मा कथं वा कमपि हन्ति, घातयति? यथा जनाः जीर्णवस्त्रम् त्यक्त्वा नूतनवस्त्रं धरन्ति, तथा देही जीर्णशरीरं त्यक्त्वा अपरं नूतनशरीरं गच्छति। आत्मानं शस्त्राणि न छिन्दन्ति, अग्निः न दहति, जलं न आर्द्रीकरोति, वायुः न शोषति। आत्मा तु नित्य:, सर्वव्यापी, स्थिरः, शाश्वत: अव्यक्तः, अचिन्त्यः, अविकारी च। एवं ज्ञात्वा त्वं शोचितुं न अर्हसि” ।

जीवात्मज्ञानदृष्ट्या —–

“यदि आत्मा संसारचक्रे पुनः पुनः जन्म, मृत्युं च  प्राप्नोति इति चिन्तयति चेदपि अत्र शोकस्य अवकाशः न। जातस्य मृत्युः, मृतस्य जन्म च अवश्यं भवति। अतः अपरिहार्ये विषये त्वं शोचितुं न अर्हसि। प्राणिनां जन्मन: पूर्वं मरणानन्तरमपि अव्यक्तं भवति, व्यक्तता केवलं मद्ध्ये, जीवनकाले एव। एतादृशे विषये किमर्थं तव शोकः विलापश्च? आत्मानं कश्चन अद्भुतेन पश्यति, अन्यः कोऽपि अद्भुतेन वदति, शृणोति वा। किन्तु कोऽपि सर्वेषां देहे स्थितम् आत्मानं सम्यक् न जानाति। आत्मानं नित्यं अवध्यं इति ज्ञात्वा अत्र त्वं शोचितुं न अर्हसि।”

व्यावहारिकदृष्ट्या ——

“धर्मानुसारेणापि अत्र न कोऽपि सन्देहः। क्षत्रियस्य, तव धर्मयुद्धात् अन्यत् किं श्रेयः अस्ति? धर्म्ययुद्धं तु उद्घाटितं स्वर्गद्वारं अस्ति यद् पुण्यशालिनः क्षत्रियाः एव प्राप्नुवन्ति। तस्य तिरस्कारॆण तव अधर्मः, अकीर्तिः पापं च भवति। जनाः तव अकीर्तिं वदन्ति, महारथाः तव सामर्त्यं निन्दन्ति, भयेन युद्धात् निवृत्तं इति चिन्तयन्ति। माननीयस्य अकीर्ति: मरणादुपरि भवति। युद्धे मृतश्चेत् स्वर्गप्राप्तिः भवति, विजयी भवति चेत् राज्यं प्राप्नोति। अतः युद्धाय दृढनिश्चय: सन् उत्तिष्ठ। एवं त्वं पापं न प्राप्स्यसि”।

कर्मयोगोपदेशः —-

भगवान् कृष्ण: साङ्ख्ययोगोपदेशानन्तरम् अर्जुनम् कर्मबन्धनाशकं कर्मयोगम् उपदिशति —- “कर्मयोगे आचरणदोषं विघ्नं वा नास्ति, एतस्य स्वल्पमपि उपासकं महतो भयात् रक्षति च। निश्चयात्मकानां बुद्धिः इतरेषां अपेक्षया एकाग्रा भवति।

अपण्डिताः वेदवाक्यरताः अपि कर्मफलं इच्छन्तः, स्वर्गप्राप्ति: एव जन्मसाफ्ल्यम् इति मत्वा तदर्थं वेदोक्तविधिना यगादि कर्माणि कुर्वन्ति। एते अज्ञानिनां बुद्धिः निश्चयात्मिका चेदपि समाधौ न वर्तते। त्रैगुण्यविषयात्मकैः वेदैः तु परमार्थज्ञानिनां ब्राह्मणानां किं प्रयोजनम्? त्वं निस्त्रैगुण्यः, निर्द्वन्द्व:, नित्यसत्वस्थः निर्योगक्षेमवान् च भव। तव अधिकारः केवलं कर्माचरणे, न तस्य फले। त्वं न कर्मफलहेतुः। तथापि अकर्मणि तव सङ्ग: अपि मास्तु। फलासक्तिं त्यक्त्वा योगम् आचरन् कर्माणि कुरु। सिद्ध्यसिद्ध्यौ समभावना एव कर्मयोगः इति जानीहि”।

“ज्ञानयोगात् फलापेक्षया कृतं कर्म अत्यन्तं नीचम् इति बुद्ध्वा त्वं ज्ञानयोगनिष्ठो भव। फलापेक्षिणः दीना: एव। ज्ञानयोगिनः कर्मफलत्यागेन जन्मबन्धविमुक्ताः भवन्ति, मोक्षं च प्राप्नुवन्ति। यदा तव बुद्धिः मोहकालुष्यं अतिक्रमति, तदा त्वं वैराग्यं प्राप्स्यसि। श्रुतिविषये संशयात्मिका बुद्धिः यदा समाधौ स्थिरा स्थास्यति, तदा त्वं योगं प्राप्स्यसि।“

