Bhagavad Gita Chapter 1 summary in Sanskrit भगवद्गीता प्रथमोऽध्यायः

  1. भगवद्गीता प्रथमोध्यायः (गीता सोपानम् – ४)

भगवद्गीता आरम्भः

यदा युद्धाय सर्वे कौरवाः पाण्डवाश्च स्व-स्व सेनया सह कुरुक्षेत्रे युद्धभूमौ सम्मिलिताः आसन्, धृतराष्ट्रः सञ्जयं अपृच्छत् – “युद्धेच्छवः कुरुक्षेत्रे सम्मिलिताः मदीया: पाण्डवाश्च किम् अकुर्वन्?” इति । एतस्य उत्तररूपेण सञ्जयः तम् अवदत् ।

पाण्डव सैन्यं दृष्ट्वा राजा दुर्योधनः द्रोणाचार्यस्य समीपं गत्वा आचार्यस्य धीमता शिष्येण धृष्टद्युम्नेन व्यूढं तत् सैन्यं दर्शयति। अनन्तरं उभयो: सेनयोः अपि विशिष्टानां नायकानां परिचयं करोति । स्वसैन्ये सर्वे अपि शूराः युद्धनिपुणा: सशस्त्रा: स्व कृते प्राणान् त्यक्त्वा युद्धाय सिद्धाः इति सः अवदत् । युद्धे भीष्मॆण संरक्षितं स्वसैन्यम् अपर्याप्तं किन्तु भीमेन संरक्षितं पाण्डवसैन्यं तु पर्याप्तमस्ति इति अभिप्रायं सूचयति । अनन्तरं सः “युद्धे यथास्थानं स्थित्वा सेनाधिपतेः भीष्मस्य रक्षणं कुर्वन्तु” इति सर्वान् आदिशति । तदा भीष्मः सिंहनादं कुर्वन् स्वशङ्खम् उच्चै: अधमत् येन दुर्योधनः सन्तुष्टो जातः। तत्क्षणमेव सर्वे अपि शङ्खान्, भेरी:, पणवानकगोमुखादीन् च युगपत् विनद्य युद्धघोषम् अकुर्वन् ।

अर्जुनविषादप्रसङ्ग:     

तदा श्वेतैः हयैर्युक्ते महारथे तत्रागत: श्रीकृष्ण: स्वशङ्खं पाञ्चजन्यं, अर्जुनः देवदत्तं, भीमसेनः पौण्ड्रं, युधिष्ठिरः अनन्तविजयं, नकुलः सुघोषं, सहदेवः मणिपुष्पकम्च तथा अन्ये राजानश्च स्वस्वशङ्खम्च अधमन् । तेन घोरनादेन आकाशे भूमौ च तस्य प्रतिध्वनि: श्रुता | अत: कौरवाः भीताः अभवन् । एवं युयुत्सून् कौरवान् दृष्ट्वा, यदा शस्त्रपातः आरब्धः, अर्जुनः गाण्डीवं धृत्वा अवदत् – “हे कृष्ण ! मम रथम् उभयोः सेनयोः मध्ये स्थापयतु, कै: सह मया योद्धव्यं इति ज्ञातुं योत्स्यमानान् सर्वान् पश्यामि” । एवम् अर्जुनेन प्रार्थितः कृष्णः सेनयॊः मध्ये भीष्मद्रोणयोः अन्येषां राजानां च पुरतः रथम् अस्थापयत् ।

अर्जुनविषादः

उभयोः सेनयोः अपि अर्जुनः बान्धवान्, आचार्यान्, सुहृदश्च पश्यन् अतीव दैन्येन दु:खेन च स्वविषादं कृष्णं न्यवेदयत् । युद्धाय आगतः अर्जुनः विषादेन मोहितः अभवत् । सः एव विषादः स्वधर्माचरणे अर्जुनस्य विघ्नरूपं प्राप्नोति । पुनः युद्धेन सम्भाव्यं स्वजनहत्यापातकं विमर्श्य एतादृशात् पापात् निवर्तितुम् इच्छन् “युद्धं न करोंमि” इति युक्तियुक्तं वचनं विस्तरेण कृष्णं वदति ।

“कृष्ण !  उभयत्रापि युयुत्सुं स्वजनं दृष्ट्वा मम अङ्गानि नश्यन्ति, मुखं शुष्कं च  भवति । मम शरीरं कम्पते, अहं रोमाञ्चं अनुभवामि । गाण्डीवं हस्तात् पतति, त्वक् आधिक्येन दह्यते, अहं स्थातुमपि न शक्नोमि, मम मनः अपि भ्रमति इव भासते” ।

“बहूनि अपशकुनानि एव पश्यामि । युद्धे स्वजनं हत्वा श्रेयः न भविष्यति । अहं युद्धे विजयं, राज्यं, सुखं वा न इच्छामि, सुखभोगै: अस्माकं किम्? येषां कृते राज्यभोगसुखादिकं काङ्क्षितं, ते बान्धवाः, आचार्याः एव परस्परं योद्धुम् अत्र स्थिताः सन्ति । यद्यपि एते कौरवाः अस्माकं घातकाः, तथापि त्रैलोक्यप्राप्त्यर्थमपि एतान् हन्तुं न इच्छामि | केवलं राज्याय किम्? एतान् हत्वा अस्माकं किं सुखं, अपि तु एतत् पापं खलु? यद्यपि लोभाविष्टाः कौरवाः कुलक्षयजन्यं दोषं स्वजननाशने पापं च न पश्यन्ति, तत्र दोषम् पापं जानन्तः वयं कथं वा एतादृशं पापं आचरेम?”

अनन्तरं अर्जुनः युद्धपरिणामरूपं कुलनाशं (वंशनाशम्) तज्जन्यं पापं च वर्णयित्वा युद्धात् विरमति।

स्वजननाशनेन कुलक्षयः सम्भवति, येन सनातनकुलधर्माणां विनाशोऽपि सुनिश्चित: । धर्मे नष्टे सति समस्तं कुलं अधर्मेण आवृतं भवति, तेन कुलस्त्रीणां दूषणं, वर्णसङ्करः च भवेत् । वर्णसङ्करेण पिण्डोदकादीनां लोपेन पितरः नरके पतन्ति । एतादृशैः दोषैः सनातनकुलजातिधर्माः अपि नश्यन्ते । पुनः तादृशाः कुलघ्नाः चिरकालं नरके निवसन्ति इति वयं श्रुतवन्तः खलु?” ।

“हन्त !  राज्यसुखतृष्णया वयं महत्पापं आचरितुम् अर्थात् स्वजनमेव हन्तुं उद्युक्ता:  स्मः” । “यदि आयुधधारिणः कौरवाः प्रतिकारशून्यं निरायुधं मां हन्युः तदपि अस्माकं क्षेमतरमिति मन्ये”। एवं विलपन् विषादचित्तः अर्जुनः शरं चापञ्च त्यक्त्वा रथमध्ये उपाविशत् ।

अभ्यासः

  • एकवाक्येन उत्तरं लिखत ।
  • कौरव-पाण्डव सेनयोः नायकौ कौ?
  • भीष्मस्य शङ्खनादं श्रुत्वा दुर्योधनस्य किम् अभवत्?
  • भीष्मस्य शङ्खनादं श्रुत्वा योद्धारः किं कृतवन्तः?
  • “तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्” । कस्मात्?
  • उत्सन्नकुलधर्माणां किं भविष्यति?
  • अर्जुनस्य क्षेमतरं किम् इति सः वदति?
  • प्रथमोऽध्यायस्य एतेषां ५ श्लोकानां अन्वयम्, अन्वयार्थं, तात्पर्यार्थं च लिखत।

श्लोकाः – ६, १०, २८, ३९, ४७

  • अर्जुनविषादप्रसङ्गं वर्णयत ।
  • उभयोः सेनयोः अपि स्वजनं दृष्ट्वा अर्जुनस्य किं भवति?
  • कुलक्षयकृतं दोषं, तस्य फलं, पापं च वर्णयत ।

Thanks to Sri P.N. Namboodiri who conducts the Gita Pravesha (Samskrita Bharati Gita Sopanam level 4) classes.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s