स्थितप्रज्ञ:

“स्थितप्रज्ञस्य लक्षणम् आचरणं च कथं भवति?” इति अर्जुनेन पृष्ट: भगवान् एवं विवृणोति — “यदा मनोगतान् सर्वान् अभिलाषान् त्यजति, यः आत्मनि स्वयम् एव सन्तुष्टः अस्ति, सः स्थितप्रज्ञ: उच्यते। यस्य मनः दुःखेषु अनुद्विग्नं, सुखेषु स्पृहारहितं च अस्ति, य: रागभयक्रोधरहितः अस्ति, सः स्थिरबुद्धि: उच्यते। यः सर्वदा अतिस्नेहरहित: यः शुभाशुभं प्राप्य न अधिकं तुष्यति द्वेष्टि वा, तस्य प्रज्ञा प्रतिष्ठिता। कच्छपः अङ्गानि इव य:  इन्द्रियाणि विषयेभ्यः निवारयति, तस्य प्रज्ञा प्रतिष्ठिता ।“

“रॊगिणः रसाभावात् विषयान् त्यजन्ति किन्तु परमात्मज्ञानेन विषये रसः अपि अपगच्छति। विषायासक्तिः नाशस्य कारणम् अस्ति इति जानीहि। यः विषयमेव चिन्तयति तस्य विषयासक्तिः  भवति, तेन कामः, कामात् क्रोधः, क्रोधात् सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, बुद्धिनाशश्च भवति। बुद्धिनाशेन तादृशस्य विषयासक्तस्य सर्वनाशमेव सम्भवति। यस्य इन्द्रियाणि स्ववशे सन्ति, सः आसक्तिं विना विषयान् चरन्नपि सर्वदा प्रसन्नः भवति। प्रसादेन सर्वदुःखशमनम् भवति। तादृशस्य बुद्धिः समाधौ सुस्थिरा तिष्ठति। अयुक्तस्य न बुद्धिः, भावना च। भावनारहितस्य शान्ति: न भवति, अशान्तस्य सुखं च न। वायुः नद्यां नावमिव, विषयासक्तस्य इन्द्रियवशं मनः, बुद्धिं हरति। अतः यस्य इन्द्रियाणि निगृहीतानि भवन्ति तस्य प्रज्ञा प्रतिष्ठिता।“

“सामान्य जनाः लौकिकविषयेषु व्यवहरन्ति, न परमार्थचिन्तने। किन्तु संयमी आत्मतत्वविषये जागरूकः तिष्ठति, ते लौकिकविषयेषु न वर्तन्ते एव। निरन्तरं प्रविशन्तं जलप्रवाहेनापि यथा समुद्रं अचलं स्थिरं च तिष्ठति तथा यः सर्वकामा: प्रविशन्त: अपि स्थिरः तिष्ठति, सः शन्तिं आप्नोति। कामकामी तु कदापि शान्तिं न प्राप्नोति।“

“हे अर्जुन! आत्मनिष्ठस्य अवस्था एवम् अस्ति। आत्मज्ञानी कदापि न मुह्यते। तादृशः मरणकाले अपि अस्याम् अवस्थायं स्थित्वा ब्रह्मनिर्वाणं प्राप्नोति।“

अभ्यासः ——–

  • ५ श्लोकानां अन्वयम्, अन्वयार्थं, तात्पर्यार्थं च लिखत ।
  • एकवाक्येन उत्तरत –
    • युद्धभूमौ अर्जुनः दुःखेन कथम् उपविष्टः आसीत् ?
    • अर्जुनस्य स्वभावः केन अपहतः?
    • पण्डिताः कान् प्रति न शोचन्ति?
    • शीतोष्णदुःखदाः मात्रास्पर्शाः कीद्शाः?
    • के धर्म्यं युद्धं लभन्ते?
    • अव्यवसायिनां बुद्धय: कीद्शी भवति?
    • कयोः समत्वं कर्मयोगः उच्यते?
    • कदा निर्वेदं (वैराग्यं) प्राप्नोति?
    • कामकामी शान्तिं न आप्नोति। कः आप्नोति?
  • पञ्चवाक्यैः उत्तरत –
    • पारमार्थिक दृष्ट्या अर्जुनः कथं शोचितुं न अर्हति?
    • विषयम् एव ध्यायतः पुरुषस्य सर्वनाश: कथं भविष्यति?
    • स्थितप्रज्ञस्य लक्षणं वर्णयत ।

Thanks to Sri P.N. Namboodiri who conducts the Gita Pravesha (Samskrita Bharati Gita Sopanam level 4) classes.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